श्रीवालिशैलाधिनाथत्रयम्

Click Settings to choose another script or language.
अजं वेदसारं भुजङ्गेन्द्रहारंनिजाराधनोद्यत्प्रजाहृद्विहारम् ।गजेशार्चितं शैलजाचित्तचोरंभजे शङ्करं वालिशैलाधिनाथम् ॥ १ ॥
जटामण्डले नानटद्दिव्यगङ्गा-झरीतुङ्गवीचिच्छटादीप्यमानम् ।पटीभूतकृत्तिंनटालीवरेण्यंभजे शङ्करं वालिशैलाधिनाथम् ॥ २ ॥
दलत्कुन्दमन्दारकर्पूरगौरंगलद्भस्मरेखाविजृम्भल्ललाटम् ।बलारिस्तुतं बालवालेन्दुमौलिंभजे शङ्करं वालिशैलाथिनाथम् ॥ ३ ॥
॥ इति श्रीवालिशैलाधिनाथत्रयं सम्पूर्णम् ॥