गौरीदशकम्

लीलालब्धस्थापितलुप्ताखिललोकांलोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।बालादित्यश्रेणिसमानद्युतिपुञ्जांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १ ॥
प्रत्याहारध्यानसमाधिस्थितिभाजांनित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।सत्यज्ञानानन्दमयीं तां तनुरूपांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥
चन्द्रापीडानन्दितमन्दस्मितवक्त्रांचन्द्रापीडालंकृतनीलालकभाराम् ।इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥
आदिक्षान्तामक्षरमूर्त्या विलसन्तींभूते भूते भूतकदम्बप्रसवित्रीम् ।शब्दब्रह्मानन्दमयीं तां तटिदाभांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४ ॥
मूलाधारादुत्थितवीथ्या विधिरन्ध्रंसौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५ ॥
नित्यः शुद्धो निष्कल एको जगदीशःसाक्षी यस्याः सर्गविधौ संहरणे च ।विश्वत्राणक्रीडनलोलां शिवपत्नींगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥
यस्याः कुक्षौ लीनमखण्डं जगदण्डंभूयो भूयः प्रादुरभूदुत्थितमेव ।पत्या सार्धं तां रजताद्रौ विहरन्तींगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥
यस्यामोतं प्रोतमशेषं मणिमाला-सूत्रे यद्वत्क्वापि चरं चाप्यचरं च ।तामध्यात्मज्ञानपदव्या गमनीयांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥
नानाकारैः शक्तिकदम्बैर्भुवनानिव्याप्य स्वैरं क्रीडति येयं स्वयमेका ।कल्याणीं तां कल्पलतामानतिभाजांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ९ ॥
आशापाशक्लेशविनाशं विदधानांपादाम्भोजध्यानपराणां पुरुषाणाम् ।ईशामीशार्धाङ्गहरां तामभिरामांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १० ॥
प्रातःकाले भावविशुद्धः प्रणिधाना-द्भक्त्या नित्यं जल्पति गौरीदशकं यः ।वाचां सिद्धिं संपदमग्र्यां शिवभक्तिंतस्यावश्यं पर्वतपुत्री विधाति ॥ ११ ॥

Settings