श्रीमृत्युंजयमानसिकपूजास्तोत्रम्

कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितंकर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरंकण्ठालंकृतशेषभूषणममुं मृत्युंजयं भावये ॥ १ ॥
आगत्य मृत्युंजय चन्द्रमौलेव्याघ्राजिनालंकृत शूलपाणे ।स्वभक्तसंरक्षणकामधेनोप्रसीद विश्वेश्वर पार्वतीश ॥ २ ॥
भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालंकृतेसौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते ।ब्रह्मेन्द्रामरयोगिपुंगवगणैर्युक्ते च कल्पद्रुमैःश्रीमृत्युंजय सुस्थिरो भव विभो माणिक्यसिंहासने ॥
मन्दारमल्लीकरवीरमाधवी-पुंनागनीलोत्पलचम्पकान्वितैः ।कर्पूरपाटीरसुवासितैर्जलै-राधत्स्व मृत्युंजय पाद्यमुत्तमम् ॥ ४ ॥
सुगन्धपुष्पप्रकरैः सुवासितै-र्वियन्नदीशीतलवारिभिः शुभैः ।त्रिलोकनाथार्तिहार्घ्यमादरा-द्गृहाण मृत्युंजय सर्ववन्दित ॥ ५ ॥
हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः ।मृत्युंजय महादेव शुद्धाचमनमाचर ॥ ६ ॥
गुडदधिसहितं मधुप्रकीर्णंसुघृतसमन्वितधेनुदुग्धयुक्तम् ।शुभकर मधुपर्कमाहर त्वंत्रिनयन मृत्युहर त्रिलोकवन्द्य ॥ ७ ॥
पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर ।पञ्चामृतस्नानमिदं कुरु मृत्युंजय प्रभो ॥ ८ ॥
जगत्त्रयीख्यात समस्ततीर्थ-समाहृतैः कल्मषहारिभिश्च ।स्नानं सुतोयैः समुदाचर त्वंमृत्युंजयानन्तगुणाभिराम ॥ ९ ॥
आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् ।मार्जयामि जटाभारं शिव मृत्युंजय प्रभो ॥ १० ॥
नानाहेमविचित्राणि चीरचीनाम्बराणि च ।विविधानि च दिव्यानि मृत्युंजय सुधारय ॥ ११ ॥
विशुद्धमुक्ताफलजालरम्यंमनोहरं काञ्चनहेमसूत्रम् ।यज्ञोपवीतं परमं पवित्र-माधत्स्व मृत्युंजय भक्तिगम्य ॥ १२ ॥
श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितंकालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम् ।दिव्यं देवमनोहरं मणिमये पात्रे समारोपितंसर्वाङ्गेषु विलेपयामि सततं मृत्युंजय श्रीविभो ॥
अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।मृत्युंजय महादेव पूजयामि वृषध्वज ॥ १४ ॥
चम्पकपङ्कजकुरवक-कुन्दैः करवीरमल्लिकाकुसुमैः ।विस्तारय निजमकुटंमृत्युंजय पुण्डरीकनयनाप्त ॥ १५ ॥
माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।पादौ सत्पद्मसदृशौ मृत्युंजय निवेशय ॥ १६ ॥
माणिक्यकेयूरकिरीटहारैःकाञ्चीमणिस्थापितकुण्डलैश्च ।मञ्जीरमुख्याभरणैर्मनोज्ञै-रङ्गानि मृत्युंजय भूषयामि ॥ १७ ॥
गजवदनस्कन्दधृते-नातिस्वच्छेन चामरयुगेन ।गलदलकाननपद्मंमृत्युंजय भावयामि हृत्पद्मे ॥ १८ ॥
मुक्तातपत्रं शशिकोटिशुभ्रंशुभप्रदं काञ्चनदण्डयुक्तम् ।माणिक्यसंस्थापितहेमकुम्भंसुरेश मृत्युंजय तेऽर्पयामि ॥ १९ ॥
मणिमुकुरे निष्पटलेत्रिजगद्गाढान्धकारसप्ताश्वे ।कंदर्पकोटिसदृशंमृत्युंजय पश्य वदनमात्मीयम् ॥ २० ॥
कर्पूरचूर्णं कपिलाज्यपूतंदास्यामि कालेयसमन्वितैश्च ।समुद्भवं पावनगन्धधूपितंमृत्युंजयाङ्गं परिकल्पयामि ॥ २१ ॥
वर्तित्रयोपेतमखण्डदीप्त्यातमोहरं बाह्यमथान्तरं च ।११०श्रीमृत्युंजयमान सिकपूजास्तोत्रम् ।साज्यं समस्तामरवर्गहृद्यंसुरेश मृत्युंजय वंशदीपम् ॥ २२ ॥
राजानं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितंहिगूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः ।शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतंश्रीमृत्युंजय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥
कुश्माण्डवार्ताकपटोलिकानांफलानि रम्याणि च कारवल्ल्या ।सुपाकयुक्तानि ससौरभाणिश्रीकण्ठ मृत्युंजय भक्षयेश ॥ २४ ॥
शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो ॥ २५ ॥
शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् ।कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥ २६ ॥
केवलमतिमाधुर्यंदुग्धैः स्निग्धैश्च शर्करामिलितैः ।एलामरीचिमिलितंमृत्युंजय देव भुङ्क्ष्व परमान्नम् ॥ २७ ॥
रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसस्वादुम-त्खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभोश्रीमृत्युंजय पूरय त्रिभुवनाधारं विशालोदरम् ॥
मनोज्ञरम्भावनखण्डखण्डिता-न्रुचिप्रदान्सर्षपजीरकांश्च ।ससौरभान्सैन्धवसेवितांश्चगृहाण मृत्युंजय लोकवन्द्य ॥ २९ ॥
हिङ्गूजीरकसहितंविमलामलकं कपित्थमतिमधुरम् ।बिसखण्डाल्ँलवणयुता-न्मृत्युंजय तेऽर्पयामि जगदीश ॥ ३० ॥
एलाशुण्ठीसहीतंदध्यन्नं चारुहेमपात्रस्थम् ।अमृतप्रतिनिधिमाढ्यंमृत्युंजय भुज्यतां त्रिलोकेश ॥ ३१ ॥
जम्बीरनीराञ्चितशृङ्गबेरंमनोहरानम्लशलादुखण्डान् ।मृदूपदंशान्सहसोपभुङ्क्ष्वमृत्युंजय श्रीकरुणासमुद्र ॥ ३२ ॥
नागररामठयुक्तंसुललितजम्बीरनीरसंपूर्णम् ।मथितं सैन्धवसहितंपिब हर मृत्युंजय ऋतुध्वंसिन् ॥ ३३ ॥
मन्दारहेमाम्बुजगन्धयुक्तै-र्मन्दाकिनीनिर्मलपुण्यतोयैः ।गृहाण मृत्युंजय पूर्णकामश्रीमत्परापोशनमभ्रकेश ॥ ३४ ॥
गगनधुनीविमलजलै-र्मृत्युंजय पद्मरागपात्रगतैः ।मृगमदचन्दनपूर्णंप्रक्षालय चारु हस्तपदयुग्मम् ॥ ३५ ॥
पुंनागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः ।मृत्युंजय महादेव पुनराचमनं कुरु ॥ ३६ ॥
मौक्तिकचूर्णसमेतै-र्मृगमदवनसारवासितैः पूगैः ।पर्णैः स्वर्णसमानै-र्मृत्युंजय तेऽर्पयामि ताम्बूलम् ॥ ३७ ॥
नीराजनं निर्मलदीप्तिमद्भि-र्दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च ।घण्टानिनादेन समर्पयामिमृत्युंजयाय त्रिपुरान्तकाय ॥ ३८ ॥
विरिञ्चिमुख्यामरबृन्दवन्दितेसरोजमत्स्याङ्कितचक्रचिह्निते ।ददामि मृत्युंजय पादपङ्कजेफणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥ ३९ ॥
पुंनागनीलोत्पलकुन्दजाजी-मन्दारमल्लीकरवीरपङ्कजैः ।पुष्पाञ्जलिं बिल्वदलैस्तुलस्यामृत्युंजयाङ्घ्रौ विनिवेशयामि ॥ ४० ॥
पदे पदे सर्वतमोनिकृन्तनंपदे पदे सर्वशुभप्रदायकम् ।प्रदक्षिणं भक्तियुतेन चेतसाकरोमि मृत्युंजय रक्ष रक्ष माम् ॥ ४१ ॥
नमो गौरीशाय स्फटिकधवलाङ्गाय च नमोनमो लोकेशाय स्तुतविबुधलोकाय च नमः ।नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमोनमः फालाक्षाय स्मरमदविनाशाय च नमः ॥ ४२ ॥
संसारे जनितापरोगसहिते तापत्रयाक्रन्दितेनित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभोश्रीमृत्युंजय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरेकौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः ।कर्पूराश्चितदीपदीप्तिमिलिते रम्योपधानद्वयेपार्वत्याः करपद्मलालितपदं मृत्युंजयं भावये ॥ ४४ ॥
चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै-र्मनः पद्मे भक्त्या बहिरपि च पूजां शुभकरीम् ।करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-न्प्रयाति श्रीमृत्युंजयपदमनेकाद्भुतपदम् ॥ ४५ ॥
प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्गदंमध्याह्ने हयमेधतुल्यफलदं सायंतने मोक्षदम् ।भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनंतत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥ ४६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमृत्युंजयमानसिकपूजास्तोत्रं संपूर्णम् ॥

Settings