श्रीअष्टप्रासाष्टकम्

Click Settings to choose another script or language.
शक्राद्यामरसंनुताङ्घ्रियुगलं चक्रायुधाद्यर्चितंनक्रग्रस्तशिशुप्रदानचतुरं शुक्राविसोमाक्षिकम् ।विक्रान्तं श्रुतिमस्तकेषु चरणाब्जाक्रान्तयम्याशयंचक्रारिष्टरसाशताङ्गसुमहच्चक्रं?महेशं भजे ॥ १ ॥
अष्टात्मानमपारसंसृतिदवप्लुष्टात्मनां शान्तिदंशिष्टान्विष्टपदारविन्दमुमया श्लिष्टाङ्गमत्याशया ।दिष्टान्तानभियुक्तमौनितनयं कष्टापहं सेवता-मिष्टं सज्जनसंहतेर्विधिसमादिष्टात्मकाङ्घ्रिं भजे ॥ २ ॥
शृङ्गारामितलोलमद्रिसुतया सङ्गं वृषे गामिनंगङ्गाचन्द्रजटाविरजिमकुटं पिङ्गाननातिप्रियम् ।अङ्गासङ्गितमन्मथा बहुकृपापाङ्गं त्रिशूलायुधंलिङ्गार्चापरदत्तसर्वपुरुषार्थं गेयवीर्यं भजे ॥ ३ ॥
कुण्ठं भक्तजनाहितस्य परमोत्कण्ठास्पदं स्वस्त्रियःकण्ठालङ्कृतनागमाशुगि[जि]तवैकुण्ठाधिपं शङ्करम् ।कण्ठस्थापितकालकूटविषमुत्कण्ठादिषट्कापहंकुण्ठात्मानभिगम्यमानचरितं कण्ठातिनीलं भजे ॥ ४ ॥
अण्डानामखिलस्य नाथमुडुराट्कुण्डं कृपासागरंशुण्डावक्त्रमुखोग्रपाण्ड्यजनकं दण्डायुधारिं शिवम् ।काण्डाकारितवेदफेरु[रूप]ममरोद्दण्डं पुरद्वेषिणंचण्डीप्राणपतिं सुधाशनपतेः शुण्डावदर्च्यं भजे ॥ ५ ॥
हिक्कामुख्यगदाधितापपटलीधिक्कारिदिव्याह्वयंढक्कादुन्दुभिकाहलाद्यविरमसृक्काबृहत्कुक्षिखम्(?)ढक्कामद्रुहमीशितारमतसी सृक्कालिमग्रीवमुंत्वक्कायच्छदमीदृशं खनिजभान्यक्कारिदेहं भजे(?)॥ ६ ॥
भर्गाख्यं परमेश्वरं त्रिजगतां सर्गादिहेतुं मृडंदुर्गाधीशमनन्तमेकमजरं दुर्गापहं ध्यायताम् ।गर्गागस्त्यवसिष्ठमुख्यसुतपद्वर्गान्तरङ्गालयंस्वर्गानोकहमर्थिनां पशुपतिंस्वर्गाभिवन्द्यं भजे ॥ ७ ॥
वित्ताधीशसखं विशालनिटिलं सत्तामयं शाश्वतंचित्तादत्म्यददिव्यनामविभवं चित्ताधिजाताहितम् ।मत्तानेकपगामिनं प्रणवसंवित्तास्वरूपं भवंमत्ताहीनसुबोधगोचरमलं मत्तापहाङ्घ्रिं भजे ॥ ८ ॥
अष्टप्रासाष्टकं शम्भोरिष्टं भक्त्या पठन्ति ये ।इष्टा भवन्ति श्रीगन्धपुष्टिकाननवासिनः ॥ ९ ॥
॥ इति श्रीअष्टप्रासाष्टकं सम्पूर्णम् ॥