उमामहेश्वरस्तोत्रम्

नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्यां ।नगेन्द्रकन्यावृषकेतनाभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ १ ॥
नमः शिवाभ्यां सरसोत्सवाभ्यांनमस्कृताभीष्टवरप्रदाभ्याम् ।नारायणेनार्चितपादुकाभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ २ ॥
नमः शिवाभ्यां वृषवाहनाभ्यांविरिञ्विविष्ण्विन्द्रसुपूजिताभ्याम् ।विभूतिपाटीरविलेपनाभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ ३ ॥
नमः शिवाभ्यां जगदीश्वराभ्यांजगत्पतिभ्यां जयविग्रहाभ्याम्जम्भारिमुख्यैरभिवन्दिताभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ ४ ॥
नमः शिवाभ्यां परमौषधाभ्यांपश्चाक्षरीपञ्जररञ्जिताभ्याम् ।प्रपञ्चसृष्टिस्थितिसंहृताभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ ५ ॥
नमः शिवाभ्यामतिसुन्दराभ्या-मत्यन्तमासक्तहृदम्बुजाभ्याम् ।अशेषलोकैकहितंकराभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ ६ ॥
नमः शिवाभ्यां कलिनाशनाभ्यांकङ्कालकल्याणवपुर्धराभ्याम् ।कैलासशैलस्थितदेवताभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ ७ ॥
नमः शिवाभ्यामशुभापहाभ्या-मशेषलोकैकविशेषिताभ्याम् ।अकुण्ठिताभ्यां स्मृतिसंभृताभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ ८ ॥
नमः शिवाभ्यां रथवाहनाभ्यांरवीन्दुवैश्वानरलोचनाभ्याम् ।राकाशशाङ्काभमुखाम्बुजाभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ ९ ॥
नमः शिवाभ्यां जटिलंधराभ्यांजरामृतिभ्यां च विवर्जिताभ्याम् ।जनार्दनाब्जोद्भवपूजिताभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ १० ॥
नमः शिवाभ्यां विषमेक्षणाभ्यांबिल्वच्छदामल्लिकदामभृद्भ्याम् ।शोभावतीशान्तवतीश्वराभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ ११ ॥
नमः शिवाभ्यां पशुपालकाभ्यांजगत्त्रयीरक्षणबद्धहृद्भ्याम् ।समस्तदेवासुरपूजिताभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ १२ ॥
स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यांभक्त्या पठेद्द्वादशकं नरो यः ।स सर्वसौभाग्यफलानि भुङ्क्तेशतायुरन्ते शिवलोकमेति ॥ १३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ उमामहेश्वरस्तोत्रं संपूर्णम् ॥

Settings