शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्

श्रीमदात्मने गुणैकसिन्धवे नमः शिवायधामलेशधूतकोकबन्धवे नमः शिवाय ।नामशेषितानमद्भवान्धवे नमः शिवायपामरेतरप्रधानबन्धवे नमः शिवाय ॥ १ ॥
कालभीतविप्रवालपाल ते नमः शिवायशूलभिन्नदुष्टदक्षफाल ते नमः शिवाय ।मूलकारणाय कालकाल ते नमः शिवायपालयाधुना दयालवाल ते नमः शिवाय ॥ २ ॥
इष्टवस्तुमुख्यदानहेतवे नमः शिवायदुष्टदैत्यवंशधूमकेतवे नमः शिवाय ।सृष्टिरक्षणाय धर्मसेतवे नमः शिवायअष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय ॥ ३ ॥
आपदद्रिभेदटङ्कहस्त ते नमः शिवायपापहारिदिव्यसिन्धुमस्त ते नमः शिवाय ।पापदारिणे लसन्नमस्तते नमः शिवायशापदोषखण्डनप्रशस्त ते नमः शिवाय ॥ ४ ॥
व्योमकेश दिव्यभव्यरूप ते नमः शिवायहेममेदिनीधरेन्द्रचाप ते नमः शिवाय ।नाममात्रदग्धसर्वपाप ते नमः शिवायकामनैकतानहृद्दुराप ते नमः शिवाय ॥ ५ ॥
ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवायजिह्मगेन्द्रकुण्डलप्रसिद्ध ते नमः शिवाय ।ब्रह्मणे प्रणीतवेदपद्धते नमः शिवायजिंहकालदेहदत्तपद्धते नमः शिवाय ॥ ६ ॥
कामनाशनाय शुद्धकर्मणे नमः शिवायसामगानजायमानशर्मणे नमः शिवाय ।हेमकान्तिचाकचक्यवर्मणे नमः शिवायसामजासुराङ्गलव्धचर्मणे नमः शिवाय ॥ ७ ॥
जन्ममृत्युघोरदुःखहारिणे नमः शिवायचिन्मयैकरूपदेहधारिणे नमः शिवाय ।मन्मनोरथावपूर्तिकारिणे नमः शिवायसन्मनोगताय कामवैरिणे नमः शिवाय ॥ ८ ॥
यक्षराजबन्धवे दयालवे नमः शिवायदक्षपाणिशोभिकाञ्चनालवे नमः शिवाय ।पक्षिराजवाहहृच्छयालवे नमः शिवायअक्षिफाल वेदपूततालवे नमः शिवाय ॥ ९ ॥
दक्षहस्तनिष्ठजातवेदसे नमः शिवायअक्षरात्मने नमद्बिडौजसे नमः शिवाय ।दीक्षितप्रकाशितात्मतेजसे नमः शिवायउक्षराजवाह ते सतां गते नमः शिवाय ॥ १० ॥
राजताचलेन्द्रसानुवासिने नमः शिवायराजमाननित्यमन्दहासिने नमः शिवाय ।राजकोरकावतंसभासिने नमः शिवायराजराजमित्रताप्रकाशिने नमः शिवाय ॥ ११ ॥
दीनमानवालिकामधेनवे नमः शिवायसूनबाणदाहकृत्कृशानवे नमः शिवाय ।स्वानुरागभक्तरत्नसानवे नमः शिवायदानवान्धकारचण्डभानवे नमः शिवाय ॥ १२ ॥
सर्वमङ्गलाकुचाप्रशायिने नमः शिवायसर्वदेवतागणातिशायिने नमः शिवायपूर्वदेवनाशसंविधायिने नमः शिवायसर्वमन्मनोजभङ्गदायिने नमः शिवाय ॥ १३ ॥
स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवायमाकरन्दसारवर्षिभाषिणे नमः शिवाय ।एकबिल्वदानतोऽपि तोषिणे नमः शिवायनैकजन्मपापजालशोषिणे नमः शिवाय ॥ १४ ॥
सर्वजीवरक्षणैकशीलिने नमः शिवायपार्वतीप्रियाय भक्तपालिने नमः शिवाय ।दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवायशर्वरीशधारिणे कपालिने नमः शिवाय ॥ १५ ॥
पाहि मामुमामनोज्ञदेह ते नमः शिवायदेहि मे वरं सिताद्रिगेह ते नमः शिवाय ।मोहितर्षिकामिनीसमूह ते नमः शिवायस्वेहितप्रसन्न कामदोह ते नमः शिवाय ॥ १६ ॥
मङ्गलप्रदाय गोतुरंग ते नमः शिवायगङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय ।सङ्गरप्रवृत्तवैरिभङ्ग ते नमः शिवायअङ्गजारये करेकुरङ्ग ते नमः शिवाय ॥ १७ ॥
ईहितक्षणप्रदानहेतवे नमः शिवायआहिताग्निपालकोक्षकेतवे नमः शिवाय ।देहकान्तिधूतरौप्यधातवे नमः शिवायगेहदुःखपुञ्जधूमकेतवे नमः शिवाय ॥ १८ ॥
त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवायदक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय ।ऋक्षराजभानुपावकाक्ष ते नमः शिवायरक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय ॥ १९ ॥
न्यङ्कुपाणये शिवंकराय ते नमः शिवायसंकटाव्धितीर्णकिंकराय ते नमः शिवाय ।पङ्कभीषिताभयंकराय ते नमः शिवायपङ्कजाननाय शंकराय ते नमः शिवाय ॥ २० ॥
कर्मपाशनाश नीलकण्ठ ते नमः शिवायशर्मदाय नर्यभस्मकण्ठ ते नमः शिवाय ।निर्ममर्षिसेवितोपकण्ठ ते नमः शिवायकुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय ॥ २१ ॥
विष्टपाधिपाय नम्रविष्णवे नमः शिवायशिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय ।इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवायकष्टनाशनाय लोकजिष्णवे नमः शिवाय ॥ २२ ॥
अप्रमेयदिव्यसुप्रभाव ते नमः शिवायसत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय ।स्वप्रकाश निस्तुलानुभाव ते नमः शिवायविप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय ॥ २३ ॥
सेवकाय मे मृड प्रसीद ते नमः शिवायभावलभ्य तावकप्रसाद ते नमः शिवाय ।पावकाक्ष देवपूज्यपाद ते नमः शिवायतावकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय ॥ २४ ॥
भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवायशक्तिकल्पितप्रपञ्चभागिने नमः शिवाय ।भक्तसंकटापहारयोगिने नमः शिवाययुक्तसन्मनःसरोजयोगिने नमः शिवाय ॥ २५ ॥
अन्तकान्तकाय पापहारिणे नमः शिवायशान्तमायदन्तिचर्मधारिणे नमः शिवाय ।संतताश्रितव्यथाविदारिणे नमः शिवायजन्तुजातनित्यसौख्यकारिणे नमः शिवाय ॥ २६ ॥
शूलिने नमो नमः कपालिने नमः शिवायपालिने विरिञ्चितुण्डमालिने नमः शिवाय ।लीलिने विशेषरुण्डमालिने नमः शिवायशीलिने नमः प्रपुण्यशालिने नमः शिवाय ॥ २७ ॥
शिवपञ्चाक्षरमुद्रांचतुष्पदोल्लासपद्यमणिघटिताम् ।नक्षत्रमालिकामिहदधदुपकण्ठं नरो भवेत्सोमः ॥ २८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवपञ्चाक्षरनक्षत्रमालास्तोत्रं संपूर्णम् ॥

Settings