यतिपञ्चकम्

वेदान्तवाक्येषु सदा रमन्तोभिक्षान्नमात्रेण च तुष्टिमन्तः ।विशोकवन्तः करणैकवन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ १ ॥
मूलं तरोः केवलमाश्रयन्तःपाणिद्वयं भोक्तुममंत्रयन्तः ।कन्थामिव श्रीमपि कुत्सयन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ २ ॥
देहादिभावं परिमार्जयन्तआत्मानमात्मन्यवलोकयन्तः ।नान्तं न मध्यं न बहिः स्मरन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥
स्वानन्दभावे परितुष्टिमन्तःसंशान्तसर्वेन्द्रियदृष्टिमन्तः ।अहर्निशं ब्रह्मणि ये रमन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥
पञ्चाक्षरं पावनमुच्चरन्तःपतिं पशूनां हृदि भावयन्तः ।भिक्षाशना दिक्षु परिभ्रमन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ यतिपञ्चकं संपूर्णम् ॥

Settings