अथ हैनं ब्रह्मचारिण ऊचुः किं जाप्येनामृतत्वं ब्रूहीति ॥ स होवाच याज्ञवल्क्यः शतरुद्रियेणेत्येतानि ह वा अमृतनामधेयान्येतैर्ह वा अमृतो भवतीति ॥ एवमेवैतद्याज्ञवल्क्यः ॥ ३ ॥
इति जाबालोपनिषत्सु तृतीयः खण्डः ॥ ३ ॥

Settings