प्रणवोपनिषत् This text does not support clickable word meanings. ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ ▼ Edit Permalink Bookmark पुरस्ताद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः ।रहस्यं ब्रह्मविद्याया धृताग्निं संप्रचक्षते ॥ ▼ Edit Permalink Bookmark ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः ।शरीरं तस्य वक्ष्यामि स्थानकालत्रयं तथा ॥ ▼ Edit Permalink Bookmark तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः ।तिस्रो मात्रार्धमात्रा च प्रत्यक्षस्य शिवस्य तत् ॥ ▼ Edit Permalink Bookmark ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च ।अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ ▼ Edit Permalink Bookmark यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च ।विष्णुश्च भगवान् देव उकारः परिकीर्तितः ॥ ▼ Edit Permalink Bookmark सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च ।ईश्वरः परमो देवो मकारः परिकीर्तितः ॥ ▼ Edit Permalink Bookmark सूर्यमण्डलमाभाति ह्यकारश्चन्द्रमध्यगः ।उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः ॥ ▼ Edit Permalink Bookmark मकारश्चाग्निसंकाशो विधूमो विद्युतोपमः ।तिस्रो मात्रास्तथा ज्ञेयाः सोमसूर्याग्नितेजसः ॥ ▼ Edit Permalink Bookmark शिखा च दीपसंकाशा यस्मिन्नु परिवर्तते ।अर्धमात्रा तथा ज्ञेया प्रणवस्योपरि स्थिता ॥ ▼ Edit Permalink Bookmark पद्मसूत्रनिभा सूक्ष्मा शिखाभा दृश्यते परा ।नासादिसूर्यसंकाशा सूर्यं हित्वा तथापरम् ॥ ▼ Edit Permalink Bookmark द्विसप्ततिसहस्राणि नाडिभिस्त्वा तु मूर्धनि ।वरदं सर्वभूतानां सर्वं व्याप्यैव तिष्ठति ॥ ▼ Edit Permalink Bookmark कांस्यघण्टानिनादः स्याद्यदा लिप्यति शान्तये ।ओङ्कारस्तु तथा योज्यः श्रुतये सर्वमिच्छति ॥ ▼ Edit Permalink Bookmark यस्मिन् स लीयते शब्दस्तत्परं ब्रह्म गीयते ।सोऽमृतत्वाय कल्पते सोऽमृतत्वाय कल्पते ॥ इति ॥ ▼ Edit Permalink Bookmark इति प्रणवोपनिषत् समाप्ता ▼ Edit Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha