४।३१ महाभारतम् Click on words to see what they mean. वैशंपायन उवाच ।निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः ।त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति ॥ १ ॥ ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः ।अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः ॥ २ ॥ भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः ।ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ॥ ३ ॥ तेषां समागमो घोरस्तुमुलो लोमहर्षणः ।देवासुरसमो राजन्नासीत्सूर्ये विलम्बति ॥ ४ ॥ उदतिष्ठद्रजो भौमं न प्रज्ञायत किंचन ।पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः ॥ ५ ॥ इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत ।खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत ॥ ६ ॥ रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम् ।पततां लोकवीराणां सव्यदक्षिणमस्यताम् ॥ ७ ॥ रथा रथैः समाजग्मुः पादातैश्च पदातयः ।सादिभिः सादिनश्चैव गजैश्चापि महागजाः ॥ ८ ॥ असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि ।संरब्धाः समरे राजन्निजघ्नुरितरेतरम् ॥ ९ ॥ निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः ।न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान् ॥ १० ॥ कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशमलंकृतम् ।अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम् ॥ ११ ॥ अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः ।शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे ॥ १२ ॥ नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः ।आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ॥ १३ ॥ उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता ।कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत ॥ १४ ॥ शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम् ।प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ ।आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि ॥ १५ ॥ लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् ।जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः ॥ १६ ॥ विराटस्तत्र संग्रामे हत्वा पञ्चशतान्रथान् ।हयानां च शतान्यत्र हत्वा पञ्च महारथान् ॥ १७ ॥ चरन्स विविधान्मार्गान्रथेषु रथयूथपः ।त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ॥ १८ ॥ तौ व्यावहरतां तत्र महात्मानौ महाबलौ ।अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव ॥ १९ ॥ ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः ।शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव ॥ २० ॥ अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ ।कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ ॥ २१ ॥ ततो राजा सुशर्माणं विव्याध दशभिः शरैः ।पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान् ॥ २२ ॥ तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः ।पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित् ॥ २३ ॥ ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः ।नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते ॥ २४ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha