उपदेशपञ्चकम्

वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतांतेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ।पापौघः परिधूयतां भवसुखे दोषोऽनुसंधीयता-मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥
सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाधीयतांशान्त्यादिः परिचीयतां दृढतरं कर्माशु संत्यज्यताम् ।सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतांब्रह्मकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥
वाक्यार्थश्च विचार्यतां श्रुतिशिरः पक्षः समाश्रीयतांदुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसंधीयताम् ।ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतांदेहेऽहंमतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥ ३ ॥
क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतांस्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन संतुष्यताम् ।शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-मौदासीन्यमभीप्स्यतां जनकृपानैष्टुर्यमुत्सृज्यताम् ॥
एकान्ते सुखमास्यतां परतरे चेतः समाधीयतांपूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् ।प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतांप्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ उपदेशपञ्चकं संपूर्णम् ॥

Settings