८ कुमारसम्भवम् Click on words to see what they mean. पाणिपीडनविधेर् अनन्तरं शैलराजदुहितुर् हरं प्रति ।भावसाध्वसपरिग्रहाद् अभूत् कामदोहदमनोहरं वपुः ॥ व्याहृता प्रतिवचो न सन्दधे गन्तुम् ऐच्छद् अवलम्बितांशुका ।सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥ कैतवेन शयिते कुतूहलात् पार्वती प्रतिमुखं निपातितम् ।चक्षुर् उन्मिषति सस्मितं प्रिये विद्युदाहतम् इव न्यमीलयत् ॥ नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः ।तद्दुकूलम् अथ चाभवत् स्वयं दूरम् उच्छ्वसितनीविबन्धनम् ॥ एवम् आलि निगृहीतसाध्वसं शङ्करो रहसि सेव्यताम् इति ।सा सखीभिर् उपदिष्टम् आकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥ अप्य् अवस्तुनि कथाप्रवृत्तये प्रश्नतत्परम् अनङ्गशासनम् ।वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयम् उत्तरं ददौ ॥ शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्य् अभूत् ॥ चुम्बनेष्व् अधरदानवर्जितं सन्नहस्तम् अदयोपगूहने ।क्लिष्टमन्मथम् अपि प्रियं प्रभोर् दुर्लभप्रतिकृतं वधूरतम् ॥ यन् मुखग्रहणम् अक्षताधरं दत्तम् अव्रणपदं नखं च यत् ।यद् रतं च सदयं प्रियस्य तत् पार्वती विषहते स्म नेतरत् ॥ रात्रिवृत्तम् अनुयोक्तुम् उद्यतं सा विभातसमये सखीजनम् ।नाकरोद् अपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे ॥ दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।प्रेक्ष्य बिम्बम् अनु बिम्बम् आत्मनः कानि कानि न चकार लज्जया ॥ नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् ।भर्तृवल्लभतया हि मानसीं मातुर् अस्यति शुचं वधूजनः ॥ वासराणि कतिचित् कथञ्चन स्थाणुना रतम् अकारि चानया ।ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥ सस्वजे प्रियम् उरोनिपीडिता प्रार्थितं मुखम् अनेन नाहरत् ।मेखलापणयलोलतां गतं हस्तम् अस्य शिथिलं रुरोध सा ॥ भावसूचितम् अदृष्टविप्रियं चाटुमत् क्षणवियोगकातरम् ।कैश्चिद् एव दिवसैस् तदा तयोः प्रेम रूढम् इतरेतराश्रयम् ॥ तं यथात्मसदृशं वरं वधूर् अन्वरज्यत वरस् तथैव ताम् ।सागराद् अनपगा हि जाह्नवी सो ऽपि तन्मुखरसैकनिर्वृतिः ॥ शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया ।शिक्षितं युवतिनैपुणं तया यत् तद् एव गुरुदक्षिणीकृतम् ॥ दष्टमुक्तम् अधरोष्ठम् आम्बिका वेदनाविधुतहस्तपल्लवा ।शीतलेन निरवापयत् क्षणं मौलिचन्द्रशकलेन शूलिनः ॥ चुम्बनादलकचूर्णदूषितं शङ्करो ऽपि नयनं ललाटजम् ।उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ एवम् इन्द्रियसुखस्य वर्त्मनः सेवनाद् अनुगृहीतमन्मथः ।शैलराजभवने सहोमया मासमात्रम् अवसद् वृषध्वजः ॥ सो ऽनुमान्य हिमवन्तम् आत्मभूर् आत्मजाविरहदुःखखेदितम् ।तत्र तत्र विजहार संपतन्न् अप्रमेयगतिना ककुद्मता ॥ मेरुम् एत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान् कृती ।हेमपल्लवविभङ्गसंस्तरान् अन्वभूत् सुरतमर्दनक्षमान् ॥ पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्व् अमृतविप्रुषो नवाः ।मन्दरस्य कटकेषु चावसत् पार्वतीवदनपद्मषट्पदः ॥ वारणध्वनितभीतया तया कण्ठसक्तघनबाहुबन्धनः ।एकपिङ्गलगिरौ जगद्गुरुर् निर्विवेश विशदाः शशिप्रभाः ॥ तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् ।आचचाम सलवङ्गकेसरश् चाटुकार इव दक्षिणानिलः ॥ हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।खे व्यगाहत तरङ्गिणीम् उमा मीनपङ्क्तिपुनरुक्तमेखला ॥ तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।नन्दने चिरम् अयुग्मलोचनः सस्पृहं सुरवधूभिर् ईक्षितः ॥ इत्य् अभौमम् अनुभूय शङ्करः पार्थिवं च दयितासखः सुखम् ।लोहितायति कदाचिद् आतपे गन्धमादनगिरिं व्यगाहत ॥ तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यम् अवलोक्य भास्करम् ।दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ॥ पद्मकान्तिम् अरुणत्रिभागयोः संक्रमय्य तव नेत्रयोर् इव ।संक्षये जगद् इव प्रजेश्वरः संहरत्य् अहर् असाव् अहर्पतिः ॥ सीकरव्यतिकरं मरीचिभिर् दूरयत्य् अवनते विवस्वति ।इन्द्रचापपरिवेषशून्यतां निर्झरास् तव पितुर् व्रजन्त्य् अमी ॥ दष्टतामरसकेसरस्रजोः क्रन्दतोर् विपरिवृत्तकण्ठयोः ।निघ्नयोः सरसि चक्रवाकयोर् अल्पम् अन्तरम् अनल्पतां गतम् ॥ स्थानम् आह्निकम् अपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।आविभातचरणाय गृह्णाते वारि वारिरुहबद्धषट्पदम् ॥ पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता ।दीर्घया प्रतिमया सरो ऽम्भसां तापनीयम् इव सेतुबन्धनम् ॥ उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्क्तम् अतिवाहितातपाः ।दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ॥ एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः ।हीयमानम् अहर् अत्ययातपं पीवरोरु पिबतीव बर्हिणः ॥ पूर्वभागतिमिरप्रवृत्तिभिर् व्यक्तपङ्कम् इव जातम् एकतः ।खं हृतातपजलं विवस्वता भाति किञ्चिद् इव शेषवत् सरः ॥ आविशद्भिर् उटजाङ्गणं मृगैर् मूलसेकसरसैश् च वृक्षकैः ।आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियम् उदीरिताग्नयः ॥ बद्धकोशम् अपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वम् इव दातुम् अन्तरम् ॥ दूरमग्रपरिमेयरश्मिना वारुणी दिग् अरुणेन भानुना ।भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥ सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः ।भानुम् अग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥ सो ऽयम् आनतशिरोधरैर् हयैः कर्णचामरविघट्टितेक्षणैः ।अस्तम् एति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥ खं प्रसुप्तम् इव संस्थिते रवौ तेजसो महत ईदृशी गतिः ।तत् प्रकाशयति यावद् उद्गतं मीलनाय खलु तावतश् च्युतम् ॥ संध्ययाप्य् अनुगतं रवेर् वपुर् वन्द्यम् अस्तशिखरे समर्पितम् ।येन पूर्वम् उदये पुरस्कृता नानुयास्यति कथं तम् आपदि ॥ रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि भान्त्य् अमूः ।द्रक्ष्यसि त्वम् इति संध्ययानया वर्तिकाभिर् इव साधुमण्डिताः ॥ सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च ।पश्य धातुशिखरेषु भानुना संविभक्तम् इव सांध्यम् आतपम् ॥ अद्रिराजतनये तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः ।ब्रह्म गूढम् अभिसंध्यम् आदृताः शुद्धये विधिविदो गृणन्त्य् अमी ॥ तन् मुहूर्त्तम् अनुमन्तुम् अर्हसि प्रस्तुताय नियमाय माम् अपि ।त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि विनोदयिष्यति ॥ निर्विभुज्य दशनच्छदं ततो वाचि भर्तुर् अवधीरणापरा ।शैलराजतनया समीपगाम् आललाप विजयाम् अहेतुकम् ॥ ईश्वरो ऽपि दिवसात्ययोचितं मन्त्रपूर्वम् अनुतस्थिवान् विधिम् ।पार्वतीम् अवचनाम् असूयया प्रत्युपेत्य पुनर् आह सस्मितम् ॥ मुञ्च कोपम् अनिमित्तकोपने संध्यया प्रणमितो ऽस्मि नान्यया ।किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिम् आत्मनः ॥ निर्मितेषु पितृषु स्वयंभुवा या तनुः सुतनु पूर्वम् उज्झिता ।सेयम् अस्तम् उदयं च सेवते तेन मानिनि ममात्र गौरवम् ॥ ताम् इमां तिमिरवृद्धिपीडितां शैलराजतनये ऽधुना स्थिताम् ।एकतस् तटतमालमालिनीं पश्य धातुरसनिम्नगाम् इव ॥ सान्ध्यम् अस्तमितशेषम् आतपं रक्तलेखम् अपरा बिभर्ति दिक् ।सांपरायवसुधा सशोणितं मण्डलाग्रम् इव तिर्यगुज्झितम् ॥ यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा ।एतद् अन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते ॥ नोर्ध्वम् ईक्षणगतिर् न चाप्य् अधो नाभितो न पुरतो न पृष्ठतः ।लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥ शुद्धम् आविलम् अवस्थितं चलं वक्रम् आर्जवगुणान्वितं च यत् ।सर्वम् एव तमसा समीकृतं धिङ् महत्त्वम् असतां हृतान्तरम् ॥ नूनम् उन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।पुण्डरीकमुखि पूर्वदिङ्मुखं कैतकैर् इव रजोभिर् आवृतम् ॥ मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः ॥ रुद्धनिर्गमनम् आ दिनक्षयात् पूर्वदृष्टतनुचन्द्रिकास्मितम् ।एतद् उद्गिरति चन्द्रमण्डलं दिग्रहस्यम् इव रात्रिचोदितम् ॥ पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरो ऽम्भसा ।विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥ शक्यम् ओषधिपतेर् नवोदयाः कर्णपूररचनाकृते तव ।