शिवपादादिकेशान्तवर्णनस्तोत्रम्

कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकीकैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः ॥ १ ॥
यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगंयस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।मौर्वी दर्वीकराणामपि च परिवृढः पूस्त्रयी सा च लक्ष्यंसोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥
आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणांमातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्व-न्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥
कालारातेः कराग्रे कृतवसतिरुरः शाणशातो रिपूणांकाले काले कुलाद्विप्रवरतनयया कल्पितस्नेहलेपः ।पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तंशूलः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥
देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण ।आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदंसोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥
कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैःकण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः ।चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गःकण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्वरेन्द्रः ॥
निर्यद्दानाम्बुधारापरिमलतरलीभूतरोलम्बपाली-झंकारैः शंकराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः ।शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ताशर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥
यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-द्यन्नानि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलःसंसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८ ॥
आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गंचेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः ।रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ताकुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने ॥ ९ ॥
अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै-र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् ।अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारेःशंभोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ॥
वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा-न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् ।एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासेशोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥
नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै-श्चित्तानन्दं विधत्ते सदसि भगवतः संततं यः स नन्दी ।चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पान्तु संतोषिणो नः ॥
मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयंप्रत्युप्तानर्धररत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम् ।उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतंहृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥
स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः संभृतोपान्तभागंशुम्भत्सोपानमार्गं शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम् ।कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कैःशंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥
न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामोहृयः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा ।वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीःपीठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥
आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौपाथोजाभोगभाजी परिमृदुलतलोल्लासिपद्मादिरेखौ ।पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ॥
यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु-र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।शंभोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभेमाङ्गल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥
अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयातेशत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् ।शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त-त्संघातं चारु जङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ १८ ॥
जानुद्वन्द्वेन मीनध्वजनृवरसमुद्रोपमानेन साकंराजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ ।ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजौचारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥
आमुक्तानर्धरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची-दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण ।संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बेनित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥
संध्याकालानुरज्यद्दिनकरसरुचाकालधौतेन गाढंव्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन ।उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारोमध्यो मिध्यार्थसध्र्यङ्मम दिशतु सदा संगतिं मङ्गलानाम् ॥
नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती ।श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामंसा मा सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली ॥
आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम्दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानंवक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥
वामाङ्के विस्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाःकान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् ।अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले-र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ २४ ॥
संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् ।मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मासोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥
हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-रुद्द्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या ।मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानःसद्योजातस्य दद्यादधरमणिरसौ संपदां संचयं नः ॥
कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायांवर्णायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासंनिभायाम् ।पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्य शंभो-र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥
अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना-मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बेभक्तालीभालसज्जज्जनिमरणलिपेः कुण्डलेः कुण्डले ते ॥
याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानांयेषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् ।रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दिन्दिरेभ्य-स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये श्रीक्षणस्येक्षणेभ्यः ॥
वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभायाव्यानश्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणेदक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ ३० ॥
यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौकाश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रम् ।तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणेकालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ॥
स्वामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तींधन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली ।इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ-च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥
शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैःसूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् ।तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गंसंघं नः संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥
वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-दुत्तंसत्वं प्रयातः सुलभतरघृणास्यन्दिनञ्चन्द्रमौलेः ।तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणंवन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥
कान्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् ।सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेःश्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५ ॥
दिव्या कल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानांरुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् ।उद्वेल्लद्बाहुवल्लीविलसनसमये चामरान्दोलनीना-मुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः ॥
स्वर्गौकः सुन्दरीणां सुललितवपुषां स्वामिसेवापराणांवल्गद्भूषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि ।नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसंभावनानि ॥ ३७ ॥
स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा-स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धंगानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥
चेतो जातप्रमोदं संपदि विदधती प्राणिनां वाणिनीनांपाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला ।स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरींमायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥
देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यःसाध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः ।श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यःसर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥
ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यःकिं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।संपज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वंसंप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवपादादिकेशान्तवर्णनस्तोत्रम् संपूर्णम् ॥

Settings