चतुर्थ: प्रपाठकः

अथ पुरुषोत्तमो यस्यां निशायां तुरीयं साक्षाद्ब्रह्म । यत्र परमसंन्यासस्वरूपः कृष्णः कल्पपादपः । यत्र लक्ष्मीर्जाम्बवती राधिका विमला चन्द्रावलीसरस्वती ललितादिरिति । साक्षाद्ब्रह्मस्वरूपो जगन्नाथः अहंशेषांशज्योतीरूपः सुदर्शनो भक्तश्च । एवं पञ्चधा विभृतमिति । यत्र च मथुरा गोकुलं द्वारका वैकुण्ठपुरी श्वेतपुरी रामपुरी यमपुरी नरसिंहपुरी नरनारायणपुरी कुबेरपुरी गणेशपुरी शक्रपुरी एता देवतास्तिष्ठन्ति । यत्र रसातलपातालगङ्गारोहिणीकुण्डममृतकुण्डमित्यादिनानापुरी । यत्रान्नं सिद्वान्नम् । (शूद्रादिस्पर्शदोषरहितं ब्रह्मादिसंस्कारापेक्षारहितं यत्र श्रीजगन्नाथस्य योगमित्यर्थः । "नाभ्या आसीत्" इति मन्त्रेण, "अन्नपतेऽन्नस्य" इति मन्त्रेण, "अन्नाद्याय व्यूहध्वं सोमो राजाय भागमत्समे सुखं प्रमार्यते यशसा च बलेन च" इति मन्त्रेण, "विश्वकर्मणि स्वाहा" इति मन्त्रेण, "आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम्" इति मन्त्रेण, "पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि स्वाहा" इति मन्त्रेण, "अन्नं ब्रह्म" इति श्रुत्या च कैवल्यमुक्तिरुच्यते । यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यमुक्तिः सिद्धा भूर्भुवस्स्वर्महत्तत्त्वमित्यादि यत्र भार्गवी यमुना समुद्रममृतमयं बृन्दावनानि नीलपर्वतगोवर्धनसिंहासनं प्रासादो मणिमण्टपो विमलादिषोडशचण्डिकागोप्यो यत्र समुद्रतीरे च निरन्तरं कामधेनुबृन्दं यत्र नृसिंहादयो देवता आवरणानि यत्र न जरा न मृत्युर्न कालो न भङ्गो न जयो न विवादो न हिंसा न शान्तिर्न स्वप्न एवं लीलाकामशरीरी स्वविनोदार्थं भक्तैः सहोत्कण्ठितैस्तत्र क्रीडति कृष्णः । )
एको देवो नित्यलीलानुरक्तोभक्तव्यापी भक्तहृद्यन्तरात्मा ।कर्माध्यक्षः सर्वभूताधिवासःसाक्षी चेता केवलो निर्गुणश्च ॥
मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं भवति ॥
इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां चतुर्थ: प्रपाठकः
इति राधोपनिषत् समाप्ता

Settings