त्रिपुरसुन्दर्यष्टकम्

कदम्बवनचारिणीं मुनिकदम्बकादम्बिनींनितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलांत्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १ ॥
कदम्बवनवासिनीं कनकवल्लकीधारिणींमहार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।दयाविभवकारिणीं विशदरोचनाचारिणींत्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ ।
कदम्बवनशालया कुचभरोल्लसन्मालयाकुचोपमितशैलया गुरुकृपालसद्वेलया ।मदारुणकपोलया मधुरगीतवाचालयाकयापि घननीलया कवचिता वयं लीलया ॥ ३ ॥
कदम्बवनमध्यगां कनकमण्डलोपस्थितांषडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।विडम्बितजपारुचिं विकचचन्द्रचूडामणिंत्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥
कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतांकुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।मदारुणविलोचनां मनसिजारिसंमोहिनींमतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥
स्मरेत्प्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरांगृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम् ।घनस्तनभरोन्नतां गलितचूलिकां श्यामलांत्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६ ॥
सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकांसमन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।अशेषजनमोहिनीमरुणमाल्यभूषाम्बरांजपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७ ॥
पुरंदरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकांपितामहपतिव्रतापटुपटीरचर्चारताम् ।मुकुन्दरमणीमणीलसदलंक्रियाकारिणींभजामि भुवनाम्बिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ त्रिपुरसुन्दर्यष्टकं संपूर्णम् ॥

Settings