नर्मदाष्टकम्

सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितंद्विषत्सु पापजातजातकादिवारिसंयुतम् ।कृतान्तदूतकालभूतभीतिहारिवर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १ ॥
त्वदम्बुलीनदीनमीनदिव्यसंप्रदायकंकलौ मलौघभारहारिसर्वतीर्थनायकम् ।सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २ ॥
महागभीरनीरपूरपापधूतभूतलंध्वनत्समस्तपातकारिदारितापदाचलम् ।जगल्लये महाभये मृकण्डुसूनुहर्म्यदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥
गतं तदैव मे भयं त्वदम्बु वीक्षितं यदामृकण्डुसूनुशौनकासुरारिसेवितं सदा ।पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४ ॥
अलक्ष्यलक्षकिन्नरामरासुरादिपूजितंसुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५ ॥
सनत्कुमारनाचिकेतकश्यपात्रिषट्पदै-र्धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।रवीन्दुरन्तिदेवदेवराजकर्मशर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६ ॥
अलक्षलक्षलक्षपापलक्षसारसायुधंततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७ ॥
अहो धृतं स्वनं श्रुतं महेशिकेशजातटेकिरातसूतबाडबेषु पण्डिते शठे नटे ।दुरन्तपापतापहारि सर्वजन्तुशर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८ ॥
इदं तु नर्मदाष्ठकं त्रिकालमेव ये सदापठन्ति ते निरन्तरं न यन्ति दुर्गतिं कदा ।सुलभ्यदेहदुर्लभं महेशधामगौरवंपुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नर्मदाष्टकं संपूर्णम् ॥

Settings