भीम उवाच ।भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर ।न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि ॥ १ ॥
काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् ।तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् ॥ २ ॥
वाहनानि धनं चैव कवचान्यायुधानि च ।राज्यमात्मा वयं चैव कैतवेन हृतं परैः ॥ ३ ॥
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् ।इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते ॥ ४ ॥
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः ।त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः ॥ ५ ॥
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते ।बाहू ते संप्रधक्ष्यामि सहदेवाग्निमानय ॥ ६ ॥
अर्जुन उवाच ।न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः ।परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ॥ ७ ॥
न सकामाः परे कार्या धर्ममेवाचरोत्तमम् ।भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति ॥ ८ ॥
आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन् ।दीव्यते परकामेन तन्नः कीर्तिकरं महत् ॥ ९ ॥
भीमसेन उवाच ।एवमस्मिकृतं विद्यां यद्यस्याहं धनंजय ।दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ॥ १० ॥
वैशंपायन उवाच ।तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः ।क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत् ॥ ११ ॥
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः ।अविवेकेन वाक्यस्य नरकः सद्य एव नः ॥ १२ ॥
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ ।समेत्य नाहतुः किंचिद्विदुरश्च महामतिः ॥ १३ ॥
भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च ।अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ॥ १४ ॥
ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः ।कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ॥ १५ ॥
यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा ।विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ॥ १६ ॥
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः ।न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ॥ १७ ॥
उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन् ।पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत् ॥ १८ ॥
विब्रूत पृथिवीपाला वाक्यं मा वा कथंचन ।मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः ॥ १९ ॥
चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् ।मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् ॥ २० ॥
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते ।तथायुक्तेन च कृतां क्रियां लोको न मन्यते ॥ २१ ॥
तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् ।समाहूतेन कितवैरास्थितो द्रौपदीपणः ॥ २२ ॥
साधारणी च सर्वेषां पाण्डवानामनिन्दिता ।जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ॥ २३ ॥
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना ।एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ॥ २४ ॥
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत ।विकर्णं शंसमानानां सौबलं च विनिन्दताम् ॥ २५ ॥
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः ।प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ॥ २६ ॥
दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि ।तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः ॥ २७ ॥
एते न किंचिदप्याहुश्चोद्यमानापि कृष्णया ।धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् ॥ २८ ॥
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे ।यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम् ॥ २९ ॥
न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर ।यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः ॥ ३० ॥
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज ।यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ॥ ३१ ॥
अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ ।एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ॥ ३२ ॥
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः ।भवत्यविजिता केन हेतुनैषा मता तव ॥ ३३ ॥
मन्यसे वा सभामेतामानीतामेकवाससम् ।अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् ॥ ३४ ॥
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन ।इयं त्वनेकवशगा बन्धकीति विनिश्चिता ॥ ३५ ॥
अस्याः सभामानयनं न चित्रमिति मे मतिः ।एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता ॥ ३६ ॥
यच्चैषां द्रविणं किंचिद्या चैषा ये च पाण्डवाः ।सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ॥ ३७ ॥
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः ।पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ॥ ३८ ॥
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत ।अवकीर्योत्तरीयाणि सभायां समुपाविशन् ॥ ३९ ॥
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् ।सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे ॥ ४० ॥
आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते ।तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥ ४१ ॥
ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः ।तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् ॥ ४२ ॥
शशाप तत्र भीमस्तु राजमध्ये महास्वनः ।क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् ॥ ४३ ॥
इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः ।नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ॥ ४४ ॥
यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः ।पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम् ॥ ४५ ॥
अस्य पापस्य दुर्जातेर्भारतापसदस्य च ।न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ॥ ४६ ॥
तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् ।प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥ ४७ ॥
यदा तु वाससां राशिः सभामध्ये समाचितः ।ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ॥ ४८ ॥
धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः ।सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा ॥ ४९ ॥
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह ।स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ॥ ५० ॥
ततो बाहू समुच्छ्रित्य निवार्य च सभासदः ।विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ॥ ५१ ॥
विदुर उवाच ।द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् ।न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ॥ ५२ ॥
सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् ।तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥ ५३ ॥
धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः ।विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः ॥ ५४ ॥
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः ।भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ॥ ५५ ॥
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः ।अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ॥ ५६ ॥
यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः ।अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः ॥ ५७ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ॥ ५८ ॥
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः ।कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ॥ ५९ ॥
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा ।तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ॥ ६० ॥
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् ।ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ॥ ६१ ॥
स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत् ।तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् ॥ ६२ ॥
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि ।शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति ॥ ६३ ॥
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् ।जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ॥ ६४ ॥
प्रह्लाद उवाच ।त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च ।ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु ॥ ६५ ॥
यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत् ।के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ॥ ६६ ॥
कश्यप उवाच ।जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात् ।सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥ ६७ ॥
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते ।तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ॥ ६८ ॥
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते ।न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥ ६९ ॥
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु ।पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ॥ ७० ॥
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः ।एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ ७१ ॥
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते ।इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् ॥ ७२ ॥
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत् ।ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् ॥ ७३ ॥
स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत् ।अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च ॥ ७४ ॥
एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः ।तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् ॥ ७५ ॥
समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात् ।तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥ ७६ ॥
विदुर उवाच ।कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् ।श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः ॥ ७७ ॥
माता सुधन्वनश्चापि श्रेयसी मातृतस्तव ।विरोचन सुधन्वायं प्राणानामीश्वरस्तव ॥ ७८ ॥
सुधन्वोवाच ।पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः ।अनुजानामि ते पुत्रं जीवत्वेष शतं समाः ॥ ७९ ॥
विदुर उवाच ।एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः ।यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ॥ ८० ॥
वैशंपायन उवाच ।विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः ।कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय ॥ ८१ ॥
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् ।दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ॥ ८२ ॥