श्रीदशावतारमङ्गलाशासनम्

Click Settings to choose another script or language.
आदावम्बुजसंभवादिविनुतः शान्तोऽच्युतः शाश्वतःसंफुल्लामलपुण्डरीकनयनः पुण्यः पुराणः पुमान् ।लोकेशः श्रुतिचोरसोमकहरोमत्स्यावतारो हरिःश्रीमान्सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ १ ॥
सप्तद्वीपकुलाचलेन्द्रजलधिस्तोमाभिसंक्रान्तभू-भारालीढफणीन्द्रमन्दरधरो मन्दारमालार्चितः ।भावज्ञो बहुचक्रलाञ्छिततनुः कूर्मावतारो हरिःश्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ २ ॥
लीलालोडितसर्वसागरजलः सम्पूर्णचन्द्रप्रभोहेमाक्षासुरखण्डनो भुजगदः चक्राङ्कितः सन्ततम् ।दंष्ट्राग्रोद्धृतमेदिनीभयहरःक्रोडावतारो हरिःश्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ३ ॥
कुन्देन्दुस्फटिकप्रभो बहुभुजो भूषासहस्रोज्ज्वलोदैत्येन्द्रोदरदारणेऽतिनिपुणः स्तम्भोद्भवो भीषणः ।प्रह्लादार्तिहरोदयो नरमृगाकारावतारो हरिःश्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ४ ॥
धातृक्षालितपादपङ्कजभवस्रोतोमहाशाम्बरःप्रक्षालीकृतपादपद्मयुगलो बालो जगज्जीवनः ।भिक्षार्थी बलिदर्पहा पटुवटुःखर्वावतारो हरिःश्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ५ ॥
सद्यःखण्डितराजमण्डलशरीरोद्भूतरक्तापगा-[संसिक्ताखिलभूतलः]पितृवचःसम्पालने निष्ठितः ।वेदज्ञो जमदग्निजः परशुभृद्रामावतारो हरिःश्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ६ ॥
हयग्रीवापरनामा असुरः
राजेन्द्रो रणरङ्गराजविनुतानेकासुराभासुरा-कारो रावणकोटिखण्डनपटुः कोदण्डदीक्षागुरुः ।सीतेशः सुरसज्जनामृतकरो रामावतारो हरिःश्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ७ ॥
कालिन्दीजलभेदनो बहुभुजो भूषासमुद्भासुरःप्रध्वंसी मुसलायुधो हलधरो नीलाम्बरो निर्मलः ।लावण्यापतिरेवतीपतिरसौ रामावतारो हरिःश्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ८ ॥
धर्मज्ञत्रिपुराधिनाथवनिताधर्मोपदेष्टा च त-त्पातिव्रत्यविशेषभञ्जनपरो वेदान्तवेद्यः सदा ।दैत्यव्रातविनाशनादिचतुरो बुद्धावतारो हरिःश्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ९ ॥
म्लेच्छत्रातविनाशकः कलियुगान्तेऽश्वाधिरूढो महा-मायावी बहुभानुकोटिसदृशो भीमांशुचक्रायुधः ।यश्चाङ्गीकृतकल्किरूपविभवो भूमौ भविष्यान्वयःश्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ १० ॥
॥ इति श्रीदशावतारमङ्गलाशासनं सम्पूर्णम् ॥