लिङ्गोपनिषत्

This text does not support clickable word meanings.

गुरुरिति । गुरूणां सर्वज्ञानिनां गुरुणा दत्तमेतदन्नं परब्रह्म । ब्रह्म स्वानुभूतिः । गुरुः शिवो देवः । गुरुः शिव एव लिङ्गम् । उभयोर्मिश्रप्रकाशत्वात् । प्राणवत्त्वात् महेश्वरत्वाच्च शिवस्तदैव गुरुः । यत्र गुरुस्तत्र शिवः । शिवगुरुस्वरूपो महेश्वरः । भ्रमरकीटकार्येण दीक्षिताः शिवयोगिनः शिवपूजापथे गुरुपूजाविधौ च महेश्वरपूजनान्मुक्ताः । लिङ्गाभिषेकं निर्माल्यं गुरोरभिषेकतीर्थं महेश्वरपादोदकं जन्ममालिन्यं क्षालयन्ति । तेषां प्रीतिः शिवप्रीतिः । तेषां तृप्तिः शिवतृप्तिः । तैश्च पावनो वासः । तेषां निरसनं शिवनिरसनम् । आनन्दपरायणः । तस्माच्छिवं व्रजन्तु । गुरुं व्रजन्तु । इत्येव पावनम् ॥
इति रुद्रोपनिषत् समाप्ता
ॐ धर्मजिज्ञासा । ज्ञानं बुद्धिश्च । ज्ञानान्मोक्षकारणम् । मोक्षान्मुक्तिस्वरूपम् । तथा ब्रह्मज्ञानाद्बुद्धिश्च । लिङ्गैक्यं देहो लिङ्गभेदे न । अज्ञानात् ज्ञानं बुद्धिश्च । चतुर्वर्णानां धारणां कुर्यात् । पशुपक्षिमृगकीटकलिङ्गधारणमुच्यते । पञ्चबन्धस्वरूपेण पञ्चबन्धा ज्ञानस्वरूपाः । पिण्डाज्जननम् । तज्जननकाले धारणमुच्यते । "सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रम्", "अयं मे हस्तो भगवान्" इति धारयेत् । "या ते रुद्र शिवा तनूरघोराऽपापकाशिनी", "रुद्रपते जनिमा चारु चित्रम्", "वयं सोम व्रते तव । मनस्तनुषु बिभ्रतः । प्रजावन्तो अशीमहि ।", "त्रियम्बकं यजामहे" इति धारयेत् । ब्राह्मणानां धारणां कुर्यात् । "पवित्रं ते विततंब्रह्मणस्पते ", "सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् । अवस्यतं मुंचतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् । सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् ।" इति प्राकट्यं कुर्यात् । न कुर्यात्पशुभाषणम् । श्रौतानामुपनयनकाले धारणम् । चतुर्थाश्रमः संन्यासः । पञ्चमो लिङ्गधारणम् । अत्याश्रमाणां मध्ये लिङ्गधारी श्रेष्ठो भवति । शिरसि महादेवस्तिष्ठतु इति धारयेत् । अन्यायो न्यायः । पृथिव्यापस्तेजो वायुराकाश इति पञ्चस्वरूपं लिङ्गम् । त्वक्च्छ्रोत्रनेत्रजिह्वाप्राणपञ्चस्वरूपमिति लिङ्गम् । रेतोबुद्ध्यापमनस्स्वरूपमिति लिङ्गम् । सङ्कल्प इति लिङ्गम् । ज्योतिरहं विरजा विपाप्मां भूयासं स्वरूपमिति लिङ्गम् । व्रतं चरेत् । संतिष्ठेन्नियमेन । सर्वं शाम्भवीरूपम् । शाम्भवी विद्योच्यते । चरेदेतानि सूत्राणि । पञ्चमुखं पञ्चस्वरूपं पञ्चाक्षरं पञ्चसूत्रं ज्ञानम् । सिद्धिर्भवत्येव । ज्ञानाद्धारणं लिङ्गदेहप्रकार उच्यते । शिरःपाणिपादपायूपस्थं सर्वं लिङ्गस्वरूपम् । ब्राह्मणो वदेत् ।
ओङ्कारो बाणः शक्तिरेव पीठं सिन्दूरवर्णं सर्वं लिङ्गस्वरूपम् । कैवल्यं केवलं विद्यात् । व्यवहारपरः स्यात् । प्राण एव प्राणः । पूर्वं ब्रह्मा पीठम् । विष्णुर्बाणः । रुद्रः स्वरूपम् । सर्वभूतैरथापरित्याज्यश्च । विग्रहमनुग्रहलिङ्गेषु शक्तिकपालेषु सर्ववशङ्करं विद्यात् । जातिविषयान् त्यजेत् । श्रौताश्रौतेषु धारणम् । वेदोक्तविधिना श्रौतं तद्रहितमश्रौतम् । सर्ववर्णेषु धारणं कैलाससिद्धिर्भवति । धारणं देहे कैलासस्वरूपम् । धारणं देहे कैवल्यस्वरूपम् । धारणं देहे प्रणवस्वरूपम् । धारणं देहे वेदस्वरूपम् । धारणं देहे ब्रह्मस्वरूपम् । धारणं देहे शिवस्वरूपम् । शिरसि बाणं बाहुनाभिपीठप्रकृतिरूपकं देहे धारणं यस्य न विद्यते तद्देहं न पश्येत् । शिरःकपालं केशान् न कुर्यात् । शिरः पीठं लिङ्गात्मकं सर्वम् ।
शाम्भवीविग्रह उच्यते । प्राणादिलिङ्गस्वरूपं गुरोर्लिङ्गम् । गुरुसंभवात्मकं लिङ्गं प्रगुरोः । ततः प्रथमं प्रणिपतति । प्रणवस्वरूपं लिङ्गं ब्रह्मलिङ्गम् । प्रकाशात्मकं लिङ्गं विद्यालिङ्गम् । विद्यालिङ्गं ज्ञानस्वरूपम् । लिङ्गं प्रचरेच्छास्त्रात् । लिङ्गस्वरूपेयं सिद्विर्भविष्यति । सर्वदेहेषु लिङ्गधारणं भवति । इति वेदपुरुषो मन्यते । महापुरुषोपेतं यो वेद स एव नित्यपूतस्थः । स एव नित्यपूतस्थ: स्याद्दैवलौकिकः पुरुषः । स एवामुष्मिकपुरुष इति मन्यन्ते । जीवात्मा परमात्मा च स एवोच्यते । इष्टप्राणाभावेषु लिङ्गधारणं वदन्ति । इष्टे धारणम् । तिस्रः पुरस्त्रिपदा विश्वचर्षणी । पुरनाशे लिङ्गस्वरूपाज्ञासिद्धिर्भवत्यवज्ञानेऽसति । संयुक्तं लिङ्गं मोक्ष एव भवत्येव । मोक्षमेव धारणं विद्यात् । उशंतीव मातरं कुर्यात् । इत्येवं वेदेत्युपनिषत् । ॐ तत्सत् ॥
इति लिङ्गोपनिषत् समाप्ता