दक्षिणामूर्तिवर्णमालास्तोत्रम्

ॐ मित्येतद्यस्य बुधैर्नाम गृहीतंयद्भासेदं भाति समस्तं वियदादि ।यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १ ॥
नम्राङ्गाणां भक्तिमतां यः पुरुषार्था-न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।पादाम्भोजाधस्तनितापस्मृतिमीशंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २ ॥
मोहध्वस्त्यै वैणिकवैयासिकमुख्याःसंविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३ ॥
भद्रारूढं भद्रदमाराधयितॄणांभक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ४ ॥
गर्भान्तःस्थाः प्राणिन एते भवपाश-च्छेदे दक्षं निश्चितवन्तः शरणं यम् ।आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ५ ॥
चक्रं धन्याः संसृतिवार्धेरतिमात्रा-द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ।सेवन्तेऽध्यासीनमनन्तं वटमूलंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६ ॥
तेजः स्तोमैरङ्गदसंघट्टितभास्व-न्माणिक्योत्यैर्भासितविश्वो रुचिरैर्यः ।तेजोमूर्तिं खानिलतेजःप्रमुखाब्धिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७ ॥
दध्याज्यादिद्रव्यककर्माण्यखिलानित्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।यज्जिज्ञासां रूपफलार्थी क्षितिदेव-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ८ ॥
क्षिप्रं लोके यं भजमानः पृथुपुण्यःप्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिःप्रत्यग्भूतं ब्रह्म परं सन्रमते य-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ९ ॥
णानेत्येवं यन्मनुमध्यस्थितवर्णा-न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः ।मोदन्ते संप्राप्तसमस्तश्रुतितन्त्रा-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १० ॥
मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द-प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।यस्याभ्राभा हासविधौ दक्षशिरोधि-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ११ ॥
तप्तस्वर्णच्छायजटाजूटकटाह-प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् ।नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १२ ॥
येन ज्ञातेनैव समस्तं विदितं स्या-द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।यं प्राप्तानां नास्ति परं प्राप्यमनादिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १३ ॥
मत्तो मारो यस्य ललाटाक्षिभवाग्नि-स्फूर्जत्कालप्रोषितभस्मीकृतदेहः ।तद्भस्मासीद्यस्य सुजातः पटवास-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १४ ॥
ह्यम्भोराशौ संसृतिरूपे लुठतां त-त्पारं गन्तुं यत्पदभक्तिर्दृढनौका ।सर्वाराध्यं सर्वगमानन्दपयोधिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १५ ॥
मेधावी स्यादिन्दुवतंसं धृतवीणंकर्पूराभं पुस्तकहस्तं कमलाक्षम् ।चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १६ ॥
धाम्नां धाम प्रौढरुचीनां परमं य-त्सूर्यादीनां यस्य स हेतुर्जगदादेः ।एतावान्यो यस्य न सर्वेश्वरमीड्यंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७ ॥
प्रत्याहारप्राणनिरोधादिसमर्थै-र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ।स्वात्मत्वेन ज्ञायत एव त्वरया य-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८ ॥
ज्ञांशीभूतान्प्राणिन एतान्फलदाताचित्तान्तःस्थः प्रेरयति स्वे सकलेsपि ।कृत्ये देवः प्राक्तनकर्मानुसरः सं-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९ ॥
प्रज्ञामात्रं प्रापितसंबिन्निजभक्तंप्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २० ॥
स्याज्ञानादेव नृणां संसृतिबोधोयस्य ज्ञानादेव विमोक्षो भवतीति ।स्पष्टं ब्रूते वेदशिरो देशिकमाद्यंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २१ ॥
छन्नेऽविद्यारूपपटेनैव च विश्वंयत्राध्यस्तं जीवपरेशत्वमपीदम् ।भानोर्भानुष्वम्बुवदस्ताखिलभेदंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२ ॥
स्वापस्वप्नौ जाग्रदवस्थापि न यत्रप्राणश्चेतः सर्वगतो यः सकलात्मा ।कूटस्थो यः केवलसच्चित्सुखरूप-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २३ ॥
हा हेत्येवं विस्मयमीयुर्मुनिमुख्याज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः ।प्रत्यग्भूते ब्रह्मणि यातः कथमित्थंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २४ ॥
यैषा रम्यैर्मत्तमयूराभिधवृत्तै-रादौ कॢप्ता यन्मनुवर्णैर्मुनिभङ्गी ।तामेवैतां दक्षिणवक्त्रः कृपयासा-वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥ २५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं संपूर्णम् ॥

Settings