वेदसारशिवस्तोत्रम्

पशूनां पतिं पापनाशं परेशंगजेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।जटाजूटमध्ये स्फुरद्गाङ्गवारिंमहादेवमेकं स्मरामि स्मरारिम् ॥ १ ॥
महेशं सुरेशं सुरारातिनाशंविभुं विश्वनाथं विभूत्यङ्गभूषम् ।विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रंसदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २ ॥
गिरीशं गणेशं गले नीलवर्णंगवेन्द्राधिरूढं गुणातीतरूपम् ।भवं भास्वरं भस्मना भूषिताङ्गंभवानीकलत्रं भजे पञ्चवक्त्रम् ॥ ३ ॥
शिवाकान्त शंभो शशाङ्कार्धमौलेमहेशान शूलिञ्जटाजूटधारिन् ।त्वमेको जगद्व्यापको विश्वरूपःप्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥
परात्मानमेकं जगद्बीजमाद्यंनिरीहं निराकारमोंकारवेद्यम् ।यतो जायते पाल्यते येन विश्वंतमीशं भजे लीयते यत्र विश्वम् ॥ ५ ॥
न भूमिर्न चापो न वह्निर्न वायु-र्न चाकाशमास्ते न तन्द्रा न निद्रा ।न चोष्णं न शीतं न देशो न वेषोन यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ ६ ॥
अजं शाश्वतं कारणं कारणानांशिवं केवलं भासकं भासकानाम् ।तुरीयं तमःपारमाद्यन्तहीनंप्रपद्ये परं पावनं द्वैतहीनम् ॥ ७ ॥
नमस्ते नमस्ते विभो विश्वमूर्तेनमस्ते नमस्ते चिदानन्दमूर्ते ।नमस्ते नमस्ते तपोयोगगम्यनमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८ ॥
प्रभो शूलपाणे विभो विश्वनाथमहादेव शंभो महेश त्रिनेत्र ।शिवाकान्त शान्त स्मरारे पुरारेत्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ ९ ॥
शंभो महेश करुणामय शूलपाणेगौरीपते पशुपते पशुपाशनाशिन् ।काशीपते करुणया जगदेतदेक-स्त्वं हंसि पासि विदधासि महेश्वरोऽसि ॥ १० ॥
त्वत्तो जगद्भवति देव भव स्मरारेत्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।त्वय्येव गच्छति लयं जगदेतदीशलिङ्गात्मके हर चराचर विश्वरूपिन् ॥ ११ ॥

Settings