स्वरूपानुसंधानाष्टकम्

तपोयज्ञदानादिभिः शुद्धबुद्धि-र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या ।परित्यज्य सर्वं यदाप्नोति तत्त्वंपरं ब्रह्म नित्यं तदेवाहमस्मि ॥ १ ॥
दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तंसमाराध्य मत्या विचार्य स्वरूपम् ।यदाप्नोति तत्त्वं निदिध्यास्य विद्वा-न्परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २ ॥
यदानन्दरूपं प्रकाशस्वरूपंनिरस्तप्रपञ्चं परिच्छेदहीनम् ।अहं ब्रह्मवृत्त्यैकगम्यं तुरीयंपरं ब्रह्म नित्यं तदेवाहमस्मि ॥ ३ ॥
यदज्ञानतो भाति विश्वं समस्तंविनष्टं च सद्यो यदात्मप्रबोधे ।मनोवागतीतं विशुद्धं विमुक्तंपरं ब्रह्म नित्यं तदेवाहमस्मि ॥ ४ ।
निषेधे कृते नेति नेतीति वाक्यैःसमाधिस्थितानां यदाभाति पूर्णम् ।अवस्थात्रयातीतमद्वैतमेकंपरं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५ ॥
यदानन्दलेशैः समानन्दि विश्वंयदाभाति सत्त्वे तदाभाति सर्वम् ।यदालोकने रूपमन्यत्समस्तंपरं ब्रह्म नित्यं तदेवाहमस्मि ॥ ६ ।
अनन्तं विभुं निर्विकल्पं निरीहंशिवं संगहीनं यदोंकारगम्यम् ।निराकारमत्युज्ज्वलं मृत्युहीनंपरं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७ ॥
यदानन्दसिन्धौ निमग्नः पुमान्स्या-दविद्याविलासः समस्तप्रपञ्चः ।तदा नः स्फुरत्यद्भुतं यन्निमित्तंपरं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८ ॥
स्वरूपानुसंधानरूपां स्तुतिं यःपठेदादराद्भक्तिभावो मनुष्यः ।शृणोतीह वा नित्यमुद्युक्तचित्तोभवेद्विष्णुरत्रैव वेदप्रमाणात् ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ स्वरूपानुसंधानाष्टकम् संपूर्णम् ॥

Settings