श्रीकालहस्तीश्वराष्टकम् (२)

Click Settings to choose another script or language.
गङ्गाधराय गरुडध्वजसंनुतायमाङ्गल्यदाय महितोरगभूषणाय ।सङ्गीतलोलहृदयाय सदाशिवायश्रीकालहस्तिनिलयाय नमः शिवाय ॥ १ ॥
कन्दर्पदर्पदहनाय कृपाकरायमन्दारसुन्दरसुरद्रुवरप्रदाय ।मन्दारजप्रसवमञ्जुलमस्तकायश्रीकालहस्तिनिलयाय नमः शिवाय ॥ २ ॥
डिण्डीरडुण्डुभरपाण्डुरविग्रहायचण्डासुरप्रहरणाय विशारदाय ।कुण्डल्यधीशसमुदार्चित[समुदञ्चित]कुण्डलायश्रीकालहस्तिनिलयाय नमः शिवाय ॥ ३॥
हालाहलग्रहणलालसमानसायनीलाम्बुजाय निज[जातनिभ]संनुतकन्धराय ।एलाधिपत्रिपुरराक्षससंहरायश्रीकालहस्तिनिलयाय नमः शिवाय ॥ ४ ॥
लक्ष्मीभवाय[तनूभव]हराय[शिवा]युतायदक्षाध्वराय विकलोत्कटवैभवाय ।वक्षोविलम्बिसुमनोहरमौक्तिकायश्रीकालहस्तिनिलयाय नमः शिवाय ॥ ५ ॥
चर्माम्बराय शरणागतरक्षणायधर्मासनाय धरणीपरिपूजिताय ।धर्माङ्गकोटिसदृशाय(?)कलाधरायश्रीकालहस्तिनिलयाय नमः शिवाय ॥ ६ ॥
शूलायुधाय सुरसंनुतविक्रमायकालान्तकाय कमलासनवन्दिताय ।भालाम्बकाय भवदुःखविनाशना[का]श्रीकालहस्तिनिलयाय नमः शिवाय ॥ ७ ॥
रामार्चिताय रजनीकरभूषणायसंभृत्यनाथकुलसंनुतकङ्कणाय ।(?)गौरीपयोधरयुगग्रहकार्मुकाय[कामुकाय]श्रीकालहस्तिनिलयाय नमः शिवाय ॥ ८ ॥
कालहस्त्यष्टकं पुण्यं यः पठेच्छिवसन्निधौ ।शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ९ ॥
॥ इति श्रीकालहस्तीश्वराष्टकं सम्पूर्णम् ॥