शिवभुजंगम्

गलद्दानगण्डं मिलद्भृङ्गषण्डंचलच्चारुशुण्डं जगत्राणशौण्डम् ।कनद्दन्तकाण्डं विपद्भङ्गचण्डंशिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥
अनाद्यन्तमाद्यं परं तत्त्वमर्थंचिदाकारमेकं तुरीयं त्वमेयम् ।हरिब्रह्ममृग्यं परब्रह्मरूपंमनोवागतीतं महःशैवमीडे ॥ २ ॥
स्वशक्त्यादिशक्त्यन्तसिंहासनस्थंमनोहारिसर्वाङ्गरत्नोरुभूषम् ।जटाहीन्दुगङ्गास्थिशम्याकमौलिंपराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३ ॥
शिवेशानतत्पुरुषाघोरवामा-दिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।अनौपम्य षत्त्रिंशतं तत्त्वविद्या-मतीतं परं त्वां कथं वेत्ति को वा ॥ ४ ॥
प्रवालप्रवाहप्रभाशोणमर्धंमरुत्वन्मणिश्रीमहःश्याममर्धम् ।गुणस्यूतमेतद्वपुः शैवमन्तःस्मरामि स्मरापत्तिसंपत्तिहेतोः ॥ ५ ॥
स्वसेवासमायातदेवासुरेन्द्रा-नमन्मौलिमन्दारमालाभिषक्तम् ।नमस्यामि शंभो पदाम्भोरुहं तेभवाम्भोधिपोतं भवानीविभाव्यम् ॥ ६ ॥
जगन्नाथ मन्नाथ गौरीसनाथप्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।महःस्तोममूर्ते समस्तैकबन्धोनमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥
विरूपाक्ष विश्वेश विश्वादिदेवत्रयीमूल शंभो शिव त्र्यम्बक त्वम् ।प्रसीद स्मर त्राहि पश्यावमुक्त्यैक्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥
महादेव देवेश देवादिदेवस्मरारे पुरारे मारे हरेति ।ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तंततो मे दयाशील देव प्रसीद ॥ ९ ॥
त्वदन्यः शरण्यः प्रपन्नस्य नेतिप्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ।न चेत्ते भवेद्भक्तवात्सल्यहानि-स्ततो मे दयालो सदा संनिधेहि ॥ १० ॥
अयं दानकालस्त्वहं दानपात्रंभवानेव दाता त्वदन्यं न याचे ।भवद्भक्तिमेव स्थिरां देहि मह्यंकृपाशील शंभो कृतार्थोऽस्मि तस्मात् ॥ ११ ॥
पशुं वेत्सि चेन्मां तमेवाधिरूढःकलङ्कीति वा मूर्ध्नि धत्से तमेव ।द्विजिह्नः पुनः सोऽपि ते कण्ठभूषात्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥
न शक्नोमि कर्तुं परद्रोहलेशंकथं प्रीयसे त्वं न जाने गिरीश ।तथाहि प्रसन्नोऽसि कस्यापि कान्ता-सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥
स्तुतिं ध्यानमर्चां यथावद्विधातुंभजन्नप्यजानन्महेशावलम्बे ।त्रसन्तं सुतं त्रातुमग्रे मृकण्डो-र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥
शिरोदृष्टिहृद्रोगशूलप्रमेह-ज्वरार्शोजरायक्ष्महिक्काविषार्तान् ।त्वमाद्यो भिषग्भेषजं भस्म शंभोत्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥
दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूयेविषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् ।भवान्प्राणिनामन्तरात्मासि शंभोममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६ ॥
त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्रक्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।किरीटस्फुरच्चामरच्छत्रमाला-कलाचीगजक्षौमभूषाविशेषैः ॥ १७ ॥
भवान्यै भवायापि मात्रे च पित्रेमृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायैशिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ १८ ॥
भवद्गौरवं मल्लघुत्वं विदित्वाप्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।शिवात्मानुभावस्तुतावक्षमोऽहंस्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ॥
