श्रीसुब्रह्मण्यभुजङ्गस्तोत्रम्

Click Settings to choose another script or language.
भजेऽहं कुमारं भवानीकुमारंगलोल्लासिहारं नमद्दृग्विहारम् ।रिपुस्तोमहारं नृसिंहावतारंसदा निर्विकारं गुहं निर्विचारम् ॥ १ ॥
नमामीशपुत्रं जपाशोणगात्रंसुरारातिशत्रुं रवीन्द्वग्निनेत्रम् ।महाबर्हिपत्रं निवा[जा]स्याब्जमित्रंप्रभास्वत्कलत्रं पुराणं पवित्रम् ॥ २ ॥
अनेकार्ककोटिप्रकाशं ज्वलन्तंमनोहारिमाणिक्यभूषोज्ज्वलं तम् ।श्रितानामभीष्टं दिशन्तं नितान्तंभजे षण्मुखं तं शरच्चन्द्रकान्तम् ॥ ३ ॥
कृपावारिकल्लोलभास्वत्कटाक्षंविराजन्मनोहारिशोणाम्बुजाक्षम् ।प्रयोगप्रवाहप्रदानैकदक्षंभजे कान्तिकान्तं परस्तोम[रू]क्षम् ॥ ४ ॥
सुकस्तूरिकासिन्धु[बिन्दु]भास्वल्ललाटंदयापूर्णचित्तं महादेवपुत्रम् ।रवीन्दूल्लसद्रत्नराजत्किरीटंभजे क्रीडिताकाशगङ्गामकूटम् ॥ ५ ॥
सुकुन्दप्रसूनावलीशोभितान्तंशरत्पूर्णचन्द्रास्यषट्कान्तिकान्तम् ।शिरीषप्रसूनाभिरामं भवन्तंभजे देवसेनावलीवल्लभं तम् ॥ ६
सुलावण्यतः सूर्यकोटीरनीशं[निकाशं]प्रभुं तारकारिं द्विषड्बाहुमीशम् ।निजार्कप्रभादीप्यमानापदानंभजे पार्वतीप्राणपुत्रं सुरेशम् ॥ ७ ॥
अजं सर्वलोकप्रियं लोकनाथंगुहं शूरपद्मादिदम्भोलिदारम् ।सुचारुं सुनासापुटं सच्चरित्रंभजे कार्तिकेयं सदा बाहुलेयम् ॥ ८ ॥
शरारण्यसम्भूतमिन्द्रादिवन्द्यंद्विषड्बाहुसंख्यायुधश्रेणिरम्यम् ।मरुत्सारथिं कुक्कुटेशं सु[शाङ्क]केतुंभजे योगिहृत्पद्ममध्याधिवासम् ॥ ९ ॥
विरिञ्चीन्द्रवल्ली[लक्ष्मी]शदेवेशमुख्य-प्रशस्तामरस्तोमसंस्तूयमानम् ।दिश त्वं दयालो श्रियं निश्चलां मेविना त्वां गतिः का प्रभो मे प्रसीद ॥ १० ॥
पदाम्भोजसेवासमायातबृन्दा-रकश्रेणिकोटीरभास्वत्पदाब्जम् ।कलत्रोल्लसत्पार्श्वयुग्मं वरेण्यंभजे देवमाद्यन्तहीनप्रभावम् ॥ ११ ॥
भवाम्भोधिमध्ये तरङ्गोपतप्तंप्रभो मां दयापूर्णदृष्ट्या समीक्ष्य ।भवद्भक्तिनवोद्धर त्वं दयालोसुगत्यन्तरं नास्ति देव प्रसीद ॥ १२ ॥
गले रत्नभूषं तनौ मञ्जुवेषंकरे ज्ञानशक्तिं दरस्मेरमास्ये ।कटिन्यस्तपाणिं शिखिस्थं कुमारंभजेऽहं गुहादन्यदैवं न मन्ये ॥ ॥ १३ ॥
दयाहीनचित्तं परद्रोहवृत्तिंसदा पापशीलं गुरौ भक्तिहीनम् ।अनन्यावलम्बाद्भवन्नेत्रकारु-ण्यसारेण मां भो पवित्रीकुरु त्वम् ॥ १४ ॥
महासेन गाङ्गेय वल्लीसहायप्रभो तारकारे षडास्यामरेश ।सदा पायसान्नप्रदातर्गुहेतिस्मरिष्यामि भक्त्या सदाहं विभो त्वाम् ॥ १५ ॥
प्रतापस्य[पाढ्य]बाहो नमद्वीरबाहोप्रभो कार्तिकेयेष्टकामप्रदेति ।यदा ये पठन्तो भवन्तं तदा त्वंप्रसन्नस्तु तेषां बहुश्रीं ददासि ॥ १६ ॥
अपारेऽतिदारिद्र्यवाराशिमध्येभ्रमन्तं जनुर्ग्राहपूर्णे नितान्तम् ।महासेन मामुद्धर त्वं दयालोकटाक्षावलोकेन किञ्चित्प्रसीद ॥ १७ ॥
