द्वयोपनिषत् This text does not support clickable word meanings. ॐ अथातः श्रीमद्द्वयोत्पत्तिः । वाक्यो द्वितीयः । षट्पदान्यष्टादश । पञ्चविंशत्यक्षराणि । पञ्चदशाक्षरं पूर्वम् । दशाक्षरं परम् । पूर्वो नारायणः प्रोक्तोऽनादिसिद्धो मन्त्ररत्नः सदाचार्यमूलः । ▼ Edit Permalink Bookmark आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः ।मन्त्रज्ञो मन्त्रभक्तश्च सदामन्त्राश्रयः शुचिः ॥ ▼ Edit Permalink Bookmark गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषवित् ।एवं लक्षणसंपन्नो गुरुरित्यभिधीयते ॥ ▼ Edit Permalink Bookmark आचिनोति हि शास्त्रार्थानाचारस्थापनादपि ।स्वयमाचरते यस्तु तस्मादाचार्य उच्यते ॥ ▼ Edit Permalink Bookmark गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ ▼ Edit Permalink Bookmark गुरुरेव परं ब्रह्म गुरुरेव परा गतिः ।गुरुरेव परं विद्या गुरुरेव परं धनम् ॥ ▼ Edit Permalink Bookmark गुरुरेव परः कामः गुरुरेव परायणः ।यस्मात्तदुपदेष्टासौ तस्माद्गुरुतरो गुरुः ॥ ▼ Edit Permalink Bookmark यस्सकृदुच्चारणः संसारविमोचनो भवति । सर्वपुरुषार्थसिद्धिर्भवति । न च पुनरावर्तते न च पुनरावर्तत इति । य एवं वेदेत्युपनिषत् ॥ ▼ Edit Permalink Bookmark इति द्वयोपनिषत् समाप्ता ▼ Edit Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha