द्रौपद्युवाच ।पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् ।विह्वलास्मि कृतानेन कर्षता बलिना बलात् ॥ १ ॥
अभिवादं करोम्येषां गुरूणां कुरुसंसदि ।न मे स्यादपराधोऽयं यदिदं न कृतं मया ॥ २ ॥
वैशंपायन उवाच ।सा तेन च समुद्धूता दुःखेन च तपस्विनी ।पतिता विललापेदं सभायामतथोचिता ॥ ३ ॥
द्रौपद्युवाच ।स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः ।न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता ॥ ४ ॥
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे ।साहमद्य सभामध्ये दृश्यामि कुरुसंसदि ॥ ५ ॥
यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे ।स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना ॥ ६ ॥
मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम् ।स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ॥ ७ ॥
किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा ।सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ॥ ८ ॥
धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् ।स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ॥ ९ ॥
कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती ।वासुदेवस्य च सखी पार्थिवानां सभामियाम् ॥ १० ॥
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् ।ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः ॥ ११ ॥
अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः ।क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः ॥ १२ ॥
जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः ।तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ॥ १३ ॥
भीष्म उवाच ।उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम् ।लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः ॥ १४ ॥
बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः ।स धर्मो धर्मवेलायां भवत्यभिहितः परैः ॥ १५ ॥
न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात् ।सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ॥ १६ ॥
नूनमन्तः कुलस्यास्य भविता नचिरादिव ।तथा हि कुरवः सर्वे लोभमोहपरायणाः ॥ १७ ॥
कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् ।धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता ॥ १८ ॥
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् ।यत्कृच्छ्रमपि संप्राप्ता धर्ममेवान्ववेक्षसे ॥ १९ ॥
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः ।शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ॥ २० ॥
युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः ।अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति ॥ २१ ॥
वैशंपायन उवाच ।तथा तु दृष्ट्वा बहु तत्तदेवं रोरूयमाणां कुररीमिवार्ताम् ।नोचुर्वचः साध्वथ वाप्यसाधु महीक्षितो धार्तराष्ट्रस्य भीताः ॥ २२ ॥
दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रांस्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः ।स्मयन्निवेदं वचनं बभाषे पाञ्चालराजस्य सुतां तदानीम् ॥ २३ ॥
तिष्ठत्वयं प्रश्न उदारसत्त्वे भीमेऽर्जुने सहदेवे तथैव ।पत्यौ च ते नकुले याज्ञसेनि वदन्त्वेते वचनं त्वत्प्रसूतम् ॥ २४ ॥
अनीश्वरं विब्रुवन्त्वार्यमध्ये युधिष्ठिरं तव पाञ्चालि हेतोः ।कुर्वन्तु सर्वे चानृतं धर्मराजं पाञ्चालि त्वं मोक्ष्यसे दासभावात् ॥ २५ ॥
धर्मे स्थितो धर्मराजो महात्मा स्वयं चेदं कथयत्विन्द्रकल्पः ।ईशो वा ते यद्यनीशोऽथ वैष वाक्यादस्य क्षिप्रमेकं भजस्व ॥ २६ ॥
सर्वे हीमे कौरवेयाः सभायां दुःखान्तरे वर्तमानास्तवैव ।न विब्रुवन्त्यार्यसत्त्वा यथावत्पतींश्च ते समवेक्ष्याल्पभाग्यान् ॥ २७ ॥
ततः सभ्याः कुरुराजस्य तत्र वाक्यं सर्वे प्रशशंसुस्तदोच्चैः ।चेलावेधांश्चापि चक्रुर्नदन्तो हा हेत्यासीदपि चैवात्र नादः ।सर्वे चासन्पार्थिवाः प्रीतिमन्तः कुरुश्रेष्ठं धार्मिकं पूजयन्तः ॥ २८ ॥
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः ।किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ॥ २९ ॥
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः ।भीमसेनो यमौ चेति भृशं कौतूहलान्विताः ॥ ३० ॥
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् ।प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् ॥ ३१ ॥
यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः ।न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ॥ ३२ ॥
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः ।मन्यते जितमात्मानं यद्येष विजिता वयम् ॥ ३३ ॥
न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन् ।मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ॥ ३४ ॥
पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव ।नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ॥ ३५ ॥
धर्मपाशसितस्त्वेवं नाधिगच्छामि संकटम् ।गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ॥ ३६ ॥
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव ।धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः ॥ ३७ ॥
तमुवाच तदा भीष्मो द्रोणो विदुर एव च ।क्षम्यतामेवमित्येवं सर्वं संभवति त्वयि ॥ ३८ ॥