योगतारावली

वन्दे गुरूणां चरणारविन्देसंदर्शितस्वात्मसुखावबोधे ।जनस्य ये जाङ्गलिकायमानेसंसारहालाहलमोहशान्त्यै ॥ १ ॥
सदाशिवोक्तानि सपादलक्ष-लयावधानानि वसन्ति लोके ।नादानुसंधानसमाधिमेकंमन्यामहे मान्यतमं लयानाम् ॥ २ ॥
सरेचपूरैरनिलस्य कुम्भैःसर्वासु नाडीषु विशोधितासु ।अनाहताख्यो बहुभिः प्रकारै-रन्तः प्रवर्तेत सदा निनादः ॥ ३ ॥
नादानुसंधान नमोऽस्तु तुभ्यंत्वां साधनं तत्त्वपदस्य जाने ।भवत्प्रसादात्पवनेन साकंविलीयते विष्णुपदे मनो मे ॥ ४ ॥
जालन्धरोड्याणनमूलबन्धा-ञ्जल्पन्ति कण्ठोदरपायुमूलान् ।बन्धत्रयेऽस्मिन्परिचीयमानेबन्धः कुतो दारुणकालपाशात् ॥ ५ ॥
ओड्याणजालन्धरमूलबन्धै-रुन्निद्रितायामुरगाङ्गनायाम् ।प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्नांगमागमौ मुञ्चति गन्धवाहः ॥ ६ ॥
उत्थापिताधारहुताशनोल्कै-राकुञ्चनैः शश्वदपानवायोः ।संतापिताच्चन्द्रमसः पतन्तींपीयूषधारां पिबतीह धन्यः ॥ ७ ॥
बन्धत्रयाभ्यासविपाकजातांविवर्जितां रेचकपूरकाभ्याम् ।विशोषयन्तीं विषयप्रवाहंविद्यां भजे केवलकुम्भरूपाम् ॥ ८ ॥
अनाहते चेतसि सावधानै-रभ्यासशूरैरनुभूयमाना ।संस्तम्भितश्वासमनःप्रचारासा जृम्भते केवलकुम्भकश्रीः ॥ ९ ॥
सहस्रशः सन्तु हठेषु कुम्भाःसंभाव्यते केवलकुम्भ एव ।कुम्भोत्तमे यत्र तु रेचपूरौप्राणस्य न प्राकृतवैकृताख्यौ ॥ १० ॥
त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गेखे स्तम्भिते केवलकुम्भकेन ।प्राणानिलो भानुशशाङ्कनाड्यौविहाय सद्यो विलयं प्रयाति ॥ ११ ॥
प्रत्याहृतः केवलकुम्भकेनप्रबुद्धकुण्डल्युपभुक्तशेषः ।प्राणः प्रतीचीनपथेन मन्दंविलीयते विष्णुपदान्तराले ॥ १२ ॥
निरङ्कुशानां श्वसनोद्गमानांनिरोधनैः केवलकुम्भकाख्यैः ।उदेति सर्वेन्द्रियवृत्तिशून्योमरुल्लयः कोऽपि महामतीनाम् ॥ १३ ॥
न दृष्टिलक्ष्याणि न चित्तबन्धोन देशकालौ न च वायुरोधः ।न धारणाध्यानपरिश्रमो वासमेधमाने सति राजयोगे ॥ १४ ॥
अशेषदृश्योज्झितदृङ्मयाना-मवस्थितानामिह राजयोगे ।न जागरो नापि सुषुप्तिभावोन जीवितं नो मरणं विचित्रम् ॥ १५ ॥
अहंममत्वाद्व्यपहाय सर्वंश्रीराजयोगे स्थिरमानसानाम् ।न द्रष्टृता नास्ति च दृश्यभावःसा जृम्भते केवलसंविदेव ॥ १६ ॥
नेत्रे ययोन्मेषनिमेषशून्येवायुर्यया वर्जितरेचपूरः ।मनश्च संकल्पविकल्पशून्यंमनोन्मनी सा मयि संनिधत्ताम् ॥ १७ ॥
चित्तेन्द्रियाणां चिरनिग्रहेणश्वासप्रचारे शमिते यमीन्द्राः ।निवातदीपा इव निश्चलाङ्गाःमनोन्मनीमग्नधियो भवन्ति ॥ १८ ॥
उन्मन्यवस्थाधिगमाय विद्वन्उपायमेकं तव निर्दिशामः ।पश्यन्नुदासीनतया प्रपञ्चंसंकल्पमुन्मूलय सावधानः ॥ १९ ॥
प्रसह्य संकल्पपरंपराणांसंभेदने संततसावधानम् ।आलम्बनाशादपचीयमानंशनैः शनै: शान्तिमुपैति चेतः ॥ २० ॥
निश्वासलोपैर्निभृतैः शरीरै-र्नेत्राम्बुजैरर्धनिमीलितैश्च ।आविर्भवन्तीममनस्कमुद्रा-मालोकयामो मुनिपुंगवानाम् ॥ २१ ॥
अमी यमीन्द्राः सहजामनस्का-दहंममत्वे शिथिलायमाने ।मनोतिगं मारुतवृत्तिशून्यंगच्छन्ति भावं गगनावशेषम् ॥ २२ ॥
निवर्तयन्तीं निखिलेन्द्रियाणिप्रवर्तयन्तीं परमात्मयोगम् ।संविन्मयीं तां सहजामनस्कांकदा गमिष्यामि गतान्यभावः ॥ २३ ॥
प्रत्यग्विमर्शातिशयेन पुंसांप्राचीनगन्धेषु पलायितेषु ।प्रादुर्भवेत्काचिदजाड्यनिद्राप्रपञ्चचिन्तां परिवर्जयन्ती ॥ २४ ॥
विच्छिन्नसंकल्पविकल्पमूलेनिःशेषनिर्मूलितकर्मजाले ।निरन्तराभ्यासनितान्तभद्रासा जृम्भते योगिनि योगनिद्रा ॥ २५ ॥
विश्रान्तिमासाद्य तुरीयतल्पेविश्वाद्यवस्थात्रितयोपरिस्थे ।संविन्मयीं कामपि सर्वकालंनिद्रां सखे निर्विश निर्विकल्पाम् ॥ २६ ॥
प्रकाशमाने परमात्मभानौनश्यत्यविद्यातिमिरे समस्ते ।अहो बुधा निर्मलदृष्टयोऽपिकिंचिन्न पश्यन्ति जगत्समग्रम् ॥ २७ ॥
सिद्धिं तथाविधमनोविलयां समाधौश्रीशैलशृङ्गकुहरेषु कदोपलप्स्ये ।गात्रं यदा मम लताः परिवेष्टयन्तिकर्णे यदा विरचयन्ति खगाश्च नीडान् ॥ २८ ॥
विचरतु मतिरेषा निर्विकल्पे समाधौकुचकलशयुगे वा कृष्णसारेक्षणानाम् ।चरतु जडमते वा सज्जनानां मते वामतिकृतगुणदोषा मां विभुं न स्पृशन्ति ॥ २९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ योगतारावली संपूर्णा ॥

Settings