Click on words to see what they mean.

लोमश उवाच ।समुद्रं स समासाद्य वारुणिर्भगवानृषिः ।उवाच सहितान्देवानृषींश्चैव समागतान् ॥ १ ॥
एष लोकहितार्थं वै पिबामि वरुणालयम् ।भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ॥ २ ॥
एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः ।समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः ॥ ३ ॥
पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः ।विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ॥ ४ ॥
त्वं नस्त्राता विधाता च लोकानां लोकभावनः ।त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् ॥ ५ ॥
संपूज्यमानस्त्रिदशैर्महात्मा गन्धर्वतूर्येषु नदत्सु सर्वशः ।दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निःसलिलं चकार ॥ ६ ॥
दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः ।प्रगृह्य दिव्यानि वरायुधानि तान्दानवाञ्जघ्नुरदीनसत्त्वाः ॥ ७ ॥
ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगिभिरुन्नदद्भिः ।न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम् ॥ ८ ॥
ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनाः ।चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत ॥ ९ ॥
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः ।यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ॥ १० ॥
ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः ।निहत्य बह्वशोभन्त पुष्पिता इव किंशुकाः ॥ ११ ॥
हतशेषास्ततः केचित्कालेया मनुजोत्तम ।विदार्य वसुधां देवीं पातालतलमाश्रिताः ॥ १२ ॥
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुंगवम् ।तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः ॥ १३ ॥
त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम् ।त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः ॥ १४ ॥
पूरयस्व महाबाहो समुद्रं लोकभावन ।यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज ॥ १५ ॥
एवमुक्तः प्रत्युवाच भगवान्मुनिपुंगवः ।जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् ।पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ॥ १६ ॥
एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः ।विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः ॥ १७ ॥
परस्परमनुज्ञाप्य प्रणम्य मुनिपुंगवम् ।प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ॥ १८ ॥
त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् ।पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ।ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् ॥ १९ ॥
« »