शारदाभुजंगप्रयाताष्टकम्

सुवक्षोजकुम्भां सुधापूर्णकुम्भांप्रसादावलम्बां प्रपुण्यावलम्बाम् ।सदास्येन्दुबिम्बां सदानोष्ठबिम्बांभजे शारदाम्बामजस्रं मदम्बाम् ॥ १ ॥
कटाक्षे दयार्द्रां करे ज्ञानमुद्रांकलाभिर्विनिद्रां कलापैः सुभद्राम् ।पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रांभजे शारदाम्बामजस्रं मदम्बाम् ॥ २ ॥
ललामाङ्कफालां लसद्गानलोलांस्वभक्तैकपालां यशःश्रीकपोलाम् ।करे त्वक्षमालां कनत्प्रत्नलोलांभजे शारदाम्बामजस्रं मदम्बाम् ॥ ३ ॥
सुसीमन्तवेणीं दृशा निर्जितैणोंरमत्कीरवाणीं नमद्वज्रपाणीम् ।सुधामन्थरास्यां मुदा चिन्त्यवेणींभजे शारदाम्बामजस्रं मदम्बाम् ॥ ४ ॥
सुशान्तां सुदेहां दृगन्ते कचान्तांलसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।स्मरेत्तापसैः सङ्गपूर्वस्थितां तांभजे शारदाम्बामजस्रं मदम्बाम् ॥ ५ ॥
कुरङ्गे तुरंगे मृगेन्द्रे खगेन्द्रेमराले मदेभे महोक्षेऽधिरूढाम् ।महत्यां नवम्यां सदा सामरूपांभजे शारदाम्बामजस्रं मदम्बाम् ॥ ६ ॥
ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गींभजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।निजस्तोत्रसंगीतनृत्यप्रभाङ्गींभजे शारदाम्बामजस्रं मदम्बाम् ॥ ७ ॥
भवाम्भोजनेत्राजसंपूज्यमानांलसन्मन्दहासप्रभावक्त्रचिह्नाम् ।चलच्चञ्चलाचारुताटङ्कुकर्णांभजे शारदाम्बामजस्रं मदम्बाम् ॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारदाभुजंगप्रयाताष्टकं संपूर्णम् ॥

Settings