श्रीवीरभद्राष्टकम्

Click Settings to choose another script or language.
दक्षाध्वरध्वंसविधानदक्षंदम्भोलितुल्यायतबाहुबृन्दम् ।फालोज्ज्वलन्नेत्रहुताशनेनभस्मीकृतारिं भज वीरभद्रम् ॥ १ ॥
कङ्कालदण्डं कठिनोग्रदंष्ट्रंकपालमालं[ला]कमनीयहारम् ।कन्दर्पदर्पापहसर्पहारंभस्माङ्गलेपं भज वीरभद्रम् ॥ २ ॥
भूतेशमीशं भुजगाभिरामंभस्मीकृताशेषपुरप्रतापम् ।उन्निद्रपद्मायतनेत्रपद्मंश्रीवीरभद्रं भज वीरभद्रम् ॥ ३ ॥
कालाञ्जनश्यामलकोमलाङ्गंकण्ठान्तरस्थापितकालकूटम् ।भागीरथीचुम्बितमौलिभागंफालाग्निनेत्रं भज वीरभद्रम् ॥ ४ ॥
निशाटकोटीपटुसेव्यमानंनीलाञ्जनाभं निहतारिलोकम् ।पाटीरवाटं वटमूलवासंभद्राक्षमालं भज वीरभद्रम् ॥ ५ ॥
जगत्प्रवीरं जगतामधीशंबालेन्दुजूटं फणिराजभूषम् ।सहस्रबाहुं सनकादिवन्द्यंचक्राभिरामं भज वीरभद्रम् ॥ ६ ॥
मञ्जीरपुञ्जारवमञ्जुपादंकुञ्जामराम्भोजमणीन्द्रहारम् ।(?)कञ्जातसञ्जातविराजमानंविकासिनेत्रं भज वीरभद्रम्(?)॥ ७ ॥
कालस्य कालं कनकाद्रिचापंवीरेश्वरं निर्विषयान्तरङ्गम् ।निरीहमेकं निगमान्तमृग्यंनिर्वाणहेतुं भज वीरभद्रम् ॥ ८ ॥
भद्राष्टकं[पापहरं]पठेद्यःप्रभातकाले पितृसूतिकाले ।सुखी भवेत्सम्पदवान् सुभोगीसुरूपवान् सुस्थिरषुद्धितस्य ।[ बुद्धियुक्तः ](?)॥ ९ ॥
॥ इति श्रीवीरभद्राष्टकं सम्पूर्णम् ॥