एकश्लोकी

किं ज्योतिस्तव भानुमानहनि मे रात्रौ प्रदीपादिकंस्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे ।चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शनेकिं तत्राहमतो भवान्परमकं ज्योतिस्तदस्मि प्रभो ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ एकश्लोकी संपूर्णा ॥

Settings