सदाचारानुसंधानम्

सच्चिदानन्दकन्दाय जगदङ्कुरहेतवे ।सदोदिताय पूर्णाय नमोऽनन्ताय विष्णवे ॥ १ ॥
सर्ववेदान्तसिद्धान्तैर्ग्रथितं निर्मलं शिवम् ।सदाचारं प्रवक्ष्यामि योगिनां ज्ञानसिद्धये ॥ २ ॥
प्रातः स्मरामि देवस्य सवितुर्भर्ग आत्मनः ।वरेण्यं तद्धियो यो नश्चिदानन्दे प्रचोदयात् ॥ ३ ॥
अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तिषु ।यदेकं केवलं ज्ञानं तदेवास्मि परं बृहत् ॥ ४ ॥
ज्ञानाज्ञानविलासोऽयं ज्ञानाज्ज्ञाने च शाम्यति ।ज्ञानाज्ञाने परित्यज्य ज्ञानमेवावशिष्यते ॥ ५ ॥
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।असङ्गोऽहमिति ज्ञात्वा शौचमेतत्प्रचक्षते ॥ ६ ॥
मन्मनो मीनवन्नित्यं क्रीडत्यानन्दवारिधौ ।सुस्नातस्तेन पूतात्मा सम्यग्विज्ञानवारिणा ॥ ७ ॥
अथाघमर्षणं कुर्यात्प्राणापाननिरोधतः ।मनः पूर्णे समाधाय मग्नकुम्भो यथार्णवे ॥ ८ ॥
लयविक्षेपयोः संधौ मनस्तत्र निरामिषम् ।स संधिः साधितो येन स मुक्तो नात्र संशयः ॥ ९ ॥
सर्वत्र प्राणिनां देहे जपो भवति सर्वदा ।हंसः सोऽहमिति ज्ञात्वा सर्वबन्धैर्विमुच्यते ॥ १० ॥
तर्पणं स्वसुखेनैव स्वेन्द्रियाणां प्रतर्पणम् ।मनसा मन आलोक्य स्वयमात्मा प्रकाशते ॥ ११ ॥
आत्मनि स्वप्रकाशाग्नौ चित्तमेकाहुतिं क्षिपेत् ।अग्निहोत्री स विज्ञेयश्चेतरा नामधारकाः ॥ १२ ॥
देहो देवालयः प्रोक्तो देही देवो निरञ्जनः ।अर्चितः सर्वभावेन स्वानुभूत्या विराजते ॥ १३ ॥
मौनं स्वाध्ययनं ध्यानं ध्येयं ब्रह्मानुचिन्तनम् ।ज्ञानेनेति तयोः सम्यङ्निषेधात्तत्त्वदर्शनम् ॥ १४ ॥
अतीतानागतं किंचिन्न स्मरामि न चिन्तये ।रागद्वेषं विना प्राप्तं भुञ्जाम्यत्र शुभाशुभम् ॥ १५ ॥
देहाभ्यासो हि संन्यासो नैव काषायवाससा ।नाहं देहोऽहमात्मेति निश्चयो न्यासलक्षणम् ॥ १६ ॥
अभयं सर्वभूतानां दानमाहुर्मनीषिणः ।निजानन्दे स्पृहा नान्ये वैराग्यस्यावधिर्मता ॥ १७ ॥
वेदान्तश्रवणं कुर्यान्मननं चोपपत्तिभिः ।योगेनाभ्यसनं नित्यं ततो दर्शनमात्मनः ॥ १८ ॥
शब्दशक्तेरचिन्त्यत्वाच्छब्दादेवापरोक्षधीः ।प्रसुप्तः पुरुषो यद्वच्छब्देनैवावबुद्ध्यते ॥ १९ ॥
आत्मानात्मविवेकेन ज्ञानं भवति निश्चलम् ।गुरुणा बोधितः शिष्यः शब्दब्रह्मातिवर्तते ॥ २० ॥
न त्वं देहो नेन्द्रियाणि न प्राणो न मनो न धीः ।विकारित्वाद्विनाशित्वाद्दृश्यत्वाच्च घटो यथा ॥ २१ ॥
विशुद्धं केवलं ज्ञानं निर्विशेषं निरञ्जनम् ।यदेकं परमानन्दं तत्त्वमस्यद्वयं परम् ॥ २२ ॥
शब्दस्याद्यन्तयोः सिद्धं मनसोऽपि तथैव च ।मध्ये साक्षितया नित्यं तदेव त्वं भ्रमं जहि ॥ २३ ॥
स्थूलवैराजयोरैक्यं सूक्ष्महैरण्यगर्भयोः ।अज्ञानमाययोरैक्यं प्रत्यग्विज्ञानपूर्णयोः ॥ २४ ॥
चिन्मात्रैकरसे विष्णौ ब्रह्मात्मैक्यस्वरूपके ।भ्रमेणैव जगज्जातं रज्ज्वां सर्पभ्रमो यथा ॥ २५ ॥
तार्किकाणां तु जीवेशौ वाच्यावेतौ विदुर्बुधाः ।लक्ष्यौ च सांख्ययोगाभ्यां वेदान्तैरैक्यता तयोः ॥
कार्यकारणवाच्यांशौ जीवेशौ यौ जहच्च तौ ।अजहच्च तयोर्लक्ष्यौ चिदंशावेकरूपिणौ ॥ । २७ ॥
कर्मशास्त्रे कुतो ज्ञानं तर्के नैवास्ति निश्चयः ।सांख्ययोगौ भिदापन्नौ शाब्दिकाः शब्दतत्पराः ॥
अन्ये पाषण्डिनः सर्वे ज्ञानवार्तासुदुर्लभाः ।एकं वेदान्तविज्ञानं स्वानुभूत्या विराजते ॥ २९ ॥
अहं ममेत्ययं बन्धो ममाहं नेति मुक्तता ।बन्धमोक्षौ गुणैर्भाति गुणाः प्रकृतिसंभवाः ॥ ३० ॥
ज्ञानमेकं सदा भाति सर्वावस्थासु निर्मलम् ।मन्दभाग्या न जानन्ति स्वरूपं केवलं बृहत् ॥ ३१ ॥
संकल्पसाक्षि यज्ज्ञानं सर्वलोकैकजीवनम् ।तदेवास्मीति यो वेद स मुक्तो नात्र संशयः ॥ ३२ ॥
प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा ।यस्य भासावभासन्ते मानं ज्ञानाय तस्य किम् ॥ ३३ ॥
अर्थाकारा भवेद्वृत्तिः फलेनार्थः प्रकाशते ।अर्थज्ञानं विजानाति स एवार्थः प्रकाशते ॥ ३४ ॥
वृत्तिव्याप्यत्वमेवास्तु फलव्याप्तिः कथं भवेत् ।स्वप्रकाशस्वरूपत्वात्सिद्धत्वाच्च चिदात्मनः ॥ ३५ ॥
चित्तं चैतन्यमात्रेण संयोगाच्चेतना भवेत् ।अर्थादर्थान्तरे वृत्तिर्गन्तुं चलति चान्तरे ॥ ३६ ॥
निराधारा निर्विकारा या दशा सोन्मनी स्मृता ।चित्तं चिदिति जानीयात्तकाररहितं यदा ॥ ३७ ॥
तकारो विषयाध्यासो जपारागो यथा मणौ ।ज्ञेयवस्तु परित्यागाज्ज्ञानं तिष्ठति केवलम् ॥ ३८ ॥
त्रिपुटी क्षीणतामेति ब्रह्मनिर्वाणमृच्छति ।मनोमात्रमिदं सर्वं तन्मनो ज्ञानमात्रकम् ॥ ३९ ॥
अज्ञानं भ्रम इत्याहुर्विज्ञानं परमं पदम् ।अज्ञानं चान्यथाज्ञानं मायामेतां वदन्ति ते ॥ ४० ॥
ईश्वरं मायिनं विद्यान्मायातीतं निरञ्जनम् ।सदानन्दे चिदाकाशे मायामेघस्तटिन्मनः ॥ ४१ ॥
अहंता गर्जनं तत्र धारासारा हि वृत्तयः ।महामोहान्धकारेऽस्मिन्देवो वर्षति लीलया ॥ ४२ ॥
तस्या वृष्टेर्विरामाय प्रबोधैकसमीरणः ।ज्ञानं दृग्दृश्ययोर्भावं विज्ञानं दृश्यशून्यता ॥ ४३ ॥
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ।क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानं ज्ञानमुच्यते ॥ ४४ ॥
विज्ञानं चोभयोरैक्यं क्षेत्रज्ञपरमात्मनोः ।परोक्षं शास्त्रजं ज्ञानं विज्ञानं चात्मदर्शनम् ॥ ४५ ॥
आत्मनो ब्रह्मणः सम्यगुपाधिद्वयवर्जितम् ।त्वमर्थविषयं ज्ञानं विज्ञानं तत्पदाश्रयम् ॥ ४६ ॥
पदयोरैक्यबोधस्तु ज्ञानविज्ञानसंज्ञितम् ।आत्मानात्मविवेकस्य ज्ञानमाहुर्मनीषिणः ॥ ४७ ॥
अज्ञानं चान्यथा लोके विज्ञानं तन्मयं जगत् ।अन्वयव्यतिरेकाभ्यां सर्वत्रैकं प्रपश्यति ॥ ४८ ॥
यत्तत्तु वृत्तिजं ज्ञानं विज्ञानं ज्ञानमात्रकम् ।अज्ञानध्वंसकं ज्ञानं विज्ञानं चोभयात्मकम् ॥ ४९ ॥
ज्ञानविज्ञाननिष्ठोऽयं तत्सद्ब्रह्मणि चार्पणम् ।भोक्ता सत्त्वगुणः शुद्धो भोगानां साधनं रजः ॥ ५० ॥
भोग्यं तमोगुणः प्राहुरात्मा चैषां प्रकाशकःब्रह्माध्ययनसंयुक्तो ब्रह्मचर्यारतः सदा ॥ ५१ ॥
सर्वं ब्रह्मेति यो वेद ब्रह्मचारी स उच्यते ।गृहस्थो गुणमध्यस्थः शरीरं गृहमुच्यते ॥ ५२ ॥
गुणाः कुर्वन्ति कर्माणि नाहं कर्तेति बुद्धिमान् ।किमुग्रैश्च तपोभिश्च यस्य ज्ञानमयं तपः ॥ ५३ ॥
हर्षामर्षविनिर्मुक्तो वानप्रस्थः स उच्यते ।स गृही यो गृहातीतः शरीरं गृहमुच्यते ॥ ५४ ॥
सदाचारमिमं नित्यं योऽनुसंदधते बुधः ।संसारसागराच्छीघ्रं स मुक्तो नात्र संशयः ॥ ५५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ सदाचारानुसंधानं संपूर्णम् ॥

Settings