स्थिरां देहि भक्तिं भवत्पादपद्मेश्रियं निश्चलां देहि मह्यं कुमार ।गुहाचन्द्रतारं सवंशाभिवृद्धिंकुरु त्वं प्रभो मां मनःकल्पसाल ॥ १८ ॥
नमस्ते नमस्ते महाशक्तिपाणेनमस्ते नमस्ते लसद्वज्रपाणे ।नमस्ते नमस्ते कटिन्यस्तपाणेनमस्ते नमस्ते वराभीष्टपाणे ॥ १९ ॥
नमस्ते नमस्ते महाशक्तिपाणेनमस्ते सुराणां महासौख्यदायिन् ।नमस्ते सदा कुक्कुटेशध्वज त्वंसमस्तापराधं विभो मे क्षमस्व ॥ २० ॥
कुमारात्परं कर्मयोगं न जानेकुमारात्परं कर्मशीलं न जाने ।यथैको मुनीनां हृदब्जाधिवासःशिवाङ्कं समारुह्य सत्पीठकल्पम् ॥ २१ ॥
विरिञ्चाय मन्त्रोपदेशं चकारप्रमोदेन सोऽयं तनोतु श्रियं मे ।यमाहुः परंवेद[देव]शूरेषु मुख्यंसदा यस्य शक्त्या जगद्भीतभीतम् ॥ २२ ॥
यमाराध्य देवाः स्थितिं स्वर्ग आपु-रसदोंकाररूपं चिदानन्दमीडे ।गुह[तव ]स्तोत्रमेतत् कृतं तारकारेभुजङ्गप्रयातेन पद्येन कान्तम् ॥ २३ ॥
जना ये पठन्तीह भक्तिप्रयुक्ताःप्रमोदेन सायं प्रभाते विशेषात् ।स्वजन्मर्क्षयोगे यदातेऽप्युदन्ता[ते वदन्तो]मनोवाञ्छितं सर्वकामांल्लभन्ते ॥ २४ ॥
॥ इति श्रीसुब्रह्मण्यभुजङ्गस्तोत्रं सम्पूर्णम् ॥
यज्ञोपवीतीकृतभोगिराजोगणाधिराजो गजराजवक्त्रः ।सुराधिराजार्चितपादपद्मःसदा कुमाराय शुभं करोतु ॥ १ ॥
विधातृपद्माक्षमहोक्षवाहाःसरस्वतीश्रीगिरिजासमेताः ।आयुः श्रियं भूमिमनन्तरूपंभद्रं कुमाराय शुभं दिशन्तु ॥ २ ॥
मासाश्च पक्षाच[दिनानि ताराः]राशिश्च योगाः करणानि सम्यक् ।ग्रहाश्च सर्वेऽदितिजास्समस्थाःश्रियं कुमाराय शुभं दिशन्तु ॥ ३ ॥
ऋतुर्वसन्तः सुरभिः सुधा चवायुस्तथा दक्षिणनामधेयः ।पुष्पाणि शश्वत्सुरभीणि कामःश्रियं कुमाराय शुभं करोतु ॥ ४ ॥
भानुस्त्रिलोकीतिलकोऽमलात्माकस्तूरिकालङ्कृतवामभागः ।पम्पासरश्चैव स सागरश्चश्रियं कुमाराय शुभं करोतु ॥ ५ ॥
भास्वत्सुधारोचिकिरीटभूषाकीर्त्या समं शुभ्र सुगात्रशोभा ।सरस्वती सर्वजनाभिवन्द्याश्रियं कुमाराय शुभं करोतु ॥ ६ ॥
आनन्दयन्निन्दुकलावतंसोमुखोत्पलं पर्वतराजपुत्र्याः ।स्पृशन् सलीलं कुचकुम्भयुग्मंश्रियं कुमाराय शुभं करोतु ॥ ७ ॥
वृषस्थितः शूलधरः पिनाकीगिरीन्द्रजालङ्कृतवामभागः ।समस्तकल्याणकरः श्रितानांश्रियं कुमाराय शुभं करोतु ॥ ८ ॥
लोकानशेषानवगाहमानाप्राज्यैः पयोभिः परिवर्धमाना ।भागीरथी भासुरवीचिमालाश्रियं कुमाराय शुभं करोतु ॥ ९ ॥
श्रद्धां च मेधां च यशश्च विद्यांप्रज्ञां च बुद्धिं बलसम्पदौ च ।आयुष्यमारोग्यमतीव तेजःसदा कुमाराय शुभं करोतु ॥ १० ॥
॥ इति श्रीकुमारमङ्गलस्तोत्रं सम्पूर्णम् ॥
यः पूर्वं शिवशक्तिनामकगिरिद्वन्द्वे हिडिम्बासुरे-णानीतेफलिनीस्थलान्तरगते कौमारवेषोज्ज्वलः ।आविर्भूय घटोद्भवाय मुनये भूयो वरान् प्रादिशत्श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ १ ॥