अष्टावष्टसहस्रे द्वे स्त्रियो जायन्ते पुरुषोत्तमात् । स्मृतिर्जायते पुरुषोत्तमात् । षट्च्छास्त्राणि जायन्ते पुरुषोत्तमात् । छन्दो जायते पुरुषोत्तमात् । निगमो जायते पुरुषोत्तमात् । प्रजापतिर्जायते पुरुषोत्तमात् । शशिरवी जायेते पुरुषोत्तमात् । सकलतीर्थानि जायन्ते पुरुषोत्तमात् । परशिवशक्तिर्जायते पुरुषोत्तमात् । ऋषयोऽनृषयो जायन्ते पुरुषोत्तमात् । इन्द्रो जायते पुरुषोत्तमात् । द्वादशादित्या रुद्राः सर्वा देवता जायन्ते पुरुषोत्तमात् । देवा जायन्ते पुरुषोत्तमात् । सप्त सागरा जायन्ते पुरुषोत्तमात् । सर्व आत्मा जायते पुरुषोत्तमात् । मनः सर्वेन्द्रियाणि जायन्ते पुरुषो त्तमात् । अष्टादश ब्रह्माण्डानि जायन्ते पुरुषोत्तमात् । अष्टसिद्धिनवनिधयो जायन्ते पुरुषोत्तमात् । वनभारा अष्टादश जायन्ते पुरुषोत्तमात् । अमृतो जायते पुरुषोत्तमात् । अम्भो जायते पुरुषोत्तमात् ॥