श्रीकालहस्तीश्वराष्टकम्

Click Settings to choose another script or language.
श्रीलसद्विलासलोलशेषतल्पसायकंशैलकन्यकास्यचन्द्रचन्द्रिकाचकोरकम् ।फालनेत्रवह्निदग्धपञ्चवाणरूपकंकालहस्तिनायकं सुखप्रदायकं भजे ॥ १ ॥
कालकूटभीकराग्निकण्ठमध्यधारणंकालकर्मखाम्बुकाशखण्डनोग्रहारिणम् ।(?)कालमृत्युगर्ववल्लिकासमूलदारणंकालहस्तनायकं सुखप्रदायकं भजे ॥ २ ॥
स्थूलसूक्ष्मनित्यसत्यशोभितं शुभोदितंबालचन्द्रशेखरं कृपासुधारसाकरम् ।लालितव्रतार्थिलोकबालकर्णमूलकं(?)कालहस्तिनायकं सुखप्रदायकं भजे ॥ ३ ॥
बालिकावियोगियोगिभावपद्मवासितंधालधल्यकोटिशीतधामसुप्रकाशितम् ।कीलसंनिभाग्रशातशूलवृद्धगाशितं(?)कालहस्तिनायकं सुखप्रदायकं भजे ॥ ४ ॥
भ्रूलतानिरीक्षणप्रभूतलोकजालकंलोलताद्रिजालसत्कपोल[कन्धरं शिवम्]खेलसत्प्रकल्पितेन्द्रजालतन्त्रकीलकंकालहस्तिनायकं सुखप्रदायकं भजे ॥ ५ ॥
व्यालमक्षिकाग्ररत्नमातृकाविभूषणंकालसिन्धुकासुरारिपङ्क[रूप]भूषणम् ।शीलवर्तनप्रयुक्तशिष्टभक्तपोषणंकालहस्तिनायकं सुखप्रदायकं भजे ॥ ६ ॥
नीलदेहसेवितामरालदेहयापितंमूलमन्त्रकर्णमूर्तिमोचनं त्रिलोचनम् ।शूलिनं सुवर्णसिन्धुमौलिनं कपालिनंकालहस्तिनायकं सुखप्रदायकं भजे ॥ ७ ॥
क्षालितप्रभक्तकर्मजातरोगकर्दमंक्षालिकासनाथमिन्द्रशैलराजकर्दमम् ।ज्वालितात्मरोषभीषकेलिदक्षनिर्दमंकालहस्तिनायकं सुखप्रदायकं भजे ॥ ८ ॥
॥ इति श्रीकालहस्तीश्वराष्टकं सम्पूर्णम् ॥