श्रीशिवमङ्गलस्तोत्रम्

Click Settings to choose another script or language.
मङ्गलं भगवान् शम्भुर्मङ्गलं पुरशासनः ।मङ्गलं सोमसूर्याग्निलोचनो मम मङ्गलम् ॥ १ ॥
यन्मङ्गलं कुमारस्य गिरिजाकल्पयत् पुरा ।तारकं जेतुकामस्य तन्मे भवतु मङ्गलम् ॥ २ ॥
मङ्गलं पार्वतीनाथो मङ्गलं जाह्नवीधरः ।मङ्गलं गिरिजा देवी मङ्गलं सर्वमङ्गलम्[ला]॥ ३ ॥
गिरीन्द्रस्य च मेनायास्त्रैलोक्यस्य तपःफले ।पार्वत्या जन्मदिवसे तन्मे भवतु मङ्गलम् ॥ ४ ॥
त्रिपुरं हन्तुकामस्य दिधक्षोरन्धकासुरम् ।भवान्या यत्कृतं भर्तुस्तन्मे भवतु मङ्गलम् ॥ ५ ॥
ईश्वराज्ञानुयातस्य वीरभद्रस्य शूलिना ।यत्कृतं मङ्गलं कार्यं तन्मे भवतु मङ्गलम् ॥ ६ ॥
हारभूषणकेयूरलीलाभुजगभूषयोः ।शिवयोः सदृशोद्वाहे तन्मे भवतु मङ्गलम् ॥ ७ ॥
यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।तयोः संसरणात् पुंसां सर्वतो जयमङ्गलम् ॥ ८ ॥
॥ इति श्रीशिवमङ्गलस्तोत्रं सम्पूर्णम् ॥