सूर्यशतकम्

( टीका — )

Validation Report

Blocks have unique identifiers
Passed (1/1)
XML is well-formed
Passed (101/101)
Sanskrit text is well-formed
Partial (46/130)
  • Unexpected character ':' in text <अभिनवा नूतना भानवीया भानवः सावित्रा रश्मयो वो युष्मभ्यं विभूत्यै समृद्ध्यै भूयासुर्भवन्तु । किं कुर्वन्तः । सान्द्रश्चासौ सिन्दूररेणुश्च सान्द्रो बहल: सिन्दूररेणुः सि न्दूररजस्तद्दधत इव । किंभूतम् । जम्भस्यारातिर्जम्भारातिः शक्रस्तस्येभो हस्ती ऐरावणस्तस्य कुम्भौ मस्तकौ तयोस्तौ वा उद्भवो यस्येति विग्रहः । एतदुक्तं भवति -ये स्वर्गस्थास्ते उदयरागभृतस्तानवलोक्यैरावणकुम्भस्थं सिन्दूररेणुं दधत इव मन्यन्ते । उदयश्चासौ गिरिश्च तस्य तटी तस्या धातवो गैरिकादयस्तेषां धाराकारो द्रवो धाराद्रवः प्रपातस्तस्येवोघैः प्रवाहैः समूहैरविच्छिन्नैः सिक्ता अत एव रक्ता इव । उदयगि रिस्थानामेवं बुद्धिर्जायते तुल्यकालं समकालमायान्त्या आगच्छन्त्या पद्मखण्डदीप्त्या इवारुणाः । सहैव सवित्रा कमलवनानां रुगागच्छति । एवं दीप्त्या घरास्थानां प्रतीतिर्भवति । किं कुर्वन्तो भानवः । त्रैलोक्यमुद्भासयन्तः । अभिनवत्वं तेषां दिक्करणापेक्षया ॥>
  • Unexpected character ':' in text <भास्करस्य करा वो युष्माकं कल्याणं क्रियासुर्विधेयासुः । ये कमलवनोद्घाटनं कुर्वते पद्मखण्डानामुन्मीलनं विदधते । उत्प्रेक्षते - लक्ष्मीमाक्रष्टुकामा इवापक्रष्टुमनस इव । यतो लक्ष्मीं सदैव कमलवनेषु कृतसंनिधानामाक्रष्टुमिव । किं कर्तुम् । दातुं वितरितुम् । कस्मै । भक्तिप्रदाय । भक्त्या प्रो नम्रो भक्तिप्रहस्तस्मै । कोदृशीं श्रियम् । मुकुलपुटकुटीकोटरक्रोडलीनाम् । मुकुलशब्देन कुमलमुच्यते । तस्य यः पुटः स एव कुटी शालेव मुकुलपुटकुटी तस्याः कोटरमभ्यन्तरं तस्य क्रोडोऽवनम्रप्रदेशस्तत्र लीनां संश्लिष्टम् । कीदृशाः करा: । कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः । कालस्येवाकारो यस्य स कालाकारः स चासावन्धकारश्च तस्याननं मुखं तत्र पतितं यज्जगत्तस्य साध्वसं भयं तस्य ध्वंसो नाशस्तत्र कल्याः पटवः समर्था एव । पुनः किलक्षणाः । किसलयरुचयः किसलयानामिव रुचिर्येषां तेऽभिनवाङ्कुरभासः ॥>
  • Unexpected character 's' in text <ते रश्मयो मरीचयो मङ्गलं कल्याणं वो दिशन्तु ददतु । यान्किरणांस्तिग्मरोचिस्तीक्ष्णदीधितिः सूर्यो वितनुते विस्तारयति । कथं यथा भवति । अतनु विस्तीर्णे यथा भवति । किं कृत्वा । जन्तून्प्राणिनो वीतावृतीन्, आवरणमावृतिः, वीता गता आवृतिर्येषां ते तान्समवलोक्य समुद्वीक्ष्य । प्राक्पूर्वे तमस्यन्धकारे प्रभ्रश्यति पतति सति । कीदृशे। उत्तरीयस्येव त्विड् यस्य तदुत्तरीयत्विट् तस्मिन्नंशुकनिभे तिमिरे । कानिव । तन्तून्यथा । तन्तवः सूत्राणि यथा तान् । यथा कश्चित्तन्तुवायोऽतनुपटान्वितनुते प्राणभृतो विगतवाससो दृष्ट्वा । ते सान्द्रीभूय घनतां प्राप्याम्बरं वासोऽमलं विमलमुत्पादयन्ति एवं मरीचयोsपि सान्द्रीभूय सद्यस्तत्क्षणमम्बरमाकाशं शश्वत्सर्वदा विमलमुत्पादयन्ति । कीदृशम् । क्रमविशददशाशादशालीविशालम् । क्रमेण पर्यायेण विशदा: परिपाट्या स्पष्टा दश च ता आशाश्च दशाशा दश दिश: क्रमविशदाश्च ता दशाशाश्च ता एव दशास्तासामाली पङ्क्तिस्तया विशालं विस्तीर्णम् । तदपि वासो दशालीविशालम् ॥>
  • Unexpected character ':' in text <तीव्रभानोर्गभस्त्युद्गमः किरणोदयो वो युष्माकमनभिमतनुदे अनभिमतमनभीष्टं पापं शत्रुर्वा तस्य नोदनं नुत् तस्यै स्ताद्भवतात् । कीदृश इव । पूर्व प्रथमं पावकेन वह्निना कृताभ्युद्गतिरिव । अभ्युद्गमनमभ्युद्गतिः । विहितस्वागत इव । किंभूतेन पावकेन । भास्वळावोद्गतेन भास्वतो ग्रावाणो भास्वद्रावाणोऽर्कोपिलाः सूर्यकान्ताभिधाना मणिविशेषास्तेभ्य उद्गतो भास्वद्भावोद्गतः । ते हि रविकरस्पृष्टा अग्निमुमन्ति । ओषधिशब्देनौषधिस्थं तेज्ञ उच्यते । तात्स्थ्यात् । यथा गिरिर्दयते पन्थानो मुष्यन्त इति । तत्तिरस्कुर्वन्नभिभवन् । ओषधीनामीश ओषधीशः । तस्मिन्नोषधीनां भर्तरीन्दौ मुषितरुचि मुषिता रुग्यस्य स तस्मिन्मुषितरुचि हतभासि शुचेव शोकेनेव प्रोषिताभा: प्रोषिता आभा यासामोषधीनां तास्तथोक्ताः । भर्तरि हततेजसि पत्न्यः शोकेन गतवृतयो भवन्ति । प्रातरद्वेरुदयाचलनाम्नो दृषदः शिला दर्शयन्प्रकटयन् । कथंभूता इव । पक्षच्छेदत्रणासृक्स्रुत इव । पक्षाणां छेदः पक्षच्छेदस्तेन व्रणास्तेषामग्रुधिरं पक्षच्छेदत्रणासक् तत्स्रवन्तीति ताः । अङ्गरुहक्षतजस्राविणीर्यथा । यतो गभस्त्युद्गम आताम्रो लोहितोऽतस्तदनुरञ्जिताः शिला एवमुत्प्रेक्ष्यन्ते । पूर्व किल पर्वता: पक्षवन्तोऽभूवंस्तेषामिन्द्रस्तांश्चिच्छेद ॥>
  • Unexpected character ':' in text <धर्माशोरादित्यस्य घृणयो मयूखा वो युष्माकमंहोविघातं पापापनोदं विदधतु कुवन्तु । शीघ्रं तत्क्षणम् । किंविशिष्टाः । दत्ताघी दत्तो विश्राणितोऽर्धो येभ्यस्ते । कैः । सिद्धसंघैः सिद्धा अणिमादियुक्तास्तेषां संघा वातास्तैरिति । किंभूतोऽसौ घर्माशुः । यः पुनरपि भूयोऽपि घटयति करोति । कान् । शीर्णघ्राणाङ्गिपाणीन् । घ्राणं नासा । अङ्घ्री पादौ । पाणी हस्तौ । घ्राणं चाङ्गी च पाणी चेति समाहारद्वन्द्वः । शीणी घ्राणाङ्घ्रीपाणयो येषां सामर्थ्यादङ्गिनां ते तथोक्तान् । तथा अपघनैरङ्गेणिभिरुपलक्षितान् । घर्घराव्यक्तघोषान् घर्घरो जर्जरोऽव्यक्तोऽस्फुटो घोषो ध्वनिर्येषाम् । प्राणादिलुप्ततायां कण्ठौष्ठादित्रणितायां च कारणमुपवर्णयन्नाह --अघौघैः पापसमूहैर्घाघ्रातांविरतरग्रस्तान् । किं कुर्वन् । उल्लाघयनिर्व्याधोकुर्वन् । एकोऽसहाय: । रुद्रादयोऽपि सूर्यमूर्तिमारूढा एव नीरोगं कुर्वन्तीति संबन्ध: (भाव:) । किंभूतस्य भानोः । अन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेः। अन्तर्मध्ये चेतसि द्विगुणा घना बहुला घृणा दया । घना चासौ>
