नवरत्नमालिका

हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनींकारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् ।कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलांफालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ १ ॥
गन्धसारघनसारचारुनवनागवल्लिरसवासिनींसान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् ।मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरींइन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ २ ॥
स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलांहारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् ।वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकांमारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥ ३ ॥
भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकांवारिराशिमणिमेखलावलयवह्नि मण्डलशरीरिणीम् ।वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकांचारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम् ॥ ४ ॥
कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस-त्पुण्डरीकमुखभेदिनीं चतरुणचण्डभानुतदिडुज्ज्वलांमण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणींमण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ॥
वारणाननमयूरवाहमुखदाहवारणपयोधरांचारणादिसुरसुन्दरीचिकुरशेखरीकृतपदाम्बुजाम् ।कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकांवारणान्तमुखपारणां मनसि भावयामि परदेवताम् ॥
पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहांपद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् ।पद्मसंभवसदाशिवान्तमयपश्चरत्नपदपीठिकांपद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ॥
आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणींआगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् ।मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनांमातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ॥
कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनींचूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् ।वालिकामधुरगण्डमण्डलमनोहराननसरोरुहांकालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥
नित्यमेव नियमेन जल्पतांभुक्तिमुक्तिफलदामभीष्टदाम् ।शंकरेण रचितां सदा जपे-न्नामरत्ननवरत्नमालिकाम् ॥ १० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नवरत्नमालिका संपूर्णा ॥

Settings