यदा कर्णरन्ध्रं व्रजेत्कालवाह-द्विषत्कण्ठघण्टाघणात्कारनादः ।वृषाधीशमारुह्य देवौपवाह्यंतदा वत्स मा भीरिति प्रीणय त्वम् ॥ २० ॥
यदा दारुणाभाषणा भीषणा मेभविष्यन्त्युपान्ते कृतान्तस्य दूताः ।तदा मन्मनस्त्वत्पदाम्भोरुहस्थंकथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ २१ ॥
यदा दुर्निवारव्यथोऽहं शयानोलुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।तदा जह्नुजहुकन्याजलालंकृतं तेजटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥
यदा पुत्रमित्रादयो मत्सकाशेरुदन्त्यस्य हा कीदृशीयं दशेति ।तदा देवदेवेश गौरीश शंभोनमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥
यदा पश्यतां मामसौ वेत्ति नास्मा-नयं श्वास एवेति वाचो भवेयुः ।तदा भूतिभूषं भुजंगावनद्धंपुरारे भवन्तं स्फुटं भावयेयम् ॥ २४ ॥
यदा यातनादेहसंदेहवाहीभवेदात्मदेहे न मोहो महान्मे ।तदा काशशीतांशुसंकाशमीशस्मरारे वपुस्ते नमस्ते स्मराणि ॥ २५ ॥
यदापारमच्छायमस्थानमद्भि-र्जनैर्वा विहीनं गमिष्यामि मार्गम् ।तदा तं निरुन्धन्कृतान्तस्य मार्गंमहादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६ ॥
यदा रौरवादि स्मरन्नेव भीत्याव्रजाम्यत्र मोहं महादेव घोरम् ।तदा मामहो नाथ कस्तारयिष्य-त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७ ॥
यदा श्वेतपत्रायतालङ्घ्यशक्तेःकृतान्ताद्भयं भक्तवात्सल्यभावात् ।तदा पाहि मां पार्वतीवल्लभान्यंन पश्यामि पातारमेतादृशं मे ॥ २८ ॥
इदानीमिदानीं मृतिर्मे भवित्री-त्यहो संततं चिन्तया पीडितोऽस्मि ।कथं नाम मा भून्मृतौ भीतिरेषानमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥
अमर्यादमेवाहमाबालवृद्धंहरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादा-द्भवानीपते निर्भयोऽहं भवानि ॥ ३० ॥
जराजन्मगर्भाधिवासादिदुःखा-न्यसह्यानि जह्यां जगन्नाथ देव ।भवन्तं विना मे गतिर्नैव शंभोदयालो न जागर्ति किं वा दया ते ॥ ३१ ॥
शिवायेति शब्दो नमःपूर्व एषस्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।महेशान मा गान्मनस्तो वचस्तःसदा मह्यमेतत्प्रदानं प्रयच्छ ॥ ३२ ॥
त्वमप्यम्ब मां पश्य शीतांशुमौलि-प्रिये भेषजं त्वं भवव्याधिशान्तौ ।बहुक्लेशभाजं पदाम्भोजपोतेभवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३ ॥
अनुद्यल्ललाटाक्षिवह्निप्ररोहै-रवामस्फुरच्चारुवामोरुशोभैः ।अनङ्गभ्रमद्भोगिभूषाविशेषै-रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥
अकण्ठेकलङ्कादनङ्गेभुजङ्गा-दपाणौकपालादफालेनलाक्षात् ।अमौळौशशाङ्कादवामेकलत्रा-दहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥
महादेव शंभो गिरीश त्रिशूलिं-स्त्वयीदं समस्तं विभातीति यस्मात् ।शिवादन्यथा दैवतं नाभिजानेशिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६ ॥
यतोऽजायतेदं प्रपञ्चं विचित्रंस्थितिं याति यस्मिन्यदेकान्तमन्ते ।स कर्मादिहीनः स्वयंज्योतिरात्माशिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७ ॥
किरीटे निशेशो ललाटे हुताशोभुजे भोगिराजो गले कालिमा च ।तनौ कामिनी यस्य तत्तुल्यदेवंन जाने न जाने न जाने न जाने ॥ ३८ ॥
अनेन स्तवेनादरादम्बिकेशंपरां भक्तिमासाद्य यं ये नमन्ति ।मृतौ निर्भयास्ते जनास्तं भजन्तेहृदम्भोजमध्ये सदासीनमीशम् ॥ ३९ ॥
भुजंगप्रियाकल्पशंभो मयैवंभुजंगप्रयातेन वृत्तेन कॢप्तम् ।नरः स्तोत्रमेतत्पठित्वोरुभक्त्यासुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवभुजंगं संपूर्णम् ॥

Settings