शिवापराधक्षमापणस्तोत्रम्

आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मांविण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुंक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
बाल्ये दुःखातिरेकान्मललुलितवपुः स्तन्यपाने पिपासु-र्नो शक्तश्चेन्द्रियेभ्यो भव मलजनिता जन्तवो मां तुदन्ति ।नानारोगातिदुःखाद्रुदितपरवशः शंकरं न स्मरामिक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसंधौदष्टो नष्टो विवेकः सुतधनयुवतिस्वादसौख्ये निषण्णः ।शैवे चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढंक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
वार्धक्ये चेन्द्रियाणां विकलगतिमतश्चाधिदैवादितापैःप्राप्तै रोगैर्वियोगैर्व्यसनकृशतनोर्ज्ञप्तिहीनं च दीनम् ।मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यंक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयंपूजार्थं वा कदाचिद्बहुतरगहनेऽखण्डबिल्वीदलं वा ।नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थंक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
दुग्धैर्मध्वाज्ययुक्तैर्दधिगुडसहितैः स्नापितं नैव लिङ्गंनो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैःक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रत्यवायाकुलाढ्येश्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गानुसारे ।तत्वेऽज्ञाते विचारे श्रवणमननयोः किं निदिध्यासितव्यंक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्योहव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ।नो तप्तं गाङ्गतीरे व्रतजपनियमै रुद्रजाप्यं न जप्तंक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
नग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारोनासाग्रन्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।उन्मन्यावस्थया त्वां विगतगतिमतिः शंकरं न स्मरामिक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भिते सूक्ष्ममार्गेशान्ते स्वान्ते प्रलीने प्रकटितविभवे दिव्यरूपे शिवाख्ये ।लिङ्गाग्रे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामिक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
हृद्यं वेदान्तवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशंसत्यं शान्तस्वरूपं सकलमुनिमनःपद्मषण्डैकवेद्यम् ।जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शंकरं न स्मरामिक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शंकरेसर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे ।दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरेमोक्षार्थं कुरु चित्तवृत्तिममलामन्यैस्तु किं कर्मभिः ॥
किं यानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किंकिं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतःस्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १३
पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगोमाठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम् ।ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वंमा भूदेवं मम पशुपते जन्मजन्मान्तरेषु ॥ १४ ॥
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनंप्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितंतस्मान्मां शरणागतं करुणया त्वं रक्ष रक्षाधुना ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री गोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवापराधक्षमापणस्तोत्रं संपूर्णम् ॥

Settings