  • Unexpected character '—' in text <हारिदश्वाः सूर्यसंबन्धिनोंऽशवो रश्मयो वो युष्माकं कृच्छ्राणि दुःखानि हरन्त्वपन यन्तु । पुनर्विशेष्यन्ते—-उच्छ्रायहेलोपहसितहरयः । उच्छ्राय उच्चैस्त्वं तस्य या हेला लीला तथा उपहसितो विडम्बितस्त्वत्तोऽधिको देशोऽस्मादिति (?) हसितो हरिर्विष्णुस्ते । प्रारब्धविक्रमस्य विष्णोः सदृशा इति तात्पर्यार्थः । किं कुर्वाणाः । बिभ्राणा धारयन्तः । किम् । वामनत्वं खर्वत्वम् । प्रथममादौ । अथानन्तरं प्रांशवो दीर्घास्तथैव यथा भगवान्नारायणः प्रथमं विक्रमकाले वामनत्वं कृत्वा प्रांशुर्घः संजातः । पुनरपि किंभूताः । क्रान्ताकाशान्तरालाः । ऋान्तं व्याप्तमाकाशान्तरालमम्बरमध्यं यैस्ते तथोक्ताः । तदनु अनन्तरं च दश दिशो दशाशा: पूरयन्तः पूर्णा: कुर्वन्तः । ततोऽपि पुनरपि विश्वं जगदश्नुवाना व्याप्नुवन्तः । आशु शीघ्रम् । किं कृत्वा । आच्छिद्याकृष्यापहृत्य । कुतः । ध्वान्तादन्धकारात् । कस्मादिव । देवद्विष इव सुरशत्रोरिव । बलितो बलिनाम्नः, अन्यत्र बलितो बलवतः । पञ्चम्यन्तादुभयस्मात्तस् । विष्णोरेतत्संबन्धनीयम् । सोऽपि वामनो भूत्वा प्रांशुरभूत् । तदनु च क्रान्तगगनान्तरालः । ततः परिपूरितदशदिशो बलेविश्वमाच्छिद्य व्याप्तवानिति ॥>
  • Unexpected character ':' in text <ते मयूखा रश्मयः खरांशोः सवितुः संबन्धिनो वो युष्मभ्यं सुखं शर्म दिशतु ददतु । येऽरुणस्य सारथेररुणत्वं लोहितत्वं बहुलं घनं विदधति कुर्वन्ति । केन । अरुणिन्ना लोहितत्वेन । उद्गाढेन प्रबलेन । रथाश्वाननेषु स्यन्दनतुरगवक्रेषु खलीनक्षतरुधिररुचः क विकाव्रणशोणितच्छायाः । मूर्धोद्धूतौ सत्यां मस्तकोत्कम्पे सति । ये शैलानां पर्वतानां शेखरत्वं मुकुटत्वं तन्वते विस्तारयन्ति । किंभूताः । श्रितशिखरिशिखा: सन्तः समा->
  • Unexpected character '–' in text <दीप्तांशोरादित्यस्य संबन्धिन्यो गावो दीधितयो वो युष्माकं प्रीतिं सुखमुत्पादयन्तु जनयन्तु । किंभूताः । दत्तानन्दाः दत्तो वितीर्ण आनन्दो याभिस्ताः । कासाम् । प्रजानां लोकानाम् । कैः कृत्वा । पयोभिर्जलैः । समुचितसमयाकृष्टसृष्टैः समुचितो योग्यः समयः कालस्तत्राकृष्टसृष्टैः । भूयोऽपि विशेष्यन्ते– -पूर्वाह्ने विप्रकीर्णाः अह्नः पूर्वो भा गस्तत्र विक्षिप्ताः । क्व । दिशि दिशि सर्वासु दिक्षु । विरमत्यन्हि याति दिवसेऽस्तमनसमये संहारभाजः संहृतिमाश्रिताः । पुनरपि किंभूताः । दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावः । दीर्घं च तद्दुःखं च तस्य प्रभव उत्पत्तिस्थानं स चासौ भवश्च संसारस्तस्माद्भयं तदेवोदन्वान्समुद्रस्तस्मादुत्तारस्तत्र नावो यानपात्राणि । पावनानां पावकानां परमुत्कृष्टम् । किंभूतां