श्रीविष्णुभुजंगप्रयातस्तोत्रम्

चिदंशं विभुं निर्मलं निर्विकल्पंनिरीहं निराकारमोंकारगम्यम् ।गुणातीतमव्यक्तमेकं तुरीयंपरं ब्रह्म यं वेद तस्मै नमस्ते ॥ १ ॥
विशुद्धं शिवं शान्तमाद्यन्तशून्यंजगज्जीवनं ज्योतिरानन्दरूपम् ।अदिग्देशकालव्यवच्छेदनीयंत्रयी वक्ति यं वेद तस्मै नमस्ते॥ २ ॥
महायोगपीठे परिभ्राजमानेधरण्यादितत्त्वात्मके शक्तियुक्ते ।गुणास्करे वह्निबिम्बार्धमध्येसमासीनमोंकर्णिकेऽष्टाक्षराब्जे ॥ ३ ॥
समानोदितानेकसूर्येन्दुकोटि-प्रभापूरतुल्यद्युतिं दुर्निरीक्षम् ।न शीतं न चोष्णं सुवर्णावदात-प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥ ४ ॥
सुनासापुटं सुन्दरभ्रूललाटंकिरीटोचिताकुञ्चितस्निग्धकेशम् ।स्फुरत्पुण्डरीकाभिरामायताक्षंसमुत्फुल्लरत्नप्रसूनावतंसम् ॥ ५ ॥
लसत्कुण्डलामृष्टगण्डस्थलान्तंजपारागचोराधरं चारुहासम् ।अलिव्याकुलामोदिमन्दारमालंमहोरस्फुरत्कौस्तुभोदारहारम् ॥ ६ ॥
सुरत्नाङ्गदैरन्वितं बाहुदण्डै-श्चतुर्भिश्चलत्कङ्कणालंकृताग्रैः ।उदारोदरालंकृतं पीतवस्त्रंपदद्वन्द्वनिर्धूतपद्माभिरामम् ॥ ७ ॥
स्वभक्तेषु संदर्शिताकारमेवंसदा भावयन्संनिरुद्धेन्द्रियाश्वः ।दुरापं नरो याति संसारपारंपरस्मै परेभ्योऽपि तस्मै नमस्ते ॥ ८ ॥
श्रिया शातकुम्भद्युतिस्निग्धकान्त्याधरण्या च दूर्वादलश्यामलाङ्ग्या ।कलत्रद्वयेनामुना तोषितायत्रिलोकीगृहस्थाय विष्णो नमस्ते ॥ ९ ॥
शरीरं कलत्रं सुतं बन्धुवर्गंवयस्यं धनं सद्म भृत्यं भुवं च ।समस्तं परित्यज्य हा कष्टमेकोगमिष्यामि दुःखेन दूरं किलाहम् ॥ १० ॥
जरेयं पिशाचीव हा जीवतो मेवसामत्ति रक्तं च मांसं बलं च ।अहो देव सीदामि दीनानुकम्पि-न्किमद्यापि इन्त त्वयोदासितव्यम् ॥ ११ ॥
कफव्याहतोष्णोल्बणश्वासवेग-व्यथाविष्फुरत्सर्वमर्मास्थिबन्धाम् ।विचिन्त्याहमन्त्यामसंख्यामवस्थांबिभेमि प्रभो किं करोमि प्रसीद ॥ १२ ॥
लपन्नच्युतानन्त गोविन्द विष्णोमुरारे हरे नाथ नारायणेति ।यथानुस्मरिष्यामि भक्त्या भवन्तंतथा मे दयाशील देव प्रसीद ॥ १३ ॥
भुजंगप्रयातं पठेद्यस्तु भक्त्यासमाधाय चित्ते भवन्तं मुरारे ।स मोहं विहायाशु युष्मत्प्रसादा-त्समाश्रित्य योगं व्रजत्यच्युतं त्वाम् ॥ १४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीविष्णुभुजंगप्रयातस्तोत्रं संपूर्णम् ॥

Settings