मायापञ्चकम्

निरुपमनित्यनिरंशकेऽप्यखण्डेमयि चिति सर्वविकल्पनादिशून्ये ।घटयति जगदीशजीवभेदंत्वघटितघटनापटीयसी माया ॥ १ ॥
श्रुतिशतनिगमान्तशोधकान-प्यहह धनादिनिदर्शनेन सद्यः ।कलुषयति चतुष्पदाद्यभिन्ना-नघटितघटनापटीयसी माया ॥ २ ॥
सुखचिदखण्डविबोधमद्वितीयंवियदनलादिविनिर्मिते नियोज्य ।भ्रमयति भवसागरे नितान्तंत्वघटितघटनापटीयसी माया ॥ ३ ॥
अपगतगुणवर्णजातिभेदेसुखचिति विप्रविडाद्यहंकृतिं च ।स्फुटयति सुतदारगेहमोहंत्वघटितघटनापटीयसी माया ॥ ४ ॥
विधिहरिहरविभेदमप्यखण्डेबत विरचय्य बुधानपि प्रकामम् ।भ्रमयति हरिहरभेदभावा-नघटितघटनापटीयसी मया ॥ ५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मायापञ्चकं संपूर्णम् ॥

Settings