वाक्यवृत्तिः

सर्गस्थितिप्रलयहेतुमचिन्त्यशक्तिंविश्वेश्वरं विदितविश्वमनन्तमूर्तिम् ।निर्मुक्तबन्धनमपारसुखाम्बुराशिंश्रीवल्लभं विमलबोधघनं नमामि ॥ १ ॥
यस्य प्रसादादहमेव विष्णु-र्मय्येव सर्वं परिकल्पितं च ।इत्थं विजानामि सदात्मरूपंतस्याङ्घ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥ २ ॥
तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः ।शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३ ॥
अनायासेन येनास्मान्मुच्येय भवबन्धनात् ।तन्मे संक्षिप्य भगवन्केवलं कृपया वद ॥ ४ ॥
साध्वी ते वचनव्यक्तिः प्रतिभाति वदामि ते ।इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥ ५ ॥
तत्त्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः ।तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥ ६ ॥
को जीवः कः परश्चात्मा तादात्म्यं वा कथं तयोः ।तत्त्वमस्यादिवाक्यं वा कथं तत्प्रतिपादयेत् ॥ ७ ॥
अत्र ब्रूमः समाधानं कोऽन्यो जीवस्त्वमेव हि ।यस्त्वं पृच्छसि मां कोऽहं ब्रह्मैवासि न संशयः ॥ ८ ॥
पदार्थमेव जानामि नाद्यापि भगवन्स्फुटम् ।अहं ब्रह्मेति वाक्यार्थं प्रतिपद्ये कथं वद ॥ ९ ॥
सत्यमाह भवानत्र विगानं नैव विद्यते ।हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह ॥ १० ॥
अन्तःकरणतद्वृत्तिसाक्षी चैतन्यविग्रहः ।आनन्दरूपः सत्यः सन्किं नात्मानं प्रपद्यसे ॥ ११ ॥
सत्यानन्दस्वरूपं धीसाक्षिणं ज्ञानविग्रहम् ।चिन्तयात्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥ १२ ॥
रूपादिमान्यतः पिण्डस्ततो नात्मा घटादिवत् ।वियदादिमहाभूतविकारत्वाच्च कुम्भवत् ॥ १३ ॥
अनात्मा यदि पिण्डोऽयमुक्तहेतुबलान्मतः ।करामलकवत्साक्षादात्मानं प्रतिपादय ॥ १४ ॥
घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा ।देहद्रष्टा तथा देहो नाहमित्यवधारय ॥ १५ ।
एवमिन्द्रियदृङ् नाहमिन्द्रियाणीति निश्चिनु ।मनो बुद्धिस्तथा प्राणो नाहमित्यवधारय ॥ १६ ॥
संघातोऽपि तथा नाहमिति दृश्यविलक्षणम् ।द्रष्टारमनुमानेन निपुणं संप्रधारय ॥ १७ ॥
देहेन्द्रियादयो भावा हानादिव्यापृतिक्षमाः ।यस्य संनिधिमात्रेण सोऽहमित्यवधारय ॥ १८ ॥
अनापन्नविकारः सन्नयस्कान्तवदेव यः ।बुद्ध्यादींश्चालयेत्प्रत्यक्सोऽहमित्यवधारय ॥ १९ ॥
अजडात्मवदाभान्ति यत्सांनिध्याज्जडा अपि ।देहेन्द्रियमनःप्राणाः सोऽहमित्यवधारय ॥ २० ॥
अगमन्मे मनोऽन्यत्र सांप्रतं च स्थिरीकृतम् ।एवं यो वेद धीवृत्तिं सोऽहमित्यवधारय ॥ २१ ॥
स्वप्नजागरिते सुप्तिं भावाभावौ धियां तथा ।यो वेत्यविक्रियः साक्षात्सोऽहमित्यवधारय ॥ २२ ॥
घटावभासको दीपो घटादन्यो यथेष्यते ।देहावभासको देही तथाहं बोधविग्रहः ॥ २३ ॥
पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः ।द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४ ॥
परप्रेमास्पदतया मा न भूवमहं सदा ।भूयासमिति यो द्रष्टा सोऽहमित्यवधारय ॥ २५ ॥
यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते ।साक्षित्वमपि बोद्धृत्वमविकारितयात्मनः ॥ २६ ॥
देहेन्द्रियमनःप्राणाहंकृतिभ्यो विलक्षणः ।प्रोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥ २७ ॥
त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः ।अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥
निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः ।अदृश्यत्वादिगुणकः पराकृततमोमलः ॥ २९ ।
निरस्तातिशयानन्दः सत्यः प्रज्ञानविग्रहः ।सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥
सर्वज्ञत्वं परेशत्वं तथा संपूर्णशक्तिता ।वेदैः समर्थ्यते यस्य तद्ब्रह्मेत्यवधारय ॥ ३१ ॥
यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् ।मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ॥ ३२ ॥
यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ ।तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय ॥ ३३ ॥
विजिज्ञास्यतया यश्च वेदान्तेषु मुमुक्षुभिः ।समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ॥ ३४ ॥
जीवात्मना प्रवेशश्च नियन्तृत्वं च तान्प्रति ।श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय ॥ ३५ ॥
कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ ।जीवानां हेतुकर्तृत्वं तद्ब्रह्मेत्यवधारय ॥ ३६ ॥
तत्त्वंपदार्थौ निर्णीतौ वाक्यार्थश्चिन्त्यतेऽधुना ।तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः ॥ ३७ ॥
संसर्गे वा विशिष्टो वा वाक्यार्थो नात्र संमतः ।अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८ ॥
प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः ।अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥ ३९ ॥
इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् ।अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ॥ ४० ॥
तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु ।पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ४१ ॥
तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने ।लक्ष्यौ तत्त्वंपदार्थौ द्वावुपादाय प्रवर्तते ॥ ४२ ॥
हित्वा द्वौ शबलौ वाच्यौ वाक्यं वाक्यार्थबोधने ।यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ॥ ४३ ॥
आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः ।अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥ ४४ ॥
मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः ।पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ४५ ॥
प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता ।विरुध्यते यतस्तस्माल्लक्षणा संप्रवर्तते ॥ ४६ ॥
मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे ।मुख्यार्थेनाविनाभूते प्रतीतिर्लक्ष्णोच्यते ॥ ४७ ॥
तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ।सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ४८ ॥
अहं ब्रह्मेति वाक्यार्थबोधो यावद्दृढीभवेत् ।शमादिसहितस्तावदभ्यस्येच्छ्रवणादिकम् ॥ ४९ ॥
श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत् ।निरस्ताशेषसंसारनिदानः पुरुषस्तदा ॥ ५० ॥
विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः ।विमुक्तकर्मनिगलः सद्य एव विमुच्यते ॥ ५१ ॥
प्रारब्धकर्मवेगेण जीवन्मुक्तो यदा भवेत् ।किंचित्कालमनारब्धकर्मबन्धस्य संक्षये ॥ ५२ ॥
निरस्तातिशयानन्दं वैष्णवं परमं पदम् ।पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥ ५३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ वाक्यवृत्तिः समाप्ता ॥

Settings