Click on words to see what they mean.

वैशंपायन उवाच ।तमसाभिप्लुते लोके रजसा चैव भारत ।व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः ॥ १ ॥
ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः ।कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि ॥ २ ॥
ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत ।घोररूपं ततस्ते स्म नावेक्षन्त परस्परम् ॥ ३ ॥
ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा ।अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ॥ ४ ॥
ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ ।गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् ॥ ५ ॥
तथैव तेषां तु बलानि तानि क्रुद्धान्यथान्योन्यमभिद्रवन्ति ।गदासिखड्गैश्च परश्वधैश्च प्रासैश्च तीक्ष्णाग्रसुपीतधारैः ॥ ६ ॥
बलं तु मत्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा ।प्रमथ्य जित्वा च प्रसह्य मत्स्यं विराटमोजस्विनमभ्यधावत् ॥ ७ ॥
तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी ।विरथं मत्स्यराजानं जीवग्राहमगृह्णताम् ॥ ८ ॥
तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव ।स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः ॥ ९ ॥
तस्मिन्गृहीते विरथे विराटे बलवत्तरे ।प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम् ॥ १० ॥
तेषु संत्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः ।अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम् ॥ ११ ॥
मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा ।तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम् ॥ १२ ॥
उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः ।भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः ॥ १३ ॥
भीमसेन उवाच ।अहमेनं परित्रास्ये शासनात्तव पार्थिव ।पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः ॥ १४ ॥
स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह ।एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम् ॥ १५ ॥
सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः ।एनमेव समारुज्य द्रावयिष्यामि शात्रवान् ॥ १६ ॥
वैशंपायन उवाच ।तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् ।अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ॥ १७ ॥
मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः ।मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम् ।जनाः समवबुध्येरन्भीमोऽयमिति भारत ॥ १८ ॥
अन्यदेवायुधं किंचित्प्रतिपद्यस्व मानुषम् ।चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् ॥ १९ ॥
यदेव मानुषं भीम भवेदन्यैरलक्षितम् ।तदेवायुधमादाय मोक्षयाशु महीपतिम् ॥ २० ॥
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ ।व्यूहतः समरे तात मत्स्यराजं परीप्सतः ॥ २१ ॥
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् ।दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ॥ २२ ॥
तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः ।वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् ॥ २३ ॥
सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः ।भीमः सप्तशतान्योधान्परलोकमदर्शयत् ।नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ॥ २४ ॥
शतानि त्रीणि शूराणां सहदेवः प्रतापवान् ।युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ।भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ ॥ २५ ॥
ततो युधिष्ठिरो राजा त्वरमाणो महारथः ।अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम् ॥ २६ ॥
सुशर्मापि सुसंक्रुद्धस्त्वरमाणो युधिष्ठिरम् ।अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ २७ ॥
ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः ।समासाद्य सुशर्माणमश्वानस्य व्यपोथयत् ॥ २८ ॥
पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः ।अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत् ॥ २९ ॥
चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः ।स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा ॥ ३० ॥
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः ।गदामस्य परामृश्य तमेवाजघ्निवान्बली ।स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ॥ ३१ ॥
भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य कुण्डली ।त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा ॥ ३२ ॥
तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे ।अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् ॥ ३३ ॥
निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः ।अवजित्य सुशर्माणं धनं चादाय सर्वशः ॥ ३४ ॥
स्वबाहुबलसंपन्ना ह्रीनिषेधा यतव्रताः ।संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ॥ ३५ ॥
ततो विराटः कौन्तेयानतिमानुषविक्रमान् ।अर्चयामास वित्तेन मानेन च महारथान् ॥ ३६ ॥
विराट उवाच ।यथैव मम रत्नानि युष्माकं तानि वै तथा ।कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् ॥ ३७ ॥
ददान्यलंकृताः कन्या वसूनि विविधानि च ।मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ॥ ३८ ॥
युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह ।तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ॥ ३९ ॥
वैशंपायन उवाच ।तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक् ।ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः ॥ ४० ॥
प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते ।एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः ॥ ४१ ॥
अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम् ।पुनरेव महाबाहुर्विराटो राजसत्तमः ।एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान् ॥ ४२ ॥
मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण ।तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान् ॥ ४३ ॥
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा ।वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते ॥ ४४ ॥
त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च ।यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ॥ ४५ ॥
ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत ।प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे ॥ ४६ ॥
आनृशंस्यपरो नित्यं सुसुखः सततं भव ।गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव ।सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ ४७ ॥
ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् ।आचक्षध्वं पुरं गत्वा संग्रामे विजयं मम ॥ ४८ ॥
कुमाराः समलंकृत्य पर्यागच्छन्तु मे पुरात् ।वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः ॥ ४९ ॥
ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति ।विराटस्य पुराभ्याशे दूता जयमघोषयन् ॥ ५० ॥
« »