नारदोपनिषत्

This text does not support clickable word meanings.

अथ प्रणिपत्य नारदो ब्रह्माणं प्रायुङ्क्त । अधीहि भगवन्मे किं पवित्राणां पवित्रं केन सुकरेणामृतत्वमेति । स होवाच साधुत्वे नियोगं सुलभं पवित्रं सुलभं सुकरं तद्विष्णुक्षेत्रं तत्र मृदं श्वेतं "उद्धृतासि " इत्युद्धरेत् । अमृतमेव श्वेतमृद्भवति । मूलमन्त्रद्वयं च "विष्णोर्नुकम्," "गन्धद्वारम्" इत्येताभिरभिमन्त्रयेत् । देवपितृकमाण्यारभमाणस्त्रयी नित्यमूर्ध्वपुण्ड्रं च कुर्यान्मन्त्रैः केशवादीनाम् । तत्कर्म सफलं च भवति । न रक्षांसि गृह्णीयुः । तदेवमभ्युक्तं भवति । नासादिकेशान्तमूर्ध्वपुण्ड्रं विष्णोः स्थितस्य चरणद्वयाकृति । आयतमेकाङ्गुलं पादतरोरस्य मूलम् । तदुत्पन्ने द्वे रेखे । तथैव च धृतं विष्णुना वा "आदित्यवर्णे तपस:" इति हरिद्रां श्रीफले धारयेत् । तज्जलेन श्रीबीजेन संमृज्य तत्सूक्ष्मरेखां धारयेत् । ते द्वे शाखे हंसवर्णे गायत्रीत्रिष्टुब्दैवत्ये आत्मपरमात्मदैवत्ये लक्ष्मीनारायणदैवत्ये दर्शपूर्णमासेष्टके इष्टापूर्तक्रिये . . . . .
मातृकायामेतावदेवोपलब्धम्