हनुमत्पञ्चरत्नम्

वीताखिलविषयेच्छंजातानन्दाश्रुपुलकमत्यच्छम् ।सीतापतिदूताद्यंवातात्मजमद्यं भावये हृद्यम् ॥ १ ॥
तरुणारुणमुखकमलंकरुणारसपूरपूरितापाङ्गम् ।ञ्जीवनमाशासेमञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २
शम्बरवैरिशरातिग-मम्बुजदलविपुललोचनोदारम् ।कम्बुगलमनिलदिष्टंबिम्बज्वलितोष्ठमेकमवलम्बे ॥ ३ ॥
दूरीकृतसीतार्तिःप्रकटीकृतरामवैभवस्फूर्तिः ।दारितदशमुखकीर्तिःपुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥
वानरनिकराध्यक्षंदानवकुलकुमुदरविकरसदृक्षम् ।दीनजनावनदीक्षंपवनतपः पाकपुञ्जमद्राक्षम् ॥ ५ ॥
एतत्पवनसुतस्यस्तोत्रं यः पठति पञ्चरत्नाख्यम् ।चिरमिह निखिलान्भोगा-न्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति ॥ ६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ हनुमत्पञ्चरत्नं संपूर्णम् ॥

Settings