तत्त्वोपदेशः

तत्त्वंपदार्थशुद्ध्यर्थं गुरुः शिष्यं वचोऽब्रवीत् ।वाक्ये तत्त्वमसीत्यत्र त्वंपदार्थं विवेचय ॥ १ ॥
न त्वं देहोऽसि दृश्यत्वादुपजात्यादिमत्त्वतः ।भौतिकत्वादशुद्धत्वादनित्यत्वात्तथैव च ॥ २ ॥
अदृश्यो रूपहीनस्त्वं जातिहीनोऽप्यभौतिकः ।शुद्धनित्योऽसि दृग्रूपो घटो यद्वन्न दृग्भवेत् ॥ ३ ॥
न भवानिन्द्रियाण्येषां करणत्वेन या श्रुतिः ।प्रेरकस्त्वं पृथक्तेभ्यो न कर्ता करणं भवेत् ॥ ४ ॥
नानैतान्येकरूपस्त्वं भिन्नस्तेभ्यः कुतः शृणु ।न चैकेन्द्रियरूपस्त्वं सर्वत्राहंप्रतीतितः ॥ ५ ॥
न तेषां समुदायोऽसि तेषामन्यतमस्य च ।विनाशेऽप्यात्मधीस्तावदस्ति स्यान्नैवमन्यथा ॥ ६ ॥
प्रत्येकमपि तान्यात्मा नैव तत्र नयं शृणु ।नानास्वामिकदेहोऽयं नश्येद्भिन्नमताश्रयः ॥ ७ ॥
नानात्माभिमतं नैव विरुद्धविषयत्वतः ।स्वाम्यैक्ये तु व्यवस्था स्यादेकपार्थिवदेशवत् ॥ ८ ॥
न मनस्त्वं न वा प्राणो जडत्वादेव चैतयोः ।गतमन्यत्र मे चित्तमित्यन्यत्वानुभूतितः ॥ ९ ॥
क्षुत्तृड्भ्यां पीडितः प्राणो ममायं चेति भेदतः ।तयोर्द्रष्टा पृथक्ताभ्यां घटद्रष्टा घटाद्यथा ॥ १० ॥
सुप्तौ लीनास्ति या बोधे सर्वं व्याप्नोति देहकम् ।चिच्छायया च संबद्धा न सा बुद्धिर्भवान्द्विज ॥ ११ ॥
नानारूपवती बोधे सुप्तौ लीनातिचञ्चला ।यतो दृगेकरूपस्त्वं पृथक्तस्य प्रकाशकः ॥ १२ ॥
सुप्तौ देहाद्यभावेऽपि साक्षी तेषां भवान्यतः ।स्वानुभूतिस्वरूपत्वान्नान्यस्तम्यास्ति भासकः ॥ १३ ॥
प्रमाणं बोधयन्तं तं बोधं मानेन ये जनाः ।बुभुत्स्यन्ते त एधोभिर्दग्धुं वाञ्छन्ति पावकम् ॥ १४ ॥
विश्वमात्मानुभवति तेनासौ नानुभूयते ।विश्व प्रकाशयत्यात्मा तेनासौ न प्रकाश्यते ॥ १५ ॥
ईदृशं तादृशं नैतन्न परोक्षं सदेव यत् ।तद्ब्रह्म त्वं न देहादिदृश्यरूपोऽसि सर्वदृक् ॥ १६ ॥
इदंत्वेनैव यद्भाति सर्वं तच्च निषिध्यते ।अवाच्यतत्त्वमनिदं न वेद्यं स्वप्रकाशतः ॥ १७ ॥
सत्यं ज्ञानमनन्तं च ब्रह्मलक्षणमुच्यते ।सत्यत्वाज्ज्ञानरूपत्वादनन्तत्वात्त्वमेव हि ॥ १८ ॥
सति देहाद्युपाधौ स्याज्जीवस्तस्य नियामकः ।ईश्वरः शक्त्युपाधित्वाद्द्वयोर्बाधे स्वयंप्रभः ॥ १९ ॥
अपेक्ष्यतेऽखिलैर्मानैर्न यन्मानमपेक्षते ।वेदवाक्यं प्रमाणं तद्ब्रह्मात्मावगतौ मतम् ॥ २० ॥
अतो हि तत्त्वमस्यादिवेदवाक्यं प्रमाणतः ।ब्रह्मणोऽस्ति यया युक्त्या सास्माभिः संप्रकीर्त्यते ॥ २१ ॥
शोधिते त्वंपदार्थे हि तत्त्वमस्यादि चिन्तितम् ।संभवेन्नान्यथा तम्माच्छोधनं कृतमादितः ॥ २२ ॥
देहेन्द्रियादिधर्मान्यः स्वात्मन्यारोपयन्मृषा ।कर्तृत्वाद्यभिमानी च वाच्यार्थस्त्वंपदस्य सः ॥ २३ ॥
देहेन्द्रियादिसाक्षी यस्तेभ्यो भाति विलक्षणः ।स्वयं बोधस्वरूपत्वाल्लक्ष्यार्थस्त्वंपदस्य सः ॥ २४ ॥
वेदान्तवाक्यसंवेद्यविश्वातीताक्षराद्वयम् ।विशुद्धं यत्स्वसंवेद्यं लक्ष्यार्थस्तत्पदस्य सः ॥ २५ ॥
सामानाधिकरण्यं हि पदयोस्तत्व मोर्द्वयोः ।संबन्धस्तेन वेदान्तैर्ब्रह्मैक्यं प्रतिपाद्यते ॥ २६ ॥
भिन्नप्रवृत्तिहेतुत्वे पदयोरेकवस्तुनि ।वृत्तित्वं यत्तथैवैक्यं विभक्त्यन्तकयोस्तयोः ॥ २७ ॥
सामानाधिकरण्यं तत्संप्रदायिभिरीरितम् ।तथा पदार्थयोरेव विशेषणविशेष्यता ॥ २८ ॥
अयं सः सोऽयमितिवत्संबन्धो भवति द्वयोः ।प्रत्यक्त्वं सद्वितीयत्वं परोक्षत्वं च पूर्णता ॥ २९ ॥
परस्परविरुद्धं स्यात्ततो भवति लक्षणा ।लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनोः ॥ ३० ॥
मानान्तरोपरोधाच्च मुख्यार्थस्यापरिग्रहे ।मुख्यार्थस्याविनाभूते प्रवृत्तिर्लक्षणोच्यते ॥ ३१ ॥
त्रिविधा लक्षणा ज्ञेया जहत्यजहती तथा ।अन्योभयात्मिका ज्ञेया तत्राद्या नैव संभवेत् ॥ ३२ ॥
वाच्यार्थमखिलं त्यक्त्वा वृत्तिः स्याद्या तदन्विते ।गङ्गायां घोष इतिवज्जहती लक्षणा हि सा ॥ ३३ ॥
वाच्यार्थस्यैकदेशस्य प्रकृते त्याग इष्यते ।जहती संभवेन्नैव संप्रदायविरोधत ॥ ३४ ॥
वाच्यार्थमपरित्यज्य वृत्तिरन्यार्थके तु या ।कथितेयमजहती शोणोऽयं धावतीतिवत् ॥ ३५ ॥
न संभवति साप्यत्र वाच्यार्थेऽतिविरोधतः ।विरोधांशपरित्यागो दृश्यते प्रकृते यतः ॥ ३६ ॥
वाच्यार्थस्यैकदेशं च परित्यज्यैकदेशकम् ।या बोधयति सा ज्ञेया तृतीया भागलक्षणा ॥ ३७ ॥
सोऽयं विप्र इदं वाक्यं बोधयत्यादितस्तथा ।तत्कालत्वविशिष्टं च तथैतत्कालसंयुतम् ॥ ३८ ॥
अतस्तयोर्विरुद्धं तत्तत्कालत्वादिधर्मकम् ।त्यक्त्वा वाक्यं यथा विप्रपिण्डं बोधयतीरितम् ॥ ३९ ॥
तथैव प्रकृते तत्त्वमसीत्यत्र श्रुतौ शृणु ।प्रत्यक्त्वादीन्परित्यज्य जीवधर्मांस्त्वमःपदात् ॥ ४० ॥
सर्वज्ञत्वपरोक्षादीन्परित्यज्य ततःपदात् ।शुद्धं कूटस्थमद्वैतं बोधयत्यादरात्परम् ॥ ४१ ॥
तत्त्वमोः पदयोरैक्यमेव तत्त्वमसीत्यलम् ।इत्थमैक्यावबोधेन सम्यग्ज्ञानं दृढं नयैः ॥ ४२ ॥
अहं ब्रह्मेति विज्ञानं यस्य शोकं तरत्यसौ ।आत्मा प्रकाशमानोऽपि महावाक्यैस्तथैकता ॥ ४३ ॥
तत्त्वमोर्बोध्यतेऽथापि पौर्वापर्यानुसारतः ।तथापि शक्यते नैव श्रीगुरोः करुणां विना ॥ ४४ ॥
अपरोक्षयितुं लोके मूढैः पण्डितमानिभिः ।अन्तःकरणसंशुद्धौ स्वयं ज्ञानं प्रकाशते ॥ ४५ ॥
वेदवाक्यैरतः किं स्याद्गुरुणेति न सांप्रतम् ।आचार्यवान्पुरुषो हि वेदेत्येवं श्रुतिर्जगौ ॥ ४६ ॥
अनादाविह संसारे बोधको गुरुरेव हि ।अतो ब्रह्मात्मवस्त्वैक्यं ज्ञात्वा दृश्यमसत्तया ॥ ४७ ॥
अद्वैते ब्रह्मणि स्थेयं प्रत्यब्रह्मात्मना सदा ।तत्प्रत्यक्षात्परिज्ञातमद्वैतब्रह्मचिह्ननम् ॥ ४८ ॥
प्रतिपाद्यं तदेवात्र वेदान्तैर्न द्वयं जडम् ।सुखरूपं चिदद्वैतं दुःखरूपमसज्जडम् ॥ ४९ ॥
वेदान्तैस्तद्द्वयं सम्यङ्निर्णीतं वस्तुतो नयात् ।अद्वैतमेव सत्यं त्वं विद्धि द्वैतमसत्सदा ॥ ५० ॥
शुद्धे कथमशुद्धः स्यादृश्यं मायामयं ततः ।शुक्तौ रूप्यं मृषा यद्वत्तथा विश्व परात्मनि ॥ ५१ ॥
विद्यते न स्वतः सत्त्वं नासतः सत्त्वमस्ति वा ।बाध्यत्वान्नैव सद्द्वैतं नासत्प्रत्यक्षभानतः ॥ ५२ ॥
सदसन्न विरुद्धत्वादतोऽनिर्वाच्यमेव तत् ।यः पूर्वमेक एवासीत्सृष्ट्वा पश्चादिदं जगत् ॥ ५३ ॥
प्रविष्टो जीवरूपेण स एवात्मा भवान्परः ।सच्चिदानन्द एव त्वं विस्मृत्यात्मतया परम् ॥ ५४ ॥
जीवभावमनुप्राप्तः स एवात्मासि बोधतः ।अद्वयानन्दचिन्मात्रः शुद्धः साम्राज्यमागतः ॥ ५५ ॥
कर्तृत्वादीनि यान्यासंस्त्वयि ब्रह्माद्वये परे ।तानीदानीं विचार्य त्वं किंस्वरूपाणि वस्तुतः ॥ ५६ ॥
अत्रैव शृणु वृत्तान्तमपूर्वं श्रुतिभाषितम् ।कश्चिद्गान्धारदेशीयो महारत्नविभूषितः ॥ ५७ ॥
स्वगृहे स्वाङ्गणे सुप्तः प्रमत्तः सन्कदाचन ।रात्रौ चौरः समागत्य भूषणानां प्रलोभितः ॥ ५८ ॥
बद्ध्वा देशान्तरं चौरैर्नीतः सन्गहने वने ।भूषणान्यपहृत्यापि बद्धाक्षकरपादकः ॥ ५९ ॥
निक्षिप्तो विपिनेऽतीव कुशकण्टकवृश्चिकैः ।व्यालव्याघ्रादिभिश्चैव संकुले तरुसंकटे ॥ ६० ॥
व्यालादिदुष्टसत्वेभ्यो महारण्ये भयातुरः ।शिलाकण्टकदर्भाद्यैर्देहस्य प्रतिकूलकैः ॥ ६१ ॥
क्रियमाणे विलुठने विशीर्णाङ्गोऽसमर्थकः ।क्षुत्तृडातपवाय्वग्न्यादिभिस्तप्तोऽतितापकैः ॥ ६२ ॥
बन्धमुक्तौ तथा देशप्राप्तावेव सुदुःखधीः ।ददृशे कंचिदाक्रोशन्नैकं तत्रैव तस्थिवान् ॥ ६३ ॥
तथा रागादिभिर्वर्गैः शत्रुभिर्दुःखदायिभिः ।चौरैर्देहाभिमानाद्यैः स्वानन्दधनहारिभिः ॥ ६४ ॥
ब्रह्मानन्दे प्रमत्तः स्वाज्ञाननिद्रावशीकृतः ।बद्धस्त्वं बन्धनैर्भोगतृष्णाज्वरादिभिर्दृढम् ॥ ६५ ॥
अद्वयानन्दरूपात्त्वां प्रच्याव्यातीव धूर्तकैः ।दूरनीतोऽसि देहेषु संसारारण्यभूमिषु ॥ ६६ ॥
सर्वदुःखनिदानेषु शरीरादित्रयेषु च ।नानायोनिषु कर्मान्धवासनानिर्मितासु च ॥ ६७ ॥
प्रवेशितोऽसि सृष्टोऽसि बद्धः स्वानन्ददृष्टितः ।अनादिकालमारभ्य दुःखं चानुभवन्सदा ॥ ६८ ॥
जन्ममृत्युजरादोषनरकादिपरम्पराम् ।निरन्तरं विषण्णोऽनुभवन्नत्यन्तशोकवान् ॥ ६९ ॥
अविद्याभूतबन्धस्य निवृत्तौ दुःखदस्य च ।स्वरूपानन्दसंप्राप्तौ सत्योपायं न लब्धवान् ॥ ७० ॥
यथा गान्धारदेशीयश्चिरं देवाद्दयालुभिः ।कैश्चित्पान्थैः परिप्राप्तैर्मुक्तदृष्ट्यादिबन्धनः ॥ ७१ ॥
सः स्वस्थैरुपदिष्टश्च पण्डितो निश्चितात्मकः ।ग्रामाद्ग्रामान्तरं गच्छेन्मेधावी मार्गतत्परः ॥ ७२ ॥
गत्वा गान्धारदेशं स स्वगृहं प्राप्य पूर्ववत् ।बान्धवैः संपरिष्वक्तः सुखी भूत्वा स्थितोऽभवत् ॥ ७३ ॥
त्वमप्येवमनेकेषु दुःखदायिषु जन्मसु ।भ्रान्तो दैवाच्छुभे मार्गे जातश्रद्धः सुकर्मकृत् ॥ ७४ ॥
वर्णाश्रमाचारपरोऽवाप्तपुण्यमहोदयः ।ईश्वरानुग्रहाल्लब्धो ब्रह्मविद्गुरुसत्तमः ॥ ७५ ॥
विधिवत्कृतसंन्यासो विवेकादियुतः सुधीः ।प्राप्तो ब्रह्मोपदेशोऽद्य वैराग्याभ्यासतः परम् ॥ ७६ ॥
पण्डितस्तत्र मेधावी युक्त्या वस्तु विचारयन् ।निदिध्यासनसंपन्नः प्राप्तो हि त्वं परं पदम् ॥ ७७ ॥
अतो ब्रह्मात्मविज्ञानमुपदिष्टं यथाविधि ।मयाचार्येण ते धीर सम्यक्तत्र प्रयत्नवान् ॥ ७८ ॥
भूत्वा विमुक्तबन्धस्त्वं छिन्नद्वैतात्मसंशयः ।निर्द्वन्द्वो निःस्पृहो भूत्वा विचरस्व यथासुखम् ॥ ७९ ॥
वस्तुतो निष्प्रपञ्चोऽसि नित्यमुक्तः स्वभावतः ।न ते बन्धविमोक्षौ स्तः कल्पितौ तौ यतस्त्वयि ॥ ८० ॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ८१ ॥
श्रुतिसिद्धान्तसारोऽयं तथैव त्वं स्वया धिया ।संविचार्य निदिध्यास्य निजानन्दात्मकं परम् ॥ ८२ ॥
साक्षात्कृत्वा परिच्छिन्नाद्वैतब्रह्माक्षरं स्वयम् ।जीवन्नेव विनिर्मुक्तो विश्रान्तः शान्तिमाश्रय ॥ ८३ ॥
विचारणीया वेदान्ता वन्दनीयो गुरुः सदा ।गुरूणां वचनं पथ्यं दर्शनं सेवनं नृणाम् ॥ ८४ ॥
गुरुर्ब्रह्म स्वयं साक्षात्सेव्यो वन्द्यो मुमुक्षुभिः ।नोद्वेजनीय एवायं कृतज्ञेन विवेकिना ॥ ८५ ॥
यावदायुस्त्वया वन्द्यो वेदान्तो गुरुरीश्वरः ।मनसा कर्मणा वाचा श्रुतिरेवैष निश्चयः ॥ ८६ ॥
भावाद्वैतं सदा कुर्यात्क्रियाद्वैतं न कर्हिचित् ।अद्वैतं त्रिषु लोकेषु नाद्वैतं गुरुणा सह ॥ ८७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ तत्त्वोपदेशः संपूर्णः ॥

Settings