हरिस्तुतिः

स्तोष्ये भक्त्या विष्णुमनादिं जगदादिंयस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् ।यस्मिन्दृष्टे नश्यति तत्संसृतिचक्रंतं संसारध्वान्तविनाशं हरिमीडे ॥ १ ॥
यस्यैकांशादित्थमशेषं जगदेत-त्प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।येन व्याप्तं येन विबुद्धं सुखदुःखै-स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २ ॥
सर्वज्ञो यो यश्च हि सर्वः सकलो योयश्चानन्दोऽनन्तगुणो यो गुणधामा ।यश्चाव्यक्तो व्यस्तसमस्तः सदसद्य-स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३ ॥
यस्मादन्यन्नास्त्यपि नैवं परमार्थंदृश्यादन्यो निर्विषयज्ञानमयत्वात् ।ज्ञातृज्ञानज्ञेयविहीनोऽपि सदा ज्ञ-स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४ ॥
आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वावैराग्येणाभ्यासबलाच्चैव द्रढिम्ना ।भक्त्यैकाग्र्यध्यानपरा यं विदुरीशंतं संसारध्वान्तविनाशं हरिमीडे ॥ ५ ॥
प्राणानायम्योमिति चित्तं हृदि रुध्वानान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य ।क्षीणे चित्ते भादृशिरस्मीति विदुर्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ ६ ॥
यं ब्रह्माख्यं देवमनन्यं परिपूर्णंहृत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशंतं संसारध्वान्तविनाशं हरिमीडे ॥ ७ ॥
मालातीतं स्वात्मविकासात्मविबोधंज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य ।भावग्राह्यानन्दमनन्यं च विदुर्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ ८ ॥
यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यंतत्तद्ब्रह्मैवेति विदित्वा तदहं च ।ध्यायन्त्येवं यं सनकाद्या मुनयोऽजंतं संसारध्वान्तविनाशं हरिमीडे ॥ ९ ॥
यद्यद्वेद्यं तत्तदहं नेति विहायस्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य ।तस्मिन्नस्मीत्यात्मविदो यं विदुरीशंतं संसारध्वान्तविनाशं हरिमीडे ॥ १० ॥
हित्वाहित्वा दृश्यमशेषं सविकल्पंमत्वा शिष्टं भादृशिमात्रं गगनाभम् ।त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता-स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ११ ॥
सर्वत्रास्ते सर्वशरीरी न च सर्वःसर्वं वेत्त्येवेह न यं वेत्ति च सर्वः ।सर्वत्रान्तर्यामितयेत्थं यमयन्य-स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १२ ॥
सर्वं दृष्ट्वा स्वात्मनि युक्त्या जगदेत-दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्स्थंतं संसारध्वान्तविनाशं हरिमीडे ॥ १३ ॥
सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्तेस्प्रष्टा श्रोता बुध्यति चेत्याहुरिमं यम् ।साक्षी चास्ते कर्तृषु पश्यन्निति चान्येतं संसारध्वान्तविनाशं हरिमीडे ॥ १४ ॥
पश्यञ्शृण्वन्नत्र विजानन्रसयन्सं-जिघ्रद्बिभ्रद्देहमिमं जीवतयेत्थम् ।इत्यात्मानं यं विदुरीशं विषयज्ञंतं संसारध्वान्तविनाशं हरिमीडे ॥ १५ ॥
जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायांदृष्ट्वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् ।इत्यात्मानं वीक्ष्य मुदास्ते च तुरीयेतं संसारध्वान्तविनाशं हरिमीडे ॥ १६ ॥
पश्यन्शुद्धोऽप्यक्षर एको गुणभेदा-न्नानाकारान्स्फाटिकवद्भाति विचित्रः ।भिन्नश्छिन्नश्चायमजः कर्मफलैर्य-स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १७ ॥
ब्रह्मा विष्णू रुद्रहुताशौ रविचन्द्रा-विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।एकं सन्तं यं बहुधाहुर्मतिभेदा-त्तं संसारध्वान्तविनाशं हरिमीडे ॥ १८ ॥
सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तंशान्तं गूढं निष्कलमानन्दमनन्यम् ।इत्याहादौ यं वरुणोऽसौ भृगवेऽजंतं संसारध्वान्तविनाशं हरिमीडे ॥ १९ ॥
कोशानेतान्पञ्च रसादीनतिहायब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् ।पित्रा शिष्टो वेद भृगुर्यं यजुरन्तेतं संसारध्वान्तविनाशं हरिमीडे ॥ २० ॥
येनाविष्टो यस्य च शक्त्या यदधीनःक्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः ।कर्ता भोक्तात्मात्र हि यच्छक्त्यधिरूढ-स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २१ ॥
सृष्ट्वा सर्वं स्वात्मतयैवेत्थमतर्क्यंव्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् ।सच्च त्यच्चाभूत्परमात्मा स य एक-स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २२ ॥
वेदान्तैश्चाध्यात्मिकशास्त्रैश्च पुराणैःशास्त्रैश्चान्यैः सात्त्वततन्त्रैश्च यमीशम् ।दृष्ट्वाथान्तश्चेतसि बुद्ध्वा विविशुर्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ २३ ॥
श्रद्धाभक्तिध्यानशमाद्यैर्यतमानै-र्ज्ञातुं शक्यो देव इहैवाशु य ईशः ।दुर्विज्ञेयो जन्मशतैश्चापि विना तै-स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २४ ॥
यस्यातर्क्यं स्वात्मविभूतेः परमार्थंसर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्भिः ।तज्जातित्वादब्धितरङ्गाभमभिन्नंतं संसारध्वान्तविनाशं हरिमीडे ॥ २५ ॥
दृष्ट्वा गीतास्वक्षरतत्त्वं विधिनाजंभक्त्या गुर्व्या लभ्य हृदिस्थं दृशिमात्रम् ।ध्यात्वा तस्मिन्नस्म्यहमित्यव विदुर्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ २६ ॥
क्षेत्रज्ञत्वं प्राप्य विभुः पञ्चमुखैर्योभुङ्क्तेऽजस्रं भोग्यपदार्थान्प्रकृतिस्थः ।क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्तेतं संसारध्वान्तविनाशं हरिमीडे ॥ २७ ॥
युक्त्यालोड्य व्यासवचांस्यत्र हि लभ्यःक्षेत्रक्षेत्रज्ञान्तरविद्भिः पुरुषाख्यः ।योऽहं सोऽसौ सोऽस्म्यहमेवेति विदुर्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ २८ ॥
एकीकृत्यानेकशरीरस्थमिमं ज्ञंयं विज्ञायेहैव स एवाशु भवन्ति ।यस्मिल्ँलीना नेह पुनर्जन्म लभन्तेतं संसारध्वान्तविनाशं हरिमीडे ॥ २९ ॥
द्वन्द्वैकत्वं यच्च मधुब्राह्मणवाक्यैःकृत्वा शक्रोपासनमासाद्य विभूत्या ।योऽसौ सोऽहं सोऽस्म्यहमेवेति विदुर्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ ३० ॥
योऽयं देहे चेष्टयितान्तःकरणस्थःसूर्ये चासौ तापयिता सोऽस्म्यहमेव ।इत्यात्मैक्योपासनया यं विदुरीशंतं संसारध्वान्तविनाशं हरिमीडे ॥ ३१ ॥
विज्ञानांशो यस्य सतः शक्त्यधिरूढोबुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।नैवान्तःस्थं बुध्यति यं बोधयितारंतं संसारध्वान्तविनाशं हरिमीडे ॥ ३२ ॥
कोऽयं देहे देव इतीत्थं सुविचार्यज्ञाता श्रोता मन्तयिता चैष हि देवः ।इत्यालोच्य ज्ञांश इहास्मीति विदुर्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ ३३ ॥
को ह्येवान्यादात्मनि न स्यादयमेषह्येवानन्दः प्राणिति चापानिति चेति ।इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषातं संसारध्वान्तविनाशं हरिमीडे ॥ ३४ ॥
प्राणो वाहं वाक्छ्रवणादीनि मनो वाबुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः ।इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ ३५ ॥
नाहं प्राणो नैव शरीरं न मनोऽहंनाहं बुद्धिर्नाहमहंकारधियौ च ।योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ ३६ ॥
सत्तामात्रं केवलविज्ञानमजं स-त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।साम्नामन्ते प्राह पिता यं विभुमाद्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ ३७ ॥
मूर्तामूर्ते पूर्वमपोह्याथ समाधौदृश्यं सर्वं नेति च नेतीति विहाय ।चैतन्यांशे स्वात्मनि सन्तं च विदुर्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ ३८ ॥
ओतं प्रोतं यत्र च सर्वं गगनान्तंयोऽस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञः ।ज्ञातातोऽन्यो नेत्युपलभ्यो न च वेद्य-स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३९ ॥
तावत्सर्वं सत्यमिवाभाति यदेत-द्यावत्सोऽस्मीत्यात्मनि यो ज्ञो न हि दृष्टः ।दृष्टे यस्मिन्सर्वमसत्यं भवतीदंतं संसारध्वान्तविनाशं हरिमीडे ॥ ४० ॥
रागामुक्तं लोहयुतं हेम यथाग्नौयोगाष्टाङ्गैरुज्ज्वलितज्ञानमयाग्नौ ।दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यंतं संसारध्वान्तविनाशं हरिमीडे ॥ ४१ ॥
यं विज्ञानज्योतिषमाद्यं सुविभान्तंहृद्यर्केन्द्वग्न्योकसमीड्यं तटिदाभम् ।भक्त्याराध्येहैव विशन्त्यात्मनि सन्तंतं संसारध्वान्तविनाशं हरिमीडे ॥ ४२ ॥
पायाद्भक्तं स्वात्मनि सन्तं पुरुषं योभक्त्या स्तौतीत्याङ्गिरमं विष्णुरिमं माम् ।इत्यात्मानं स्वात्मनि संहृत्य सदैक-स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ हरिस्तुतिः संपूर्णा ॥

Settings