देवीभुजंगस्तोत्रम्

विरिञ्च्यादिभिः पञ्चभिर्लोकपालैःसमूढे महानन्दपीठे निषण्णम् ।धनुर्बाणपाशाङ्कुशप्रोतहस्तंमहस्त्रैपुरं शंकराद्वैतमव्यात् ॥ १ ॥
यदन्नादिभिः पञ्चभिः कोशजालैःशिरःपक्षपुच्छात्मकैरन्तरन्तः ।निगूढे महायोगपीठे निषण्णंपुरारेरथान्तःपुरं नौमि नित्यम् ॥ २ ॥
विरिञ्चादिरूपैः प्रपञ्चे विहृत्यस्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा ।तदा मानमातृप्रमेयातिरिक्तंपरानन्दमीडे भवानि त्वदीयम् ॥ ३ ॥
विनोदाय चैतन्यमेकं विभज्यद्विधा देवि जीवः शिवश्चेति नाम्ना ।शिवस्यापि जीवत्वमापादयन्तीपुनर्जीवमेनं शिवं वा करोषि ॥ ४ ॥
समाकुञ्च्य मूलं हृदि न्यस्य वायुंमनो भ्रूबिलं प्रापयित्वा निवृत्ताः ।ततः सच्चिदानन्दरूपे पदे तेभवन्त्यम्ब जीवाः शिवत्वेन केचित् ॥ ५ ॥
शरीरेऽतिकष्टे रिपौ पुत्रवर्गेसदाभीतिमूले कलत्रे धने वा ।न कश्चिद्विरज्यत्यो देवि चित्रंकथं त्वत्कटाक्षं विना तत्त्वबोधः ॥ ६ ॥
शरीरे धनेऽपत्यवर्गे कलत्रेविरक्तस्य सद्देशिकादिष्टबुद्धेः ।यदाकस्मिकं ज्योतिरानन्दरूपंसमाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ७ ॥
मृषान्यो मृषान्यः परो मिश्रमेनंपरः प्राकृतं चापरो बुद्धिमात्रम् ।प्रपञ्चं मिमीते मुनीनां गणोऽयंतदेतत्त्वमेवेति न त्वां जहीमः ॥ ८ ॥
निवृत्तिः प्रतिष्ठा च विद्या च शान्ति-स्तथा शान्त्यतीतेति पञ्चीकृताभिः ।कलाभिः परे पञ्चविंशात्मिकाभि-स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥ ९ ॥
अगाधेऽत्र संसारपङ्के निमग्नंकलत्रादिभारेण खिन्नं नितान्तम् ।महामोहपाशौघबद्धं चिरान्मांसमुद्धर्तुमम्ब त्वमेकैव शक्ता ॥ १० ॥
समारभ्य मूलं गतो ब्रह्मचक्रंभवद्दिव्यचक्रेश्वरीधामभाजः ।महासिद्धिसंघातकल्पद्रुमाभा-नवाप्याम्ब नादानुपास्ते च योगी ॥ ११ ॥
गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्यातथा योगिनीराशिपीठैरभिन्नम् ।महाकालमात्मानमामृश्य लोकंविधत्से कृतिं वा स्थितिं वा महेशि ॥ १२ ॥
लसत्तारहारामतिस्वच्छचेलांवहन्तीं करे पुस्तकं चाक्षमालाम् ।शरच्चन्द्रकोटिप्रभाभासुरां त्वांसकृद्भावयन्भारतीवल्लभः स्यात् ॥ १३ ॥
समुद्यत्सहस्रार्कबिम्बाभवक्त्रांस्वभासैव सिन्दूरिताजाण्डकोटिम् ।धनुर्बाणपाशाङ्कुशान्धारयन्तींस्मरन्तः स्मरं वापि संमोहयेयुः ॥ १४ ॥
मणिस्यूतताटङ्कशोणास्यबिम्बांहरित्पट्टवस्त्रां त्वगुल्लासिभूषाम् ।हृदा भावयंस्तप्तहेमप्रभां त्वांश्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ १५ ॥
महामन्त्रराजान्तबीजं पराख्यंस्वतो न्यस्तबिन्दु स्वयं न्यस्तहार्दम् ।भवद्वक्त्रवक्षोजगुह्याभिधानंस्वरूपं सकृद्भावयेत्स त्वमेव १६ ॥
तथान्ये विकल्पेषु निर्विण्णचित्ता-स्तदेकं समाधाय बिन्दुत्रयं ते ।परानन्दसंधानसिन्धौ निमग्नाःपुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥ १७ ॥
त्वदुन्मेषलीलानुबन्धाधिकारा-विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून् ।भजन्तस्तितीर्षन्ति संसारसिन्धुंशिवे तावकीना सुसंभावनेयम् ॥ १८ ॥
कदा वा भवत्पादपोतेन तूर्णंभवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः ।निमज्जन्तमेनं दुराशाविषाब्धौसमालोक्य लोकं कथं पर्युदासे ॥ १९ ॥
कदा वा हृषीकाणि साम्यं भजेयुःकदा वा न शत्रुर्न मित्रं भवानि ।कदा वा दुराशाविषूचीविलोपःकदा वा मनो मे समूलं विनश्येत् ॥ २० ॥
मोवाकमाशास्महे देवि युष्म-त्पदाम्भोजयुग्माय तिग्माय गौरि ।विरिञ्च्यादिभास्वत्किरीटप्रतोली-प्रदीपायमानप्रभाभास्वराय ॥ २१ ॥
कचे चन्द्ररेखं कुचे तारहारंकरे स्वादुचापं शरे षट्पदौघम् ।स्मरामि स्मरारेरभिप्रायमेकंमदाघूर्णनेत्रं मदीयं निधानम् ॥ २२ ॥
शरेष्वेव नासा धनुष्वेव जिह्वाजपापाटले लोचने ते स्वरूपे ।त्वगेषा भवच्चन्द्रखण्डे श्रवो मेगुणे ते मनोवृत्तिरम्ब त्वयि स्यात् ॥ २३ ॥
जगत्कर्मधीरान्वचोधूतकीरान्कुचन्यस्तहारान्कृपासिन्धुपूरान् ।भवाम्भोधिपारान्महापापदूरान्भजे वेदसाराञ्शिवप्रेमदारान् ॥ २४ ॥
सुधासिन्धुसारे चिदानन्दनीरेसमुत्फुल्लनीपे सुरत्नान्तरीपे ।मणिव्यूहसाले स्थिते हैमशालेमनोजारिवामे निषण्णं मनो मे ॥ २५ ॥
दृगन्ते विलोला सुगन्धीषुमालाप्रपञ्चेन्द्रजाला विपत्सिन्धुकूला ।मुनिस्वान्तशाला नमल्लोकपालाहृदि प्रेमलीलामृतस्वादुलीला ॥ २६ ॥
जगज्जालमेतत्त्वयैवाम्ब सृष्टंत्वमेवाद्य यासीन्द्रियैरर्थजालम् ।त्वमेकैव कर्त्री त्वमेकैव भोक्त्रीन मे पुण्यपापे न मे बन्धमोक्षौ ॥ २७ ॥
इति प्रेमभारेण किञ्चिन्मयोक्तंन बुध्यैव तत्त्वं मदीयं त्वदीयम् ।विनोदाय बालस्य मौर्ख्यं हि मात-स्तदेतत्प्रलापस्तुतिं मे गृहाण ॥ २८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ देवीभुजंगस्तोत्रम् संपूर्णम् ॥

Settings