विश्रामोपनिषत्

ॐ पूर्वदले श्वेतवर्णे यदा विश्राम्यते मनः ।तदा धैर्यमुदारं च धर्मकीर्तिमतिर्भवेत् ॥
अग्निदले रक्तवर्णे यदा विश्राम्यते मनः ।तदा क्रोधश्च कामश्च मन्दं बुद्धिर्मतिर्भवेत् ॥
कृष्णवर्णे दक्षिणदले यदा विश्राम्यते मनः ।निद्रालस्यभयं देवि मत्सरे च मतिर्भवेत् ॥
नैर्ऋतदले नीलवर्णे यदा विश्राम्यते मनः ।तदा क्रोधश्च कामश्च मनोभिन्नमतिर्भवेत् ॥
पश्चिमदले कपिलवर्णे यदा विश्राम्यते मनः ।तदा हास्यविनोदौ च उत्साहे च मतिर्भवेत् ॥
श्यामवर्णे वायुदले यदा विश्राम्यते मनः ।तदा चिन्तोच्चाटनं च वैराग्ये च मतिर्भवेत् ॥
पीतवर्णोत्तरदले यदा विश्राम्यते मनः ।तदा शृंगारभोगौ च कल्पनायां मतिर्भवेत् ॥
गौरवर्णेशानदले यदा विश्राम्यते मनः ।तदा कृमात्मानं धर्मकीर्तिमतिर्भवेत् ॥
सन्धौ सन्धौ मिश्रितानां यदा विश्राम्यते मनः ।तदा देहो गृहं राज्यं निर्दोषा च मतिर्भवेत् ॥
श्यामवर्णे मध्यदले यदा विश्राम्यते मनः ।तदा सर्वगुणं ज्ञानं चैतन्यं च मतिर्भवेत् ॥
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ।ये पठन्ति सदा भक्त्या सायुज्यपदमाप्नुयुः ॥
इति विश्रामोपनिषत् संपूर्णा

Settings