अप्रगल्भयवसूचिकोमलाश् छेत्तुम् अग्रनखसंपुटैः कराः ॥ अङ्गुलीभिर् इव केशसंचयं सन्निगृह्य तिमिरं मरीचिभिः ।कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ पश्य पार्वति नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम् ।लक्ष्यते द्विरदभोगदूषितं संप्रसीदद् इव मानसं सरः ॥ रक्तभावम् अपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥ उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।नूनम् आत्मसदृशी प्रकल्पिता वेधसेह गुणदोषयोर् गतिः ॥ चन्द्रपादजनितप्रवृत्तिभिश् चन्द्रकान्तजलबिन्दुभिर् गिरिः ।मेखलातरुषु निद्रितान् अमून् बोधयत्य् असमये शिखण्डिनः ॥ कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिर् इव पश्य सुन्दरि ।हारयष्टिगणनाम् इवांशुभिः कर्तुम् आगतकुतूहलः शशी ॥ उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेर् इयम् ।भक्तिभिर् बहुविधाभिर् अर्पिता भाति भूतिर् इव मत्तदन्तिनः ॥ एतद् उच्छ्वसितपीतम् ऐन्दवं वोढुम् अक्षमम् इव प्रभारसम् ।मुक्तषट्पदविरावम् अञ्जसा भिद्यते कुमुदम् आ निबन्धनात् ॥ पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् ।मारुते चलति चण्डि केवलं व्यज्यते विपरिवृत्तम् अंशुकम् ॥ शक्यम् अङ्गुलिभिर् उद्धृतैर् अधः शाखिनां पतितपुष्पपेशलैः ।पत्रजर्जरशशिप्रभालवैर् एभिर् उत्कचयितुं तवालकान् ॥ एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी ।साध्वसाद् उपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥ पाकभिन्नशरकाण्डगौरयोर् उल्लसत्प्रतिकृतिप्रसन्नयोः ।रोहतीव तव गण्डलेखयोश् चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका ॥ लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् ।त्वाम् इयं स्थितिमतीम् उपस्थिता गन्धमादनवनाधिदेवता ॥ आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।अत्र लब्धवसतिर् गुणान्तरं किं विलासिनि मदः करिष्यति ॥ मान्यभक्तिर् अथवा सखीजनः सेव्यताम् इदम् अनङ्गदीपनम् ।इत्य् उदारम् अभिधाय शङ्करस् ताम् अपाययत पानम् अम्बिकाम् ॥ पार्वती तदुपयोगसम्भवां विक्रियाम् अपि सतां मनोहराम् ।अप्रतर्क्यविधियोगनिर्मिताम् आम्रतेव सहकारतां ययौ ॥ तत्क्षणं विपरिवर्तितह्रियोर् नेष्यतोः शयनम् इद्धरागयोः ।सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥ घूर्णमाननयनं स्खलत्कथं स्वेदिबिन्दुमद् अकारणस्मितम् ।आननेन न तु तावद् ईश्वरश् चक्षुषा चिरम् उमामुखं पपौ ॥ तां विलम्बितपनीयमेखलाम् उद्वहञ् जघनभारदुर्वहाम् ।ध्यानसंभृतविभूतिर् ईश्वरः प्राविशन् मणिशिलागृहं रहः ॥ तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् ।अध्यशेत शयनं प्रियासखः शारदाभ्रम् इव रोहिणीपतिः ॥ क्लिष्टकेशम् अवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।तस्य तच् छिदुरमेखलागुणं पार्वतीरतम् अभून् न तृप्तये ॥ केवलं प्रियतमादयालुना ज्योतिषाम् अवनतासु पङ्क्तिषु ।तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥ स व्यबुध्यत बुधस्तवोचितः शतकुम्भकमलाकरैः समम् ।मूर्च्छनापरिगृहीतकैशिकैः किन्नरैर् उषसि गीतमङ्गलः ॥ तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर् मयः ।पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः ॥ ऊरुमूलनखमार्गराजिभिस् तत्क्षणं हृतविलोचनो हरः ।वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमाम् अवारयत् ॥ स प्रजागरकषायलोचनं गाढदन्तपदताडिताधरम् ।आकुलालकम् अरंस्त रागवान् प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥ तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।निर्मले ऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥ स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः ।दर्शनप्रणयिनाम् अदृश्यताम् आजगाम विजयानिवेदनात् ॥ समदिवसनिशीथं सङ्गिनस् तत्र शम्भोः शतम् अगमद् ऋतूनां साग्रम् एका निशेव ।न तु सुरतसुखेषु छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस् तज्जलेषु ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha