स्वात्मनिरूपणम्

श्रीगुरुचरणद्वन्द्वं वन्देऽहं मथितदुःसहद्वन्द्वम् ।भ्रान्तिग्रहोपशान्तिं पांसुमयं यस्य भसितमातनुते ॥ १ ॥
देशिकवरं दयालुं वन्देऽहं निहतनिखिलसंदेहम् ।यच्चरणद्वयमद्वयमनुभवमुपदिशति तत्पदस्वार्थम् ॥ २ ॥
संसारदावपावकसंतप्तः सकलसाधनोपेतः ।स्वात्मनिरूपणनिपुणैर्वाक्यैः शिष्यः प्रबोध्यते गुरुणा ॥
अस्ति स्वयमित्यस्मिन्नर्थे कस्यास्ति संशयः पुंसः ।अत्रापि संशयश्चेत्संशयिता यः स एव भवसि त्वम् ॥
नामिति वेत्ति योऽसौ सत्यं ब्रह्मैव वेत्ति नास्तीति ।अहमस्मीति विजानन्ब्रह्मैवासौ स्वयं विजानाति ॥ ५ ॥
ब्रह्म त्वमेव तस्मान्नाहं ब्रह्मेति मोहमात्रमिदम् ।मोहेन भवति भेदः क्लेशाः सर्वे भवन्ति तन्मूलाः ॥ ६ ॥
न क्लेशपञ्चकमिदं भजते कृतकोशपञ्चकविवेकः ।अत एव पञ्च कोशान्कुशलधियः संततं विचिन्वन्ति ॥
अन्नप्राणमनोमयविज्ञानानन्दपञ्चकोशानाम् ।एकैकान्तरभाजां भजति विवेकात्प्रकाशतामात्मा ॥ ८ ॥
वपुरिदमन्नमयाख्यः कोशो नात्मा जडो घटप्रायः ।प्रागुत्पत्तेः पश्चात्तदभावस्यापि दृश्यमानत्वात् ॥ ९ ॥
कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवच्छिन्नः ।अस्य कथमात्मता स्यात्क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ॥
कुरुते वपुष्यहंतां गेहादौ यः करोति ममतां च ।रागद्वेषविधेयो नासावात्मा मनोमयः कोशः ॥ ११ ॥
सुप्तौ स्वयं विलीना बोधे व्याप्ता कलेबरं सकलम् ।विज्ञानशब्दवाच्या चित्प्रतिबिम्बो न बुद्धिरप्यात्मा ॥
सुप्तिगतैः सुखलेशैरभिमनुते यः सुखी भवामीति ।आनन्दकोशनामा सोऽहंकारः कथं भवेदात्मा ॥ १३ ॥
यः स्फुरति बिम्बभूतः स भवेदानन्द एव सकलात्मा ।प्रागूर्ध्वमपि च सत्त्वादविकारित्वादबाध्यमानत्वात् ॥
अन्नमयादेरस्मादपरं यदि नानुभूयते किंचित् ।अनुभवितान्नमयादेरस्तीत्यस्मिन्न कश्चिदपलापः ॥ १५ ॥
स्वयमेवानुभवत्वाद्यद्यप्येतस्य नानुभाव्यत्वम् ।सकृदप्यभावशङ्का न भवेद्बोधस्वरूपसत्तायाः ॥ १६ ॥
अनुभवति विश्वमात्मा विश्वेनासौ न चानुभूयेत ।न खलु प्रकाश्यतेऽसौ विश्वमशेषं प्रकाशयन्भानुः ॥
तदिदं तादृशमीदृशमेतावत्तावदिति च यन्न भवेत् ।ब्रह्म तदित्यवधेयं नो चेद्विषयो भवेत्परोक्षं च ॥ १८ ॥
इदमिदमिति प्रतीते वस्तुनि सर्वत्र बाध्यमानेऽपि ।अनिदमबाध्यं तत्त्वं सत्त्वादेतस्य न च परोक्षत्वम् ॥
नावेद्यमपि परोक्षं भवति ब्रह्म स्वयंप्रकाशत्वात् ।सत्यं ज्ञानमनन्तं ब्रह्मेत्येतस्य लक्षणं प्रथते ॥ २० ॥
सति कोशशक्त्युपाधौ संभवतस्तस्य जीवतेश्वरते ।नो चेत्तयोरभावाद्विगतविशेषं विभाति निजरूपम् ॥
सति सकलदृश्यबाधे न किमप्यस्तीति लोकसिद्धं चेत् ।यन्न किमपीति सिद्धं ब्रह्म तदेवेति वेदतः सिद्धम् ॥ २२ ॥
एवं मतिरहितानां तत्त्वमसीत्यादिवाक्यचिन्तनया ।प्रतिभात्येष परोक्षवदात्मा प्रत्यक्प्रकाशमानोऽपि ॥ २३ ॥
तस्मात्पदार्थशोधनपूर्वं वाक्यस्य चिन्तयन्नर्थम् ।देशिकदयाप्रभावादपरोक्षयति क्षणेन चात्मानम् ॥ २४ ॥
देहेन्द्रियादिधर्मानात्मन्यारोपयन्नभेदेन ।कर्तृत्वाद्यभिमानी बोधः स्यात्त्वंपदस्य वाच्योऽर्थः ॥
देहस्य चेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन ।प्रतिभाति योऽवबोधः प्रोक्तोऽसौ त्वंपदस्य लक्ष्योऽर्थः ॥
वेदावसानवाचा संवेद्यं सकलजगदुपादानम् ।सर्वज्ञताद्युपेतं चैतन्यं तत्पदस्य वाच्योऽर्थः ॥ २७ ॥
विविधोपाधिविमुक्तं विश्वातीतं विशुद्धमद्वैतम् ।अक्षरमनुभववेद्यं चैतन्यं तत्पदस्य लक्ष्योऽर्थः ॥ २८ ॥
सामानाधिकरण्यं तदनु विशेषणविशेष्यता चेति ।अथ लक्ष्यलक्षकत्वं भवति पदार्थात्मनां च संबन्धः ॥
एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनाम् ।सामानाधिकरण्यं भवतीत्येवं वदन्ति लाक्षणिकाः ॥ ३० ॥
प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्वं च सद्वितीयत्वम् ।इतरेतरं विरुद्धं तत इह भवितव्यमेव लक्षणया ॥ ३१ ॥
मानान्तरोपरोधान्मुख्यार्थस्यापरिग्रहे जाते ।मुख्याविनाकृतेऽर्थे या वृत्तिः सैव लक्षणा प्रोक्ता ॥ ३२ ॥
निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे ।जहतीति लक्षणा स्याद्गङ्गायां घोषवदिह न ग्राह्या ॥
वाच्यार्थमत्यजन्त्या यस्या वृत्तेः प्रवृत्तिरन्यार्थे ।इयमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥
जहदजहतीति सा स्याद्या वाच्यार्थैकदेशमपहाय ।बोधयति चैकदेशं सोऽयं द्विज इतिवदाश्रयेदेनाम् ॥
सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक्परोक्षदेशाद्यम् ।द्विजमात्रलक्षकत्वात्कथयत्यैक्यं पदार्थयोरुभयोः ॥ ३६ ॥
तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि ।चिद्वस्तु लक्षयित्वा बोधयति स्पष्टमसिपदेनैक्यम् ॥
इत्थं बोधितमर्थं महता वाक्येन दर्शितैक्येन ।अहमित्यपरोक्षयतां वेदो वेदयति वीतशोकत्वम् ॥ ३८ ॥
प्रायः प्रवर्तकत्वं विधिवचसां लोकवेदयोर्दृष्टम् ।सिद्धं बोधयतोऽर्थं कथमिव तद्भवति तत्त्वमस्यादेः ॥
विधिरेव न प्रवृत्तिं जनयत्यभिलषितवस्तुबोधोऽपि ।राजा याति सुतोऽभूदिति बोधेन प्रवर्तते लोकः ॥ । ४० ॥
ऐक्यपरैः श्रुतिवाक्यैरात्मा शश्वत्प्रकाश्यमानोऽपि ।देशिकदयाविहीनैरपरोक्षयितुं न शक्यते पुरुषैः ॥ ४१ ॥
विरहितकाम्यनिषिद्धो विहितानुष्ठाननिर्मलस्वान्तः ।भजति निजमेव बोधं गुरुणा किमिति त्वया न मन्तव्यम् ॥
कर्मभिरेव न बोधः प्रभवति गुरुणा विना दयानिधिना ।आचार्यवान्हि पुरुषो वेदेत्यर्थस्य वेदसिद्धत्वात् ॥ ४३ ॥
वेदोऽनादितया वा यद्वा परमेश्वरप्रणीततया ।भवति परमं प्रमाणं बाधो नास्ति स्वतश्च परतो वा ॥
नापेक्षते यदन्यद्यदपेक्षन्तेऽखिलानि मानानि ।वाक्यं तन्निगमानां मानं ब्रह्माद्यतीन्द्रियावगतौ ॥ ४५ ॥
मानं प्रबोधयन्तं बोधं मानेन ये बुभुत्सन्ते ।एधोभिरेव दहनं दग्धुं वाञ्छन्ति ते महात्मानः ॥ ४६ ॥
वेदोऽनादिरमुष्य व्यञ्जक ईशः स्वयंप्रकाशात्मा ।तदभिव्यक्तिमुदीक्ष्य प्रोक्तोऽसौ सूरिभिः प्रमाणमिति ॥
रूपाणामवलोके चक्षुरिवान्यन्न कारणं दृष्टम् ।तद्वददृष्टावगतौ वेदवदन्यो न वेदको हेतुः ॥ ४८ ॥
निगमेषु निश्चितार्थं तन्त्रे कश्चिद्यदि प्रकाशयति ।तदिदमनुवादमात्रं प्रामाण्यं तस्य सिध्यति न किंचित् ॥
अंशद्वयवति निगमे साधयति द्वैतमेव कोऽप्यंशः ।अद्वैतमेव वस्तु प्रतिपादयति प्रसिद्धमपरोंऽशः ॥ ५० ॥
अद्वैतमेव सत्यं तस्मिन्द्वैतं न सत्यमध्यस्तम् ।रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम् ॥
आरोपितं यदि स्यादद्वैतं वस्त्ववस्तुनि द्वैते ।तदयुक्तमेव यस्मात्सत्येऽध्यासो भवत्यसत्यानाम् ॥ ५२ ॥
यद्यारोपणमुभयोस्तद्व्यतिरिक्तस्य कस्यचिदभावात् ।आरोपणं न शून्ये तस्मादद्वैतसत्यता ग्राह्या ॥ ५३ ॥
प्रत्यक्षाद्यनवगतं श्रुत्या प्रतिपादनीयमद्वैतम् ।द्वैतं न प्रतिपाद्यं तस्य स्वत एव लोकसिद्धत्वात् ॥ ५४ ॥
अद्वैतं सुखरूपं दुःसहदुःखं सदा भवेद्द्वैतम् ।यत्र प्रयोजनं स्यात्प्रतिपादयति श्रुतिस्तदेवासौ ॥ ५५ ॥
निगमगिरा प्रतिपाद्यं वस्तु यदानन्दरूपमद्वैतम् ।स्वाभाविकं स्वरूपं जीवत्वं तस्य केचन ब्रुवते ॥ ५६ ॥
स्वाभाविकं यदि स्याज्जीवत्वं तस्य विशदविज्ञप्तेः ।सकृदपि न तद्विनाशं गच्छेदुष्णप्रकाशवद्वह्नेः ॥ ५७ ॥
यद्वदयो रसविद्धं काञ्चनतां याति तद्वदेवासौ ।जीवः साधनशक्त्या परतां यातीति केचिदिच्छन्ति ॥
तदिदं भवति न युक्तं गतवति तस्मिंश्चिरेण रसवीर्ये ।प्रतिपद्यते प्रणाशं हैमो वर्णोऽप्ययःसमारूढः ॥ ५९ ॥
जीवत्वमपि तथेदं बहुविधसुखदुःखलक्षणोपेतम् ।गतमिव साधनशक्त्या प्रतिभात्येव प्रयाति न विनाशम् ॥
तस्मात्स्वतो यदि स्याज्जीवः सततं स एव जीवः स्यात् ।एवं यदि परमात्मा परमात्मैवायमिति भवेद्युक्तम् ॥
यदि वा परेण साम्यं जीवश्चेद्भजति साधनबलेन ।कालेन तदपि कियता नश्यत्येवेति निश्चितं सकलैः ॥
तस्मात्परं स्वकीयं देहं मोहात्मकं च संसारम् ।स्वज्ञानेन ग्रसित्वा पूर्णः स्वयमेव शिष्यते नान्यत् ॥
सत्यं ज्ञानमनन्तं प्रकृतं परमात्मरूपमद्वैतम् ।अवबोधयन्ति निखिलाः श्रुतयः स्मृतिभिः समं समस्ताभिः ॥
अद्वैतबोधकानां निखिलानां निगमवाक्यजालानाम् ।वाक्यान्तराणि सकलान्यभिधीयन्तेऽस्य शेषभूतानि ॥
यस्मिन्महिरवदुदिते तिमिरवदपयान्ति कर्तृतादीनि ।ज्ञानं विरहितभेदं कथमिव तद्भवति तत्त्वमस्यादेः ॥
कर्मप्रकरणनिष्ठं ज्ञानं कर्माङ्गमिष्यते प्राज्ञैः ।भिन्नप्रकरणभाजः कर्माङ्गत्वं कथं भवेज्ज्ञप्तेः ॥ ६७ ॥
अधिकारिविषयभेदौ कर्मज्ञानात्मकावुभौ काण्डौ ।एवं सति कथमनयोरङ्गाङ्गित्वं परस्परं घटते ॥ ६८ ॥
ज्ञानं कर्मणि न स्याज्ज्ञाने कर्मेदमपि तथा न स्यात् ।तत्कथमनयोरुभयोस्तपनतमोवत्समुच्चयो घटते ॥ ६९ ॥
तस्मान्मोहनिवृत्तौ ज्ञानं न सहायमन्यदर्थयते ।यद्वद्घनतरतिमिरप्रकरपरिध्वंसने सहस्रांशुः ॥ ७० ॥
ज्ञानं तदेवममलं साक्षी विश्वस्य भवति परमात्मा ।संबध्यते न धर्मैः साक्षी तैरेव सच्चिदानन्दः ॥ ७१ ॥
रज्ज्वादेरुरगाद्यैः संबन्धवदस्य दृश्यसंबन्धः ।सततमसङ्गोऽयमिति श्रुतिरप्यमुमर्थमेव साधयति ॥
कर्तृ च कर्म च यस्य स्फुरति ब्रह्मैव तन्न जानाति ।यस्य न कर्तृ न कर्म स्फुटतरमयमेव वेदितुं क्रमते ॥
कर्तृत्वादिकमेतन्मायाशक्त्या प्रपद्यते निखिलम् ।इति केचिदाहुरेषा भ्रान्तिर्ब्रह्मातिरेकतो नान्यत् ॥ ७४ ॥
तस्मिन्ब्रह्मणि विदिते विश्वमशेषं भवेदिदं विदितम् ।कारणमृदि विदितायां घटकरकाद्या यथावगम्यन्ते ॥
तदिदं कारणमेकं विगतविशेषं विशुद्धचिद्रूपम् ।तस्मात्सदेकरूपान्मायोपहितादभूदिदं विश्वम् ॥ ७६ ॥
कारणमसदिति केचित्कथयन्त्यसतो भवेन्न कारणता ।अङ्कुरजननी शक्तिः सति खलु बीजे समीक्ष्यते सकलैः ॥
कारणमसदिति कथयन्वन्ध्यापुत्रेण निर्वहेत्कार्यम् ।किं च मृगतृष्णिकाम्भः पीत्वोदन्यां महीयसीं शमयेत् ॥
यस्मान्न सोऽयमसतो वादः संभवति शास्त्रयुक्तिभ्याम् ।तस्मात्सदेव तत्त्वं सर्वेषां भवति कारणं जगताम् ॥ ७९ ॥
जगदाकारतयापि प्रथते गुरुशिष्यविग्रहतयापि ।ब्रह्माकारतयापि प्रतिभातीदं परात्परं तत्त्वम् ॥ ८० ॥
सत्यं जगदिति भानं संसृतये स्यादपक्वचित्तानाम् ।तस्मादसत्यमेतन्निखिलं प्रतिपादयन्ति निगमान्ताः ॥
परिपक्वमानसानां पुरुषवराणां पुरातनैः सुकृतैः ।बृह्मैवेदं सर्वं जगदिति भूयः प्रबोधयत्येषः ॥ ८२ ॥
अनवगतकाञ्चनानां भूषणधीरेव भूषणे हैमे ।एवमविवेकभाजां जगति जनानां न तात्त्विकी धिषणा ॥
अहमालम्बनसिद्धं कस्य परोक्षं भवेदिदं ब्रह्म ।तदपि विचारविहीनैरपरोक्षयितुं न शक्यते मुग्धैः ॥
अहमिदमिति च मतिभ्यां सततं व्यवहरति सर्वलोकोऽपि ।प्रथमा प्रतीचि चरमा निवसति वपुरिन्द्रियादिबाह्यार्थे ॥
वपुरिन्द्रियादिविषये याहंबुद्धिर्महत्यसौ भ्रान्तिः ।तद्बुद्धिरतस्मिन्नित्यध्यासत्वेन शास्यमानत्वात् ॥ ८६ ॥
तस्मादशेषसाक्षी परमात्मैवाहमर्थ इत्युचितम् ।अजडवदेव जडोऽयं सत्संबन्धाद्भवत्यहंकारः ॥ ८७ ॥
तस्मात्सर्वशरीरेष्वहमहमित्येव भासते स्पष्टः ।यः प्रत्ययो विशुद्धस्तस्य ब्रह्मैव भवति मुख्योऽर्थः ॥ ८८ ॥
गोशब्दार्थो गोत्वं तदपि व्यक्तिः प्रतीयतेऽर्थतया ।अहमर्थः परमात्मा तद्वद्भान्त्या भवत्यहंकारः ॥ ८९ ॥
दग्धृत्वादिकमयसः पावकसङ्गेन भासते यद्वत् ।तद्वच्चेतनसङ्गादहमि प्रतिभान्ति कर्तृतादीनि ॥ ९० ॥
देहेन्द्रियादिदृश्यव्यतिरिक्तं विमलमतुलमद्वैतम् ।अहमर्थ इति विदित्वा तद्व्यतिरिक्तं न कल्पयेत्किंचित् ॥
यद्वत्सुखदुःखानामवयवभेदादनेकता देहे ।तद्वदिहासति भेदेऽप्यनुभववैविध्यमात्मनामेषाम् ॥ ९२ ॥
किमिदं किमस्य रूपं कथमिदमासीदमुष्य को हेतुः ।इति न कदापि विचिन्त्यं चिन्त्यं मायेति धीमता विश्वम् ॥
दन्तिनि दारुविकारे दारु तिरोभवति सोऽपि तत्रैव ।जगति तथा परमात्मा परमात्मन्यपि जगत्तिरोधत्ते ।
आत्ममये महति पटे विविधजगच्चित्रमात्मना लिखितम् ।स्वयमेव केवलमसौ पश्यन्प्रमुदं प्रयाति परमात्मा ॥ ९५ ॥
चिन्मात्रममलमक्षयमद्वयमानन्दमनुभवारूढम् ।ब्रह्मैवास्ति तदन्यन्न किमप्यस्तीति निश्चयो विदुषाम् ॥
व्यवहारस्य दशेयं विद्याविद्येति भेदपरिभाषा ।नास्त्येव तत्त्वदृष्ट्या तत्त्वं ब्रह्मैव नान्यदस्त्यस्मात् ॥ ९७ ॥
अस्त्यन्यदिति मतं चेत्तदपि ब्रह्मैतदस्तितारूपम् ।व्यतिरिक्तमस्तिताया नास्तितया शून्यमेव तत्सिद्धम् ॥
तत्त्वावबोधशक्त्या सुस्थितया बाधितापि सा माया ।आदेहपातमेषामाभात्यात्मानमपि निजं विदुषाम् ॥ ९९ ॥
एष विशेषो विदुषां पश्यन्तोऽपि प्रपञ्चसंसारम् ।पृथगात्मनो न किंचित्पश्येयुः सकलनिगमनिर्णीतात् ॥
किं चिन्त्यं किमचिन्त्यं किं कथनीयं किमप्यकथनीयम् ।किं कृत्यं किमकृत्यं निखिलं ब्रह्मेति जानतां विदुषाम् ॥
निखिलं दृश्यविशेषं दृग्रूपत्वेन पश्यतां विदुषाम् ।बन्धो नापि न मुक्तिर्न परात्मत्वं न चापि जीवत्वम् ॥
असकृदनुचिन्तितानामव्याहततरनिजोपदेशानाम् ।प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥
इति बोधितः स गुरुणा शिष्यो हृष्टः प्रणम्य तं पदयोः ।स्वानुभवसिद्धमर्थं स्वयमेवान्तर्विचारयामास ॥ १०४ ॥
अजरोऽहमक्षरोऽहं प्राज्ञोऽहं प्रत्यगात्मबोधोऽहम् ।परमानन्दमयोऽहं परमशिवोऽहं भवामि परिपूर्णः ॥
आद्योऽहमात्मभाजामात्मानन्दानुभूतिरसिकोऽहम् ।आबालगोपमखिलैरहमित्यनुभूयमानमहिमाहम् ॥ १०६ ॥
इहपरसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् ।इतिमतिदूरतरोऽहं भावेतरसुखनिषक्तचित्तोऽहम् ॥
ईशोऽहमीश्वराणामीर्ष्याद्वेषानुषङ्गरहितोऽहम् ।ईक्षणविषयमतीनामीप्सितपुरुषार्थसाधनपरोऽहम् ॥
उदयोऽहमेव जगतामुपनिषदुद्यानकृतविहारोऽहम् ।उद्वेलशोकसागरबाडबमुखहव्यवाहनाचिरहम् ॥ १०९ ॥
ऊर्जस्वलनिजविभवैरूर्ध्वमधस्तिर्यगश्नुवानोऽहम् ।ऊहापोहविचारैरुररीकृतवत्प्रतीयमानोऽहम् ॥ ११० ॥
ऋषिरहमृष्यगणोऽहं दृष्टिरहं दृश्यमानमहमेव ।ऋद्धिरहं वृद्धिरहं तृप्तिरहं तृप्तिदीपदीप्तिरहम् ॥ १११ ॥
एकोऽहमेतदीदृशमेवमितिस्फुरितभेदरहितोऽहम् ।एष्टव्योऽहमनीहैरन्तः सुकृतानुभूतिभूतोऽहम् ॥ ११२ ॥
ऐक्यावभासकोऽहं वाक्यपरिज्ञानपावनमतीनाम् ।ऐशमहमेव तत्त्वं नैशतमःप्रायमोहमिहिरोऽहम् ॥ ११३ ॥
ओजोऽहमोषधीनामोतप्रोतायमानभुवनोऽहम् ।ओंकारसारसोल्लसदात्मसुखामोदमत्तभृङ्गोऽहम् ॥ ११४ ॥
औषधमहमशुभानामौपाधिकधर्मजालरहितोऽहम् ।औदार्यातिशयोऽहं विविधचतुर्वर्गवितरणपरोऽहम् ॥
अङ्कुशमहमखिलानां महत्तया मत्तवारणेन्द्राणाम् ।अम्बरमिव विमलोऽहं शम्बररिपुजातविकृतिरहितोऽहम् ॥
अस्तविकल्पमतीनामस्खलदुपदेशगम्यमानोऽहम् ।अस्थिरसुखविमुखोऽहं सुस्थिरसुखबोधसंपदुचितोऽहम् ॥
करुणारसभरितोऽहं कबलितकमलासनादिलोकोऽहम् ।कलुषाकृतिविधुरोऽहं कल्मषसुकृतोपलेपरहितोऽहम् ॥
खानामगोचरोऽहं खातीतोऽहं खपुष्पभवगोऽहम् ।खलजनदुरासदोऽहं खण्डज्ञानापनोदनपरोऽहम् ॥ ११९ ॥
गलितद्वैतकथोऽहं देहीभवदखिलमूलहृदयोऽहम् ।गन्तव्योऽहमनीहैर्गत्यागतिरहितपूर्णबोधोऽहम् ॥ १२० ॥
घनतरविमोहतिमिरप्रकरप्रध्वंसभानुनिकरोऽहम् ।घटिकावासररजनीवत्सरयुगकल्पकालभेदोऽहम् ॥ १२२ ॥
चरदचरदात्मकोऽहं चतुरमतिश्लाघनीयचरितोऽहम् ।चपलजनदुर्गमोऽहं चञ्चलभवजलधिपारदेशोऽहम् ॥
छन्दः सिन्धुनिगूढज्ञानसुखास्वादमोदमानोऽहम् ।छलपदविहितमतीनां छन्नोऽहं शान्तिमार्गगम्योऽहम् ॥
जलजासनादिगोचरपञ्चमहाभूतमूलभूतोऽहम् ।जगदानन्दकरोऽहं जन्मजरामरणरोगरहितोऽहम् ॥
झंकृतिहुंकृतिशिञ्जितबृंहितमुखविविधनादभेदोऽहम् ।झटितिघटितात्मवेदनदीपपरिस्फुरितहृदयभवनोऽहम् ॥
ज्ञानमहं ज्ञेयमहं ज्ञाताहं ज्ञानसाधनगणोऽहम् ।ज्ञातृज्ञानज्ञेयविनाकृतमस्तित्वमात्रमेवाहम् ॥ १२६ ॥
तत्त्वातीतपदोऽहं तनुरहमस्मीति भावरहितोऽहम् ।तामसदुरधिगमोऽहं तत्त्वंपदबोधबोध्यहृदयोऽहम् ॥
दैवतदैत्यनिशाचरमानवतिर्यङ्महीधरादिरहम् ।देहेन्द्रियरहितोऽहं दक्षिणपूर्वादिदिग्विभागोऽहम् ॥
धर्माधर्ममयोऽहं धर्माधर्मादिबन्धरहितोऽहम् ।धार्मिकजनसुलभोऽहं धन्योऽहं धातुरादिभूतोऽहम् ॥
नामादिविरहितोऽहं नरकस्वर्गापवर्गरहितोऽहम् ।नादान्तवेदितोऽहं नानाविधनिखिलनिगमसारोऽहम् ॥
परजीवभेदबाधकपरमार्थज्ञानशुद्धचित्तोऽहम् ।प्रकृतिरहं विकृतिरहं परिणतिरहमस्मि भागधेयानाम् ॥
फणधरभूधरवारणविग्रहविधृतप्रपञ्चसारोऽहम् ।फालतलोदितलोचनपावकपरिभूतपञ्चबाणोऽहम् ॥ १३२ ॥
बद्धो भवामि नाहं बन्धान्मुक्तस्तथापि नैवाहम् ।बोध्यो भवामि नाहं बोधोऽहं नैव बोधको नाहम् ॥
भक्तिरहं भजनमहं भुक्तिरहं भुक्तिमुक्तिरहमेव ।भूतानुशासनोऽहं भूतभवद्भव्यमूलभूतोऽहम् ॥ १३४ ॥
मान्योऽहमस्मि महतां मन्दमतीनाममाननीयोऽहम् ।मदरागमानमोहितमानसदुर्वासनादुरापोऽहम् ॥ १३५ ॥
यजनयजमानयाजकयागमयोऽहं यमादिरहितोऽहम् ।यमवरुणयक्षवासवराक्षसमरुदीशवह्निरूपोऽहम् ॥ १३६ ॥
रक्षाविधानशिक्षावीक्षितलीलावलोकमहिमाहम् ।रजनीदिवसविरामस्फुरदनुभूतिप्रमाणसिद्धोऽहम् ॥
लक्षणलक्ष्यमयोऽहं लाक्षणिकोऽहं लयादिरहितोऽहम् ।लाभालाभमयोऽहं लब्धव्यानामलभ्यमानोऽहम् ॥ १३८ ॥
वर्णाश्रमरहितोऽहं वर्णमयोऽहं वरेण्यगण्योऽहम् ।वाचामगोचरोऽहं वचसामर्थेन गम्यमानोऽहम् ॥ १३९ ॥
शमदमविरहितमनसां शास्त्रशतैरप्यगम्यमानोऽहम् ।शरणमहमेव विदुषां शकलीकृतविविधसंशयगणोऽहम् ॥
षड्भावविरहितोऽहं षड्गुणरहितोऽहमहितरहितोऽहम् ।षट्कोशविरहितोऽहं षट्त्रिंशत्तत्त्वजालरहितोऽहम् ॥
संवित्सुखात्मकोऽहं समाधिसंकल्पकल्पवृक्षोऽहम् ।संसारविरहितोऽहं साक्षात्कारोऽहमात्मविद्यायाः ॥
हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् ।हरिरहमस्मि हरोऽहं विधिरहमेवास्मि कारणं तेषाम् ॥
क्षालितकलुषभयोऽहं क्षपितभवक्लेशजालहृदयोऽहम् ।क्षान्ताद्यक्षरसुघटितविविधव्यवहारमूलमहमेव ॥ १४४ ॥
बहुभिः किमेभिरुक्तैरहमेवेदं चराचरं विश्वम् ।शीकरफेनतरङ्गाः सिन्धोरपराणि न खलु वस्तूनि ॥
शरणं न भवति जननी न पिता न सुता न सोदरा नान्ये ।परमं शरणमिदं स्याच्चरणं मम मूर्ध्नि देशिकन्यस्तम् ॥
आस्ते देशिकचरणं निरवधिरास्ते तदीक्षणे करुणा ।आस्ते किमपि तदुक्तं किमतः परमस्ति जन्मसाफल्यम् ॥
कारुण्यसारसान्द्राः काङ्क्षितवरदानकल्पकविशेषाः ।श्रीगुरुचरणकटाक्षाः शिशिराः शमयन्ति चित्तसंतापम् ॥
कबलितचञ्चलचेतोगुरुतरमण्डूकजातपरितोषा ।शेते हृदयगुहायां चिरतरमेकैव चिन्मयी भुजगी ॥
मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् ।मायामयेन मरुता भूत्वा भूत्वा मुहुस्तिरोधत्ते ॥ १५० ॥
गुरुकरुणयैव नावा प्राक्तनभाग्यानुकूलमारुतया ।दुःसहदुःखतरङ्गैस्तुङ्गः संसारसागरस्तीर्णः ॥ १५१ ॥
सति तमसि मोहरूपे विश्वमपश्यं तदेतदित्यखिलम् ।उदितवति बोधभानौ किमपि न पश्यामि किं न्विदं चित्रम् ॥
इत्यात्मबोधलाभं मुहुरनुचिन्त्य प्रमोदमानेन ।प्रारब्धकर्मणोऽन्ते परं पदं प्राप्यते हि कैवल्यम् ॥ १५३ ॥
मोहान्धकारहरणं संसारोद्वेलसागरोत्तरणम् ।स्वात्मनिरूपणमेतत्प्रकरणमन्तर्विचिन्त्यतां सद्भिः ॥
श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ स्वात्मनिरूपणं संपूर्णम् ॥

Settings