प्रीतिम् । अपरिमितामपर्यन्ताम् । गाव इति श्लिष्टमेतदभिन्नम् । गावो धेनवश्चोच्यन्ते । ता अपि पयोभिर्दुग्धैः समुचितसमयाकृष्टसृष्टैः प्रजानां दत्तानन्दा भवन्ति । पूर्वाण्हे प्रत्युषसि विप्रकीर्णा भवन्ति । अन्होऽवसाने संहारभाज: । दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावश्च दत्ताः सत्यः सद्यः । तदीयैः पयोभिर्विप्राग्नितर्पणैर्लोकाः संसारं तरन्तीत्यागमविदः ॥>
  • Unexpected character ':' in text <दिनकरकिरणा रविपादा भवतां कल्मषस्य पापस्य केतवो विनाशका: कल्पन्तां संपद्यन्ताम् । निर्विकल्पमसंशयम् । क्रिविशेषणमिदम् । स्वं च चित्तं च स्वचित्तं तस्य प्रथिता पृथुतरा पृथ्वी सा चासौ प्रार्थना च तस्याः कल्पवृक्षाः । ये लोकानां प्रजानां प्रबोधं तत्त्वज्ञानं विदधति कुर्वन्ति । बन्धस्त्रिविधः -- प्राकृतो वैकारिको दक्षिणासा(?) रूपश्चेति । तेन हि बद्धा देहिनो न मुच्यन्ते । तस्य ध्वंसो नाशस्त त्रैक हेतुः>
  • Unexpected character ':' in text <प्रधानं कारणम् । किंभूतानां प्रजानाम् । शिरसि मस्तके नतिर्नमस्कारस्तत्र रसस्तेनाबद्धो विरचितः संध्याञ्जलिर्यैस्ते तथोक्तास्तेषाम् । कयेव । विपुलाम्भोजखण्डाशयेव । विपुलो विस्तीर्णोऽम्भोजखण्ड: कमलाकरः । विपुलश्वासावम्भोजखण्डञ्च तस्याशा तयेव । बन्धध्वंसैकहेतुतापि मुकुलावस्थाविघातैककारणता । प्रबोधो ज्ञानं विकासश्च ॥>
  • Unexpected character ':' in text <भानो: संबन्धीनि दीधितीनां दश शतानि सहस्रमिति यावत् । युष्माकं शिवं भद्रं दधतु पुष्णन्तु कुर्वन्तु वा । अनेकार्थत्वाद्धातूनामिति । किंभूतानीत्याह—-यानि एकं ज्योतिरेकं तेजः प्रधानमालोककारणम् । पुनरपि कीदृशानि, दृशौ द्वे चक्षुषी द्वे । त्रिजगति त्रैलोक्ये गदितानि कथितानि । कैः, अब्जजास्यैः कमलयोनिवदनैः । कियद्भिः, चतुर्भिश्चतुःसंख्योपेतैः । भूतानां पृथिव्यादीनां पञ्चमम् । पञ्चानां भूतानां तेजसि सति पञ्च संख्या संपद्यते । तथा ऋतुषु वसन्तादिषु षट्स्वलमत्यर्थं नानाविधान्युच्चावचप्रकाराणि । तीव्रमन्दादिभेदेन भिद्यमानत्वात् । पुनरपि किंभूतानि । सप्तत्रिदशमुनिनुतानि त्रिदशमुनयो देवर्षयोऽत्रिप्रभृतयः सप्त च ते त्रिदशमुनयश्च तैर्नुतानि । भूयोऽपि किंभूतानि । अष्टदिग्भाञ्जि अष्टाशाश्रितानि । पूर्वाह्णे दिनमुखे नवत्वं प्रत्यग्रत्वं यान्ति भजन्ते । पूर्वं ज्योतिस्त्वेनैकत्वम् । पुनर्हक्त्वेन द्वित्वम् । भुवनत्वेन त्रित्वम् । चतुर्षु ब्रह्मवत्रेषु चतुःसंख्यात्वम् । पृथिव्यादिरूपतया पञ्चधा । वसन्तादिसंख्यायाः षट्त्वम् । अत्रिप्रभृतिभिः सप्तत्वम् । तीव्रमन्दादिभेदेन नानात्वम् । अष्टदिग्भाक्त्वेनाष्टत्वम् । आश्रयभेदाद्भेदः । पूर्वाह्णे नवत्वमिति शब्दसाम्यान्नवत्वं नवसंख्यायोगिता प्रदर्शितेति ॥>
Validate verse number if it exists
Passed